धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 54

  1. [दुर] न भेतव्यं महाराज न शॊच्या भवता वयम समर्थाः सम परान राजन विजेतुं समरे विभॊ ॥ 1 ॥

  2. वनं परव्राजितान पार्थान यद आयान मधुसूदनः महता बलचक्रेण परराष्ट्रावमर्दिना ॥ 2 ॥

  3. केकया धृष्टकेतुश च धृष्टद्युम्नश च पार्षतः राजानश चान्वयुः पार्थान बहवॊ ऽनये ऽनुयायिनः ॥ 3 ॥

  4. इन्द्रप्रस्थस्य चादूरात समाजग्मुर महारथाः वयगर्हयंश च संगम्य भवन्तं कुरुभिः सह ॥ 4 ॥

  5. ते युधिष्ठिरम आसीनम अजिनैः परतिवासितम कृष्ण परधानाः संहत्य पर्युपासन्त भारत ॥ 5 ॥

  6. परत्यादानं च राज्यस्य कार्यम ऊचुर नराधिपाः भवतः सानुबन्धस्य समुच्छेदं चिकीर्षवः ॥ 6 ॥

  7. शरुत्वा चैतन मयॊक्तास तु भीष्मद्रॊणकृपास तदा जञातिक्षयभयाद राजन भीतेन भरतर्षभ ॥ 7 ॥

  8. न ते सथास्यन्ति समये पाण्डवा इति मे मतिः समुच्छेदं हि नः कृत्स्नं वासुदेवश चिकीर्षति ॥ 8 ॥

  9. ऋते च विदुरं सर्वे यूयं वध्या महात्मनः धृतराष्ट्रश च धर्मज्ञॊ न वध्यः कुरुसत्तमः ॥ 9 ॥

  10. समुच्छेदं च कृत्स्नं नः कृत्वा तात जनार्दनः एकराज्यं कुरूणां सम चिकीर्षति युधिष्ठिरे ॥ 10 ॥

  11. तत्र किं पराप्तकालं नः परणिपातः पलायनम पराणान वा संपरित्यज्य परतियुध्यामहे परान ॥ 11 ॥

  12. परतियुद्धे तु नियतः सयाद अस्माकं पराजयः युधिष्ठिरस्य सर्वे हि पार्थिवा वशवर्तिनः ॥ 12 ॥

  13. विरक्त राष्ट्राश च वयं मित्राणि कुपितानि नः धिक्कृताः पार्थिवैः सर्वैः सवजनेन च सर्वशः ॥ 13 ॥

  14. परणिपाते तु दॊषॊ ऽसति बन्धूनां शाश्वतीः समाः पितरं तव एव शॊचामि परज्ञा नेत्रं जनेश्वरम मत्कृते दुःखम आपन्नं कलेशं पराप्तम अनन्तकम ॥ 14 ॥

  15. कृतं हि तव पुत्रैश च परेषाम अवरॊधनम मत्प्रियार्थं पुरैवैतद विदितं ते नरॊत्तम ॥ 15 ॥

  16. ते राज्ञॊ धृतराष्ट्रस्य सामात्यस्य महारथाः वैरं पतिकरिष्यन्ति कुलॊच्छेदेन पाण्डवाः ॥ 16 ॥

  17. ततॊ दरॊणॊ ऽबरवीद भीष्मः कृपॊ दरौणिश च भारत मत्वा मां महतीं चिन्ताम आस्थितं वयथितेन्द्रियम ॥ 17 ॥

  18. अभिद्रुग्धाः परे चेन नॊ न भेतव्यं परंतप असमर्थाः परे जेतुम अस्मान युधि जनेश्वर ॥ 18 ॥

  19. एकैकशः समर्थाः समॊ विजेतुं सर्वपार्थिवान आगच्छन्तु विनेष्यामॊ दर्पम एषां शितैः शरैः ॥ 19 ॥

  20. पुरैकेन हि भीष्मेण विजिताः सर्वपार्थिवाः मृते पितर्य अभिक्रुद्धॊ रथेनैकेन भारत ॥ 20 ॥

  21. जघान सुबहूंस तेषां संरब्धः कुरुसत्तमः ततस ते शरणं जग्मुर देवव्रतम इमं भयात ॥ 21 ॥

  22. स भीष्मः सुसमर्थॊ ऽयम अस्माभिः सहितॊ रणे परान विजेतुं तस्मात ते वयेतु भीर भरतर्षभ इत्य एषां निश्चयॊ हय आसीत तत कालम अमितौजसाम ॥ 22 ॥

