धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 45

  1. [सन] यत तच छुक्रं महज जयॊतिर दीप्यमानं महद यशः तद वै देवा उपासन्ते यस्माद अर्कॊ विराजते यॊगिनस तं परपश्यन्ति भगवन्तं सनातनम ॥ 1 ॥

  2. शुक्राद बरह्म परभवति बरह्म शुक्रेण वर्धते तच छुक्रं जयॊतिषां मध्ये ऽतप्तं तपति तापनम यॊगिनस तं परपश्यन्ति भगवन्तं सनातनम ॥ 2 ॥

  3. आपॊ ऽथ अद्भ्यः सलिलस्य मध्ये; उभौ देवौ शिश्रियाते ऽनतरिक्षे स सध्रीचीः स विषूचीर वसाना; उभे बिभर्ति पृथिवीं दिवं च यॊगिनस तं परपश्यन्ति भगवन्तं सनातनम ॥ 3 ॥

  4. उभौ च देवौ पृथिवीं दिवं च; दिशश च शुक्रं भुवनं बिभर्ति तस्माद दिशः सरितश च सरवन्ति; तस्मात समुद्रा विहिता महान्तः यॊगिनस तं परपश्यन्ति भगवन्तं सनातनम ॥ 4 ॥

  5. चक्रे रथस्य तिष्ठन्तं धरुवस्याव्यय कर्मणः केतुमन्तं वहन्त्य अश्वास तं दिव्यम अजरं दिवि यॊगिनस तं परपश्यन्ति भगवन्तं सनातनम ॥ 5 ॥

  6. न सादृश्ये तिष्ठति रूपम अस्य; न चक्षुषा पश्यति कश चिद एनम मनीषयाथॊ मनसा हृदा च; यैवं विदुर अमृतास ते भवन्ति यॊगिनस तं परपश्यन्ति भगवन्तं सनातनम ॥ 6 ॥

  7. दवादश पूगां सरितं देव रक्षितम मधु ईशन्तस तदा संचरन्ति घॊरम यॊगिनस तं परपश्यन्ति भगवन्तं सनातनम ॥ 7 ॥

  8. तद अर्धमासं पिबति संचित्य भरमरॊ मधु ईशानः सर्वभूतेषु हविर भूतम अकल्पयत यॊगिनस तं परपश्यन्ति भगवन्तं सनातनम ॥ 8 ॥

  9. हिरण्यपर्णम अश्वत्थम अभिपत्य अपक्षकाः यॊगिनस तं परपश्यन्ति भगवन्तं सनातनम ॥ 9 ॥

  10. पूर्णात पूर्णान्य उद्धरन्ति पूर्णात पूर्णानि चक्रिरे हरन्ति पूर्णात पूर्णानि पूर्णम एवावशिष्यते यॊगिनस तं परपश्यन्ति भगवन्तं सनातनम ॥ 10 ॥

  11. तस्माद वै वायुर आयातस तस्मिंश च परयतः सदा तस्माद अग्निश च सॊमश च तस्मिंश च पराण आततः ॥ 11 ॥

  12. सर्वम एव ततॊ विद्यात तत तद वक्तुं न शक्नुमः यॊगिनस तं परपश्यन्ति भगवन्तं सनातनम ॥ 12 ॥

  13. अपानं गिरति पराणः पराणं गिरति चन्द्रमाः आदित्यॊ गिरते चन्द्रमादित्यं गिरते परः यॊगिनस तं परपश्यन्ति भगवन्तं सनातनम ॥ 13 ॥

  14. एकं पादं नॊत्क्षिपति सलिलाद धंस उच्चरन तं चेत सततम ऋत्विजं न मृत्युर नामृतं भवेत यॊगिनस तं परपश्यन्ति भगवन्तं सनातनम ॥ 14 ॥

  15. एवं देवॊ महात्मा स पावकं पुरुषॊ गिरन यॊ वै तं पुरुषं वेद तस्येहात्मा न रिष्यते यॊगिनस तं परपश्यन्ति भगवन्तं सनातनम ॥ 15 ॥

  16. यः सहस्रं सहस्राणां पक्षान संतत्य संपतेत मध्यमे मध्य आगच्छेद अपि चेत सयान मनॊजवः यॊगिनस तं परपश्यन्ति भगवन्