धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 52

  1. [धृ] यथैव पाण्डवाः सर्वे पराक्रान्ता जिगीषवः तथैवाभिसरास तेषां तयक्तात्मानॊ जये धृताः ॥ 1 ॥

  2. तवम एव हि पराक्रान्तान आचक्षीथाः परान मम पाञ्चालान केकयान मत्स्यान मागधान वत्सभूमिपान ॥ 2 ॥

  3. यश च सेन्द्रान इमाँल लॊकान इच्छन कुर्याद वशे बली स शरेष्ठॊ जगतः कृष्णः पाण्डवानां जये धृतः ॥ 3 ॥

  4. समस्ताम अर्जुनाद विद्यां सात्यकिः कषिप्रम आप्तवान शैनेयः समरे सथाता बीजवत परवपञ शरान ॥ 4 ॥

  5. धृष्टद्युम्नश च पाञ्चाल्यः करूरकर्मा महारथः मामकेषु रणं कर्ता बलेषु परमास्त्रवित ॥ 5 ॥

  6. युधिष्ठिरस्य च करॊधाद अर्जुनस्य च विक्रमात यमाभ्यां भीमसेनाच च भयं मे तात जायते ॥ 6 ॥

  7. अमानुषं मनुष्येन्द्रैर जालं विततम अन्तरा मम सेनां हनिष्यन्ति ततः करॊशामि संजय ॥ 7 ॥

  8. दर्शनीयॊ मनस्वी च लक्ष्मीवान बरह्म वर्चसी मेधावी सुकृतप्रज्ञॊ धर्मात्मा पाण्डुनन्दनः ॥ 8 ॥

  9. मित्रामात्यैः सुसंपन्नः संपन्नॊ यॊज्य यॊजकैः भरातृभिः शवशुरैः पुत्रैर उपपन्नॊ महारथैः ॥ 9 ॥

  10. धृत्या च पुरुषव्याघॊर नैभृत्येन च पाण्डवः अनृशंसॊ वदान्यश च हरीमान सत्यपराक्रमः ॥ 10 ॥

  11. बहुश्रुतः कृतात्मा च वृद्धसेवी जितेन्द्रियः तं सर्वगुणसंपन्नं समिद्धम इव पावकम ॥ 11 ॥

  12. तपन्तम इव कॊ मन्दः पतिष्यति पतंगवत पाण्डवाग्निम अनावार्यं मुमूर्षुर मूढ चेतनः ॥ 12 ॥

  13. तनुर उच्चः शिखी राजा शुद्धजाम्बूनदप्रभः मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति ॥ 13 ॥

  14. तैर अयुद्धं साधु मन्ये कुरवस तन निबॊधत युद्धे विनाशः कृत्स्नस्य कुलस्य भविता धरुवम ॥ 14 ॥

  15. एषा मे परमा शान्तिर यया शाम्यति मे मनः यदि तव अयुद्धम इष्टं वॊ वयं शान्त्यै यतामहे ॥ 15 ॥

  16. न तु नः शिक्षमाणानाम उपेक्षेत युधिष्ठिरः जुगुप्सति हय अधर्मेण माम एवॊद्धिश्य कारणम ॥ 16 ॥

Reach this point to mark the section finished.

Continue to अध्याय 53

Previous: अध्याय 51