धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 50

  1. [धृ] सर्व एते महॊत्साहा ये तवया परिकीर्तिताः एकतस तव एव ते सर्वे समेता भीम एकतः ॥ 1 ॥

  2. भीमसेनाद धि मे भूयॊ भयं संजायते महत करुद्धाद अमर्षणात तात वयाघ्राद इव महारुरॊः ॥ 2 ॥

  3. जागर्मि रात्रयः सर्वा दीर्घम उष्णं च निःश्वसन भीतॊ वृकॊदरात तात सिंहात पशुर इवाबलः ॥ 3 ॥

  4. न हि तस्य महाबाहॊर अक्र परतिमतेजसः सैन्ये ऽसमिन परतिपश्यामि य एनं विषहेद युधि ॥ 4 ॥

  5. अमर्षणश च कौन्तेयॊ दृढवैरश च पाण्डवः अनर्म हासी सॊन्मादस तिर्यक परेक्षी महास्वनः ॥ 5 ॥

  6. महावेगॊ महॊत्साहॊ महाबाहुर महाबलः मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति ॥ 6 ॥

  7. ऊरुग्राहगृहीतानां गदां बिभ्रद वृकॊदरः कुरूणाम ऋषभॊ युद्धे दण्डपाणिर इवान्तकः ॥ 7 ॥

  8. सैक्यायसमयीं घॊरां गदां काञ्चनभूषिताम मनसाहं परपश्यामि बरह्मदण्डम इवॊद्यतम ॥ 8 ॥

  9. यथा रुरूणां यूथेषु सिंहॊ जातबलश चरेत मामकेषु तथा भीमॊ बलेषु विचरिष्यति ॥ 9 ॥

  10. सर्वेषां मम पुत्राणां स एकः करूर विक्रमः बह्व आशीविप्रतीपश च बाल्ये ऽपि रभसः सदा ॥ 10 ॥

  11. उद्वेपते मे हृदयं यदा दुर्यॊधनादयः बाल्ये ऽपि तेन युध्यन्तॊ वारणेनेव मर्दिताः ॥ 11 ॥

  12. तस्य वीर्येण संक्लिष्टा नित्यम एव सुता मम स एव हेतुर भेदस्य भीमॊ भीमपराक्रमः ॥ 12 ॥

  13. गरसमानम अनीकानि नरवारणवाजिनाम पश्यामीवाग्रतॊ भीमं करॊधमूर्छितम आहवे ॥ 13 ॥

  14. अस्त्रे दरॊणार्जुन समं वायुवेगसमं जवे संजयाचक्ष्व मे शूरं भीमसेनम अमर्षणम ॥ 14 ॥

  15. अतिलाभं तु मन्ये ऽहं यत तेन रिपुघातिना तदैव न हताः सर्वे मम पुत्रा मनस्विना ॥ 15 ॥

  16. येन भीमबला यक्षा राक्षसाश च समाहताः कथं तस्य रणे वेगं मानुषः परसहिष्यति ॥ 16 ॥

  17. न स जातु वशे तस्थौ मम बालॊ ऽपि संजय किं पुनर मम दुष्पुत्रैः कलिष्टः संप्रति पाण्डवः ॥ 17 ॥

  18. निष्ठुरः स च नैष्ठुर्याद भज्येद अपि न संनमेत तिर्यक परेक्षी संहतभ्रूः कथं शाम्येद वृकॊदरः ॥ 18 ॥

  19. बृहद अंसॊ ऽपरतिबलॊ गौरस ताल इवॊद्गतः परमाणतॊ भीमसेनः परादेशेनाधिकॊ ऽरजुनात ॥ 19 ॥

  20. जवेन वाजिनॊ ऽतयेति बलेनात्येति कुञ्जरान अव्यक्तजल्पी मध्व अक्षॊ मध्यमः पाण्डवॊ बली ॥ 20 ॥

  21. इति बाल्ये शरुतः पूर्वं मया वयास मुखात पुरा रूपतॊ वीर्यतश चैव याथातथ्येन पाण्डवः ॥ 21 ॥

