धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 48

  1. [व] समवेतेषु सर्वेषु तेषु राजसु भारत दुर्यॊधनम इदं वाक्यं भीष्मः शांतनवॊ ऽबरवीत ॥ 1 ॥

  2. बृहस्पतिश चॊशना च बराह्मणं पर्युपस्थितौ मरुतश च सहेन्द्रेण वसवश च सहाश्विनौ ॥ 2 ॥

  3. आदित्याश चैव साध्याश च ये च सप्तर्षयॊ दिवि विश्वावसुश च गन्धर्वः शुभाश चापरसां गणाः ॥ 3 ॥

  4. नमस्कृत्वॊपजग्मुस ते लॊकवृद्धं पितामहम परिवार्य च विश्वेशं पर्यासत दिवौकसः ॥ 4 ॥

  5. तेषां मनश च तेजश चाप्य आददानौ दिवौकसाम पूर्वदेवौ वयतिक्रान्तौ नरनारायणाव ऋषी ॥ 5 ॥

  6. बृहस्पतिश च पप्रच्छ बराह्मणं काव इमाव इति भवन्तं नॊपतिष्ठेते तौ नः शंस पितामह ॥ 6 ॥

  7. याव एतौ पृथिवीं दयां च भासयन्तौ तपस्विनौ जवलन्तौ रॊचमानौ च वयाप्यातीतौ महाबलौ ॥ 7 ॥

  8. नरनारायणाव एतौ लॊकाल लॊकं समास्थितौ ऊर्जितौ सवेन तपसा महासत्त्वपराक्रमौ ॥ 8 ॥

  9. एतौ हि कर्मणा लॊकान नन्दयाम आसतुर धरुवौ असुराणाम अभावाय देवगन्धर्वपूजितौ ॥ 9 ॥

  10. जगाम शक्रस तच छरुत्वा यत्र तौ तेपतुस तपः सार्धं देवगणैः सर्वैर बृहस्पतिपुरॊगमैः ॥ 10 ॥

  11. तदा देवासुरे घॊरे भये जाते दिवौकसाम अयाचत महात्मानौ नरनारायणौ वरम ॥ 11 ॥

  12. ताव अब्रूतां वृणीष्वेति तदा भरतसत्तम अथैताव अब्रवीच छक्रः साह्यं नः करियताम इति ॥ 12 ॥

  13. ततस तौ शक्रम अब्रूतां करिष्यावॊ यद इच्छसि ताभ्यां स सहितः शक्रॊ विजिग्ये दैत्यदानवान ॥ 13 ॥

  14. नर इन्द्रस्य संग्रामे हत्वा शत्रून परंतपः पौलॊमान कालखञ्जांश च सहस्राणि शतानि च ॥ 14 ॥

  15. एष भरान्ते रथे तिष्ठन भल्लेनापहरच छिरः जम्भस्य गरसमानस्य यज्ञम अर्जुन आहवे ॥ 15 ॥

  16. एष पारे समुद्रस्य हिरण्यपुरम आरुजत हत्वा षष्टिसहस्राणि निवातकवचान रणे ॥ 16 ॥

  17. एष देवान सहेन्द्रेण जित्वा परपुरंजयः अतर्पयन महाबाहुर अर्जुनॊ जातवेदसम नारायणस तथैवात्र भूयसॊ ऽनयाञ जघान ह ॥ 17 ॥

  18. एवम एतौ महावीर्यौ तौ पश्यत समागतौ वासुदेवार्जुनौ वीरौ समवेतौ महारथौ ॥ 18 ॥

  19. नरनारायणौ देवौ पूर्वदेवाव इति शरुतिः अजेयौ मानुषे लॊके सेन्द्रैर अपि सुरासुरैः ॥ 19 ॥

  20. एष नारायणः कृष्णः फल्गुनस तु नरः समृतः नारायणॊ नरश चैव सत्त्वम एकं दविधाकृतम ॥ 20 ॥

  21. एतौ हि कर्मणा लॊकान अश्नुवाते ऽकषयान धरुवान तत्र तत्रैव जायेते युद्धकाले पुनः पुनः ॥ 21 ॥

  22. तस्मात कर्मैव कर्तव्यम इति हॊवाच नारदः एतद धि सर्वम आचष्ट वृष्णिचक्रस्य वेदवित ॥ 22 ॥

  23. शङ्खचक्रगदाहस्तं यदा दरक्ष्यसि केशवम पर्याददानं चास्त्राणि भीमधन्वानम अर्जुनम ॥ 23 ॥

  24. सनातनौ महात्मानौ कृष्णाव एकरथे सथितौ दुर्यॊधन तदा तात समर्तासि वचनं मम ॥ 24 ॥

