धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 49

  1. [धृ] किम असौ पाण्डवॊ राजा धर्मपुत्रॊ ऽभयभाषत शरुत्वेमा बहुलाः सेनाः परत्यर्थेन समागताः ॥ 1 ॥

  2. किम इच्छत्य अभिसंरम्भाद यॊत्स्यमानॊ युधिष्ठिरः कस्य सविद भरातृपुत्राणां चिन्तासु मुखम ईक्षते ॥ 2 ॥

  3. के सविद एनं वारयन्ति शाम्य युध्येति वा पुनः निकृत्या कॊपितं मन्दैर धर्मज्ञं धर्मचारिणम ॥ 3 ॥

  4. [सम्जय] राज्ञॊ मुखम उदीक्षन्ते पाञ्चालाः पाण्डवैः सह युधिष्ठिरस्य भद्रं ते स सर्वान अनुशास्ति च ॥ 4 ॥

  5. पृथग बूताः पाण्डवानां पाञ्चालानां रथव्रजाः आयान्तम अभिनन्दन्ति कुन्तीपुत्रं युधिष्ठिरम ॥ 5 ॥

  6. तमः सूर्यम इवॊद्यन्तं कौन्तेयं दीप्ततेजसम पाञ्चालाः परतिनन्दन्ति तेजॊराशिम इवॊद्यतम ॥ 6 ॥

  7. आ गॊपालावि पालेभ्यॊ नन्दमानं युधिष्ठिरम पाञ्चालाः केकया मत्स्याः परतिनन्दन्ति पाण्डवम ॥ 7 ॥

  8. बराह्मण्यॊ राजपुत्र्यश च विशां दुहितरश च याः करीडन्त्यॊ ऽभिसमायान्ति पार्थं संनद्धम ईक्षितुम ॥ 8 ॥

  9. संजयाचक्ष्व केनास्मान पाण्डवा अभ्ययुञ्जत धृष्टद्युम्नेन सेनान्या सॊमकाः किंबला इव ॥ 9 ॥

  10. गावल्गणिस तु तत पृष्टः सभायां कुरुसंसदि निःश्वस्य सुभृशं दीर्घं मुहुः संचिन्तयन्न इव तत्रानिमित्ततॊ दैवात सूतं कश्मलम आविशत ॥ 10 ॥

  11. तदाचचक्षे पुरुषः सभायां राजसंसदि संजयॊ ऽयं महाराज मूर्च्छितः पतितॊ भुवि वाचं न सृजते कांचिद धीन परज्ञॊ ऽलपचेतनः ॥ 11 ॥

  12. अपश्यत संजयॊ नूनं कुन्तीपुत्रान महारथान तैर अस्य पुरुषव्याघ्रैर भृशम उद्वेजितं मनः ॥ 12 ॥

  13. संजयश चेतनां लब्ध्वा परत्याश्वस्येदम अब्रवीत धृतराष्ट्रं महाराज सभायां कुरुसंसदि ॥ 13 ॥

  14. दृष्टवान अस्मि राजेन्द्र कुन्तीपुत्रान महारथान मत्स्यराजगृहावासाद अवरॊधेन कर्शितान शृणु यैर हि महाराज पाण्डवा अभ्ययुञ्जत ॥ 14 ॥

  15. यॊ नैव रॊषान न भयान न कामान नार्थकारणात न हेतुवादाद धमात्मा सत्यं जह्यात कथं चन ॥ 15 ॥

  16. यः परमाणं महाराज धर्मे धर्मभृतां वरः अजातशत्रुणा तेन पाण्डवा अभ्ययुञ्जत ॥ 16 ॥

  17. यस्य बाहुबले तुल्यः पृथिव्यां नास्ति कश चन यॊ वै सर्वान महीपालान वशे चक्रे धनुर्धरः तेन वॊ भीमसेनेन पाण्डवा अभ्ययुञ्जत ॥ 17 ॥

  18. निःसृतानां जतु गृहाद धिडिम्बात पुरुषादकात य एषाम अभवद दवीपः कुन्तीपुत्रॊ वृकॊदरः ॥ 18 ॥

  19. याज्ञसेनीम अथॊ यत्र सिन्धुराजॊ ऽपकृष्टवान तत्रैषाम अभवद दवीपः कुन्तीपुत्रॊ वृकॊदरः ॥ 19 ॥

  20. यश च तान संगतान सर्वान पाण्डवान वारणावते दह्यतॊ मॊचयाम आस तेन वस ते ऽभययुञ्जत ॥ 20 ॥

  21. कृष्णायाश चरता परीतिं येन करॊधवशा हताः परविश्य विषमं घॊरं पर्वतं गन्धमादनम ॥ 21 ॥

  22. यस्य नामायुतं वीर्यं भुजयॊः सारम अर्पितम तेन वॊ भीमसेनेन पाण्डवा अभ्ययुञ्जत ॥ 22 ॥