  22. आयसेन स दण्डेन रथान नागान हयान नरान हनिष्यति रणे करुद्धॊ भीमः परहरतां वरः ॥ 22 ॥

  23. अमर्षी नित्यसंरब्धॊ रौद्रः करूरपराक्रमः मम तात परतीपानि कुर्वन पूर्वं विमानितः ॥ 23 ॥

  24. निष्कीर्णाम आयसीं सथूलां सुपर्वां काञ्चनीं गदाम शतघ्नीं शतनिर्ह्रादां कथं शक्ष्यन्ति मे सुताः ॥ 24 ॥

  25. अपारम अप्लवागाधं समुद्रं शरवेगिनम भीमसेनमयं दुर्गं तात मन्दास तितीर्षवः ॥ 25 ॥

  26. करॊशतॊ मे न शृण्वन्ति बालाः पण्डितमानिनः विषमं नावबुध्यन्ते परपातं मधु दर्शिनः ॥ 26 ॥

  27. संयुगं ये करिष्यन्ति नररूपेण वायुना नियतं चॊदिता धात्रा सिंहेनेव महामृगाः ॥ 27 ॥

  28. शैक्यां तात चतुष्किष्कुं षड अस्रिम अमितौजसम परहितां दुःखसंस्पर्शां कथं शक्ष्यन्ति मे सुताः ॥ 28 ॥

  29. गदां भरामयतस तस्य भिन्दतॊ हस्तिमस्तकान सृक्किणी लेलिहानस्य बाष्पम उत्सृजतॊ मुहुः ॥ 29 ॥

  30. उद्दिश्य पातान पततः कुर्वतॊ भैरवान रवान परतीपान पततॊ मत्तान कुञ्जरान परतिगर्जतः ॥ 30 ॥

  31. विगाह्य रथमार्गेषु वरान उद्दिश्य निघ्नतः अग्नेः परज्वलितस्येव अपि मुच्येत मे परजा ॥ 31 ॥

  32. वीथीं कुर्वन महाबाहुर दरावयन मम वाहिनीम नृत्यन्न इव गदापाणिर युगान्तं दर्शयिष्यति ॥ 32 ॥

  33. परभिन्न इव मातङ्गः परभञ्जन पुष्पितान दरुमान परवेक्ष्यति रणे सेनां पुत्राणां मे वृकॊदरः ॥ 33 ॥

  34. कुर्वन रथान विपुरुषान विध्वजान भग्नपुष्करान आरुजन पुरुषव्याघ्रॊ रथिनः सादिनस तथा ॥ 34 ॥

  35. गङ्गा वेग इवानूपांस तीरजान विविधान दरुमान परवेक्ष्यति महासेनां पुत्राणां मम संजय ॥ 35 ॥

  36. वशं नूनं गमिष्यन्ति भीमसेनबलार्दिताः मम पुत्राश च भृत्याश च राजानश चैव संजय ॥ 36 ॥

  37. येन राजा महावीर्यः परविश्यान्तःपुरं पुरा वासुदेवसहायेन जरासंधॊ निपातितः ॥ 37 ॥

  38. कृत्स्नेयं पृथिवी देवी जरासंधेन धीमता मागधेन्द्रेण बलिना वशे कृत्वा परतापिता ॥ 38 ॥

  39. भीष्म परतापात कुरवॊ नयेनान्धकवृष्णयः ते न तस्य वशं जग्मुः केवलं दैवम एव वा ॥ 39 ॥

  40. स गत्वा पाण्डुपुत्रेण तरसा बाहुशालिना अनायुधेन वीरेण निहतः किं ततॊ ऽधिकम ॥ 40 ॥

  41. दीर्घकालेन संसिक्तं विषम आशीविषॊ यथा स मॊक्ष्यति रणे तेजः पुत्रेषु मम संजय ॥ 41 ॥

  42. महेन्द्र इव वज्रेण दानवान देव सत्तमः भीमसेनॊ गदापाणिः सूदयिष्यति मे सुतान ॥ 42 ॥