  23. पुरा परेषां पृथिवी कृत्स्नासीद वशवर्तिनी अस्मान पुनर अमी नाद्य समर्था जेतुम आहवे छिन्नपक्षाः परे हय अद्य वीर्यहीनाश च पाण्डवाः ॥ 23 ॥

  24. अस्मत संस्था च पृथिवी वर्तते भरतर्षभ एकार्थाः सुखदुःखेषु मयानीताश च पार्थिवाः ॥ 24 ॥

  25. अप्य अग्निं परविशेयुस ते समुद्रं वा परंतप मदर्थे पार्थिवाः सर्वे तद विद्धि कुरुसत्तम ॥ 25 ॥

  26. उन्मत्तम इव चापि तवां परहसन्तीह दुःखितम विलपन्तं बहुविधं भीतं परविकत्थने ॥ 26 ॥

  27. एषां हय एकैकशॊ राज्ञां समर्थः पाण्डवान परति आत्मानं मन्यते सर्वॊ वयेतु ते भयम आगतम ॥ 27 ॥

  28. सर्वां समग्रां सेनां मे वासवॊ ऽपि न शक्नुयात हन्तुम अक्षय्य रूपेयं बरह्मणापि सवयम्भुवा ॥ 28 ॥

  29. युधिष्ठिरः पुरं हित्वा पञ्च गरामान स याचति भीतॊ हि मामकात सैन्यात परभावाच चैव मे परभॊ ॥ 29 ॥

  30. समर्थं मन्यसे यच च कुन्तीपुत्रं वृकॊदरम तन मिथ्या न हि मे कृत्स्नं परभावं वेत्थ भारत ॥ 30 ॥

  31. मत्समॊ हि गदायुद्धे पृथिव्यां नास्ति कश चन नासीत कश चिद अतिक्रान्तॊ भविता न च कश चन ॥ 31 ॥

  32. युक्तॊ दुःखॊचितश चाहं विद्या पारगतस तथा तस्मान न भीमान नान्येभ्यॊ भयं मे विद्यते कव चित ॥ 32 ॥

  33. दुर्यॊधन समॊ नास्ति गदायाम इति निश्चयः संकर्षणस्य भद्रं ते यत तदैनम उपावसम ॥ 33 ॥

  34. युद्धे संकर्षण समॊ बलेनाभ्यधिकॊ भुवि गदाप्रहारं भीमॊ मे न जातु विषहेद युधि ॥ 34 ॥

  35. एकं परहारं यं दद्यां भीमाय रुषितॊ नृप स एवैनं नयेद घॊरं कषिप्रं वैवस्वतक्षयम ॥ 35 ॥

  36. इच्छेयं च गदाहस्तं राजन दरष्टुं वृकॊदरम सुचिरं परार्थितॊ हय एष मम नित्यं मनॊरथः ॥ 36 ॥

  37. गदया निहतॊ हय आजौ मम पार्थॊ वृकॊदरः विशीर्णगात्रः पृथिवीं परासुः परपतिष्यति ॥ 37 ॥

  38. गदाप्रहाराभिहतॊ हिमवान अपि पर्वतः सकृन मया विशीर्येत गिरिः शतसहस्रधा ॥ 38 ॥

  39. स चाप्य एतद विजानाति वासुदेवार्जुनौ तथा दुर्यॊधन समॊ नास्ति गदायाम इति निश्चयः ॥ 39 ॥

  40. तत ते वृकॊदरमयं भयं वयृतु महाहवे वयपनेष्याम्य अहं हय एनं मा राजन विमना भव ॥ 40 ॥

  41. तस्मिन मया हते कषिप्रम अर्जुनं बहवॊ रथाः तुल्यरूपा विशिष्टाश च कषेप्स्यन्ति भरतर्षभ ॥ 41 ॥

  42. भीष्मॊ दरॊणः कृपॊ दरौणिः कर्णॊ भूरिश्रवास तथा पराग्ज्यॊतिषाधिपः शल्यः सिन्धुराजॊ जयद्रथः ॥ 42 ॥

  43. एकैक एषां शक्तस तु हन्तुं भारत पाण्डवान समस्तास तु कषणेनैतान नेष्यन्ति यमसादनम ॥ 43 ॥

  44. समग्रा पार्थिवी सेना पार्थम एकं धनंजयम कस्माद अशक्ता निर्जेतुम इति हेतुर न विद्यते ॥ 44 ॥

  45. शरव्रातैस तु भीष्मेण शतशॊ ऽथ सहस्रशः दरॊण दरौणिकृपैश चैव गन्ता पार्थॊ यमक्षयम ॥ 45 ॥

