[धृ] यस्य वै नानृता वाचः परवृत्ता अनुशुश्रुमः तरैलॊक्यम अपि तस्य सयाद यॊधा यस्य धनंजयः ॥ 1 ॥
तस्यैव च न पश्यामि युधि गाण्डीवधन्वनः अनिशं चिन्तयानॊ ऽपि यः परतीयाद रथेन तम ॥ 2 ॥
अस्यतः कर्णिनालीकान मार्गणान हृदयच छिदः परत्येता न समः कश चिद युधि गाण्डीवधन्वनः ॥ 3 ॥
दरॊणकर्णौ परतीयातां यदि वीरौ नरर्षभौ माहात्म्यात संशयॊ लॊके न तव अस्ति विजयॊ मम ॥ 4 ॥
घृणी कर्णः परमादी च आचार्यः सथविरॊ गुरुः समर्थॊ बलवान पार्थॊ दृढधन्वा जितक्लमः भवेत सुतुमुलं युद्धं सर्वशॊ ऽपय अपराजयः ॥ 5 ॥
सर्वे हय अस्त्रविदः शूराः सर्वे पराप्ता महद यशः अपि सर्मामरैश्वर्यं तयजेयुर न पुनर जयम वधे नूनं भवेच छान्तिस तयॊर वा फल्गुनस्य वा ॥ 6 ॥
न तु जेतार्जुनस्यास्ति हन्ता चास्य न विद्यते मन्युस तस्य कथं शाम्येन मन्दान परति य उत्थितः ॥ 7 ॥
अन्ये ऽपय अस्त्राणि जानन्ति जीयन्ते च जयन्ति च एकान्तविजयस तव एव शरूयते फल्गुनस्य ह ॥ 8 ॥
तरयस तरिंशत समाहूय खाण्डवे ऽगनिम अतर्पयत जिगाय च सुरान सर्वान नास्य वेद्मि पराजयम ॥ 9 ॥
यस्य यन्ता हृषीकेशः शीलवृत्तसमॊ युधि धरुवस तस्य जयस तात यथेन्द्रस्य जयस तथा ॥ 10 ॥
कृष्णाव एकरथे यत्ताव अधिज्यं गाण्डिवं धनुः युगपत तरीणि तेजांसि समेतान्य अनुशुश्रुमः ॥ 11 ॥
नैव नॊ ऽसति धनुस तादृङ न यॊद्धा न च सारथिः तच च मन्दा न जानन्ति दुर्यॊधन वशानुगाः ॥ 12 ॥
शेषयेद अशनिर दीप्तॊ निपतन मूर्ध्नि संजय न तु शेषं शराः कुर्युर अस्तास तात किरीटिना ॥ 13 ॥
अपि चास्यन्न इवाभाति निघ्नन्न इव च फल्गुनः उद्धरन्न इव कायेभ्यः शिरांसि शरवृष्टिभिः ॥ 14 ॥
अपि बाणमयं तेजः परदीप्तम इव सर्वतः गाण्डीवेद्धं दहेताजौ पुत्राणां मम वाहिनीम ॥ 15 ॥
अपि सा रथघॊषेण भयार्ता सव्यसाचिनः वित्रस्ता बहुला सेना भारती परतिभाति मे ॥ 16 ॥
यथा कक्षं दहत्य अग्निः परवृद्धः सर्वतश चरन महार्चिर अनिलॊद्धूतस तद्वद धक्ष्यति मामकान ॥ 17 ॥
यदॊद्वमन निशितान बाणसंघान; सथाताततायी समरे किरीटी सृष्टॊ ऽनतकः सर्वहरॊ विधात्रा; यथा भवेत तद्वद अवारणीयः ॥ 18 ॥
यदा हय अभीक्ष्णं सुबहून परकाराञ; शरॊतास्मि तान आवसथे कुरूणाम तेषां समन्ताच च तथा रणाग्रे; कषयः किलायं भरतान उपैति ॥ 19 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 51
Reach this point to mark the section finished.
Continue to अध्याय 52