  25. नॊ चेद अयम अभावः सयात कुरूणां परत्युपस्थितः अर्थाच च तात धर्माच च तव बुद्धिर उपप्लुता ॥ 25 ॥

  26. न चेद गरहीष्यसे वाक्यं शरॊतासि सुबहून हतान तवैव हि मतं सर्वे कुरवः पर्युपासते ॥ 26 ॥

  27. तरयाणाम एव च मतं तत्त्वम एकॊ ऽनुमन्यसे रामेण चैव शप्तस्य कर्णस्य भरतर्षभ ॥ 27 ॥

  28. दुर्जातेः सूतपुत्रस्य शकुनेः सौबलस्य च तथा कषुद्रस्य पापस्य भरातुर दुःशासनस्य च ॥ 28 ॥

  29. [कर्ण] नैवम आयुष्मता वाच्यं यन माम आत्थ पितामह कषत्रधर्मे सथितॊ हय अस्मि सवधर्माद अनपेयिवान ॥ 29 ॥

  30. किं चान्यन मयि दुर्वृत्तं येन मां परिगर्हसे न हि मे वृजिनं किं चिद धार्तराष्ट्रा विदुः कव चित ॥ 30 ॥

  31. राज्ञॊ हि धृतराष्ट्रस्य सर्वं कार्यं परियं मया तथा दुर्यॊधनस्यापि स हि राज्ये समाहितः ॥ 31 ॥

  32. कर्णस्य तु वचः शरुत्वा भीष्मः शांतनवः पुनः धृतराष्ट्रं महाराजम आभाष्येदं वचॊ ऽबरवीत ॥ 32 ॥

  33. यद अयं कत्थते नित्यं हन्ताहं पाण्डवान इति नायं कलापि संपूर्णा पाण्डवानां महात्मनाम ॥ 33 ॥

  34. अनयॊ यॊ ऽयम आगन्ता पुत्राणां ते दुरात्मनाम तद अस्य कर्म जानीहि सूतपुत्रस्य दुर्मतेः ॥ 34 ॥

  35. एनम आश्रित्य पुत्रस ते मन्दबुद्धिः सुयॊधनः अवमन्यत तान वीरान देवपुत्रान अरिंदमान ॥ 35 ॥

  36. किं चाप्य अनेन तत कर्मकृतं पूर्वं सुदुष्करम तैर यथा पाण्डवैः सर्वैर एकैकेन कृतं पुरा ॥ 36 ॥

  37. दृष्ट्वा विराटनगरे भरातरं निहतं परियम धनंजयेन विक्रम्य किम अनेन तदा कृतम ॥ 37 ॥

  38. सहितान हि कुरून सर्वान अभियातॊ धनंजयः परमथ्य चाच्छिनद गावः किम अयं परॊषितस तदा ॥ 38 ॥

  39. गन्धर्वैर घॊषयात्रायां हरियते यत सुतस तव कव तदा सूतपुत्रॊ ऽभूद य इदानीं वृषायते ॥ 39 ॥

  40. ननु तत्रापि पार्थेन भीमेन च महात्मना यमाभ्याम एव चागम्य गन्धर्वास ते पराजिताः ॥ 40 ॥

  41. एतान्य अस्य मृषॊक्तानि बहूनि भरतर्षभ विकत्थनस्य भद्रं ते सदा धर्मार्थलॊपिनः ॥ 41 ॥

  42. भीष्मस्य तु वचः शरुत्वा भारद्वाजॊ महामनाः धृतराष्ट्रम उवाचेदं राजमध्ये ऽभिपूजयन ॥ 42 ॥

  43. यद आह भरतश्रेष्ठॊ भीष्मस तत करियतां नृप न कामम अर्थलिप्सूनां वचनं कर्तुम अर्हसि ॥ 43 ॥

  44. पुरा युद्धात साधु मन्ये पाण्डवैः सह संगम यद वाक्यम अर्जुनेनॊक्तं संजयेन निवेदितम ॥ 44 ॥

  45. सर्वं तद अभिजानामि करिष्यति च पाण्डवः न हय अस्य तरिषु लॊकेषु सदृशॊ ऽसति धनुर्धरः ॥ 45 ॥

  46. अनादृत्य तु तद वाक्यम अर्थवद दरॊण भीष्मयॊः ततः स संजयं राजा पर्यपृच्छत पाण्डवम ॥ 46 ॥

  47. तदैव कुरवः सर्वे निराशा जीविते ऽभवन भीष्मद्रॊणौ यदा राजा न सम्यग अनुभाषते ॥ 47 ॥

Reach this point to mark the section finished.

Continue to अध्याय 49

Previous: अध्याय 47