  46. पितामहॊ हि गाङ्गेयः शंतनॊर अधि भारत बरह्मर्षिसदृशॊ जज्ञे देवैर अपि दुरुत्सहः पित्रा हय उक्तः परसन्नेन नाकामस तवं मरिष्यसि ॥ 46 ॥

  47. बरह्मर्षेश च भरद्वाजाद दरॊण्यां दरॊणॊ वयजायत दरॊणाज जज्ञे महाराज दरौणिश च परमास्त्रवित ॥ 47 ॥

  48. कृपश चाचाय मुख्यॊ ऽयं महर्षेर गौतमाद अपि शरस्तम्बॊद्भवः शरीमान अवध्य इति मे मतिः ॥ 48 ॥

  49. अयॊनिजं तरयं हय एतत पिता माता च मातुलः अश्वत्थाम्नॊ महाराज स च शूरः सथितॊ मम ॥ 49 ॥

  50. सर्व एते महाराज देवकल्पा महारथाः शक्रस्यापि वयथां कुर्युः संयुगे भरतर्षभ ॥ 50 ॥

  51. भीष्मद्रॊणकृपाणां च तुल्यः कर्णॊ मतॊ मम अनुज्ञातश च रामेण मत्समॊ ऽसीति भारत ॥ 51 ॥

  52. कुण्डले रुचिरे चास्तां कर्णस्य सहजे शुभे ते शच्य अर्थे महेन्द्रेण याचितः स परंतपः अमॊघया महाराज शक्त्या परमभीमया ॥ 52 ॥

  53. तस्य शक्त्यॊपगूढस्य कस्माज जीवेद धनंजयः विजयॊ मे धरुवं राजन फलं पाणाव इवाहितम अभिव्यक्तः परेषां च कृत्स्नॊ भुवि पराजयः ॥ 53 ॥

  54. अह्ना हय एकेन भीष्मॊ ऽयम अयुतं हन्ति भारत तत समाश च महेष्वासा दरॊण दरौणिकृपा अपि ॥ 54 ॥

  55. संशप्तानि च वृन्दानि कषत्रियाणां परंतप अर्जुनं वयम अस्मान वा धनंजय इति सम ह ॥ 55 ॥

  56. तांश चालम इति मन्यन्ते सव्यसाचि वधे विभॊ पार्थिवाः स भवान राजन्न अकस्माद वयथते कथम ॥ 56 ॥

  57. भीमसेने च निहते कॊ ऽनयॊ युध्येत भारत परेषां तन ममाचक्ष्व यदि वेत्थ परंतप ॥ 57 ॥

  58. पञ्च ते भरातरः सर्वे धृष्टद्युम्नॊ ऽथ सात्यकिः परेषां सप्त ये राजन यॊधाः परमकं बलम ॥ 58 ॥

  59. अस्माकं तु विशिष्टा ये भीष्मद्रॊणकृपादयः दरौणिर वैकर्तनः कर्णः सॊमदत्तॊ ऽथ बाह्लिकः ॥ 59 ॥

  60. पराग्ज्यॊतिषाधिपः शल्य आवन्त्यॊ ऽथ जयद्रथः दुःशासनॊ दुर्मुखश च दुःसहश च विशां पते ॥ 60 ॥

  61. शरुतायुश चित्रसेनश च पुरुमित्रॊ विविंशतिः शलॊ भूरिश्रवाश चॊभौ विकर्णश च तवात्मजः ॥ 61 ॥

  62. अक्षौहिण्यॊ हि मे राजन दशैका च समाहृताः नयूनाः परेषां सप्तैव कस्मान मे सयात पराजयः ॥ 62 ॥

  63. बलं तरिगुणतॊ हीनं यॊध्यं पराह बृहस्पतिः परेभ्यस तरिगुणा चेयं मम राजन्न अनीकिनी ॥ 63 ॥

  64. गुणहीनं परेषां च बहु पश्यामि भारत गुणॊदयं बहुगुणम आत्मनश च विशां पते ॥ 64 ॥

  65. एतत सर्वं समाज्ञाय बलाग्र्यं मम भारत नयूनतां पाण्डवानां च न मॊहं गन्तुम अर्हसि ॥ 65 ॥

  66. इत्य उक्त्वा संजयं भूयः पर्यपृच्छत भारत विधित्सुः पराप्तकालानि जञात्वा परपुरंजयः ॥ 66 ॥

Reach this point to mark the section finished.

Continue to अध्याय 55

Previous: अध्याय 53