  23. कृष्ण दवितीयॊ विक्रम्य तुष्ट्यर्थं जातवेदसः अजयद यः पुरा वीरॊ युध्यमानं पुरंदरम ॥ 23 ॥

  24. यः स साक्षान महादेवं गिरिशं शूलपाणिनम तॊषयाम आस युद्धेन देवदेवम उमापतिम ॥ 24 ॥

  25. यश च सर्वान वशे चक्रे लॊकपालान धनुर्धरः तेन वॊ विजयेनाजौ पाण्डवा अभ्ययुञ्जत ॥ 25 ॥

  26. यः परतीचीं दिशं चक्रे वशे मेच्छ गनायुताम स तत्र नकुलॊ यॊद्धा चित्रयॊधी वयवस्थितः ॥ 26 ॥

  27. तेन वॊ दर्शनीयेन वीरेणाति धनुर्भृता माद्रीपुत्रेण कौरव्य पाण्डवा अभ्ययुञ्जत ॥ 27 ॥

  28. यः काशीन अङ्गमगधान कलिङ्गांश च युधाजयत तेन वः सहदेवेन पाण्डवा अभ्ययुञ्जत ॥ 28 ॥

  29. यस्य वीर्येण सदृशाश चत्वारॊ भुवि मानवाः अश्वत्थामा धृष्टकेतुः परद्युम्नॊ रुक्मिर एव च ॥ 29 ॥

  30. तेन वः सहदेवेन पाण्डवा अभ्ययुञ्जत यवीयसा नृवीरेण माद्री नन्दिकरेण च ॥ 30 ॥

  31. तपश चचार या घॊरं काशिकन्या पुरा सती भीष्मस्य वधम इच्छन्ती परेत्यापि भरतर्षभ ॥ 31 ॥

  32. पाञ्चालस्य सुता जज्ञे दैवाच च स पुनः पुमान सत्रीपुंसॊः पुरुषव्याघ्र यः स वेद गुणागुणान ॥ 32 ॥

  33. यः कलिङ्गान समापेदे पाञ्चालॊ युद्धदुर्मदः शिखण्डिना वः कुरवः कृतास्त्रेणाभ्ययुञ्जत ॥ 33 ॥

  34. यां यक्षः पुरुषं चक्रे भीष्मस्य निधने किल महेष्वासेन रौद्रेण पाण्डवा अभ्ययुञ्जत ॥ 34 ॥

  35. महेष्वासा राजपुत्रा भारतः पञ्च केकयाः सुमृष्टकवचाः शूरास तैश च वस ते ऽभययुञ्जत ॥ 35 ॥

  36. यॊ दीर्घबाहुः कषिप्रास्त्रॊ धृतिमान सत्यविक्रमः तेन वॊ वृष्णिवीरेण युयुधानेन संगरः ॥ 36 ॥

  37. य आसीच छरणं काले पाण्डवानां महात्मनाम रणे तेन विराटेन पाण्डवा अभ्ययुञ्जत ॥ 37 ॥

  38. यः स काशिपती राजा वाराणस्यां महारथः स तेषाम अभवद यॊधा तेन वस ते ऽभययुञ्जत ॥ 38 ॥

  39. शिशुभिर दुर्जयैः संख्ये दरौपदेयैर महात्मभिः आशीविषसमस्पर्शैः पाण्डवा अभ्ययुञ्जत ॥ 39 ॥

  40. यः कृष्ण सदृशॊ वीर्ये युधिष्ठिर समॊ दमे तेनाभिमन्युना संख्ये पाण्डवा अभ्ययुञ्जत ॥ 40 ॥

  41. यश चैवाप्रतिमॊ वीर्ये धृष्टकेतुर महायशाः दुःसहः समरे करुद्धः शैशुपालिर महारथः तेन वश चेदिराजेन पाण्डवा अभ्ययुञ्जत ॥ 41 ॥

  42. यः संश्रयः पाण्डवानां देवानाम इव वासवः तेन वॊ वासुदेवेन पाण्डवा अभ्ययुञ्जत ॥ 42 ॥

  43. तथा चेदिपतेर भराता शरभॊ भरतर्षभ करकर्षेण सहितस ताभ्यां वस ते ऽभययुञ्जत ॥ 43 ॥

  44. जारा संधिः सहदेवॊ जयत्सेनश च ताव उभौ दरुपदश च महातेजा बलेन महता वृतः तयक्तात्मा पाण्डवार्थाय यॊत्स्यमानॊ वयवस्थितः ॥ 44 ॥

  45. एते चान्ये च बहवः पराच्यॊदीच्या महीक्षितः शतशॊ यान अपाश्रित्य धर्मराजॊ वयवस्थितः ॥ 45 ॥

Reach this point to mark the section finished.

Continue to अध्याय 50

Previous: अध्याय 48