  43. अविषह्यम अनावार्यं तीव्रवेगपराक्रमम पश्यामीवातिताम्राक्षम आपतन्तं वृकॊदरम ॥ 43 ॥

  44. अगदस्याप्य अधनुषॊ विरथस्य विवर्मणः बाहुभ्यां युध्यमानस्य कस तिष्ठेद अग्रतः पुमान ॥ 44 ॥

  45. भीष्मॊ दरॊणश च विप्रॊ ऽयं कृपः शारद्वतस तथा जानन्त्य एते यथैवाहं वीर्यज्ञस तस्य धीमतः ॥ 45 ॥

  46. आर्य वरतं तु जानन्तः संगरान न बिभित्सवः सेनामुखेषु सथास्यन्ति मामकानां नरर्षभाः ॥ 46 ॥

  47. बलीयः सर्वतॊ दिष्टं पुरुषस्य विशेषतः पश्यन्न अपि जयं तेषां न नियच्छामि यत सुतान ॥ 47 ॥

  48. ते पुराणं महेष्वासा मार्गम ऐन्द्रं समास्थिताः तयक्ष्यन्ति तुमुले पराणान रक्षन्तः पार्थिवं यशः ॥ 48 ॥

  49. यथैषां मामकास तात तथैषां पाण्डवा अपि पौत्रा भीष्मस्य शिष्याश च दरॊणस्य च कृपस्य च ॥ 49 ॥

  50. यत तव अस्मद आश्रयं किं चिद दत्तम इष्टं च संजय तस्यापचितिम आर्यत्वात कर्तारः सथविरास तरयः ॥ 50 ॥

  51. आददानस्य शस्त्रं हि कषत्रधर्मं परीप्सतः निधनं बराह्मणस्याजौ वरम एवाहुर उत्तमम ॥ 51 ॥

  52. स वै शॊचामि सर्वान वै ये युयुत्सन्ति पाण्डवान विक्रुष्टं विदुरेणादौ तद एतद भयम आगतम ॥ 52 ॥

  53. न तु मन्ये विघाताय जञानं दुःखस्य संजय भवत्य अतिबले हय एतज जञानम अप्य उपघातकम ॥ 53 ॥

  54. ऋषयॊ हय अपि निर्मुक्ताः पश्यन्तॊ लॊकसंग्रहान सुखे भवन्ति सुखिनस तथा दुःखेन दुःखिताः ॥ 54 ॥

  55. किं पुनर यॊ ऽहम आसक्तस तत्र तत्र सहस्रधा पुत्रेषु राज्यदारेषु पौत्रेष्व अपि च बन्धुषु ॥ 55 ॥

  56. संशये तु महत्य अस्मिन किं नु मे कषमम उत्तमम विनाशं हय एव पश्यामि कुरूणाम अनुचिन्तयन ॥ 56 ॥

  57. दयूतप्रमुखम आभाति कुरूणां वयसनं महत मन्देनैश्वर्यकामेन लॊभात पापम इदं कृतम ॥ 57 ॥

  58. मन्ये पर्याय धर्मॊ ऽयं कालस्यात्यन्त गामिनः चक्रे परधिर इवासक्तॊ नास्य शक्यं पलायितुम ॥ 58 ॥

  59. किं नु कार्यं कथं कुर्यां कव नु गच्छामि संजय एते नश्यन्ति कुरवॊ मन्दाः कालवशं गताः ॥ 59 ॥

  60. अवशॊ ऽहं पुरा तात पुत्राणां निहते शते शरॊष्यामि निनदं सत्रीणां कथं मां मरणं सपृशेत ॥ 60 ॥

  61. यथा निदाघे जवलनः समिद्धॊ; दहेत कक्षं वायुना चॊद्यमानः गदाहस्तः पाण्डवस तद्वद एव; हन्ता मदीयान सहितॊ ऽरजुनेन ॥ 61 ॥

Reach this point to mark the section finished.

Continue to अध्याय 51

Previous: अध्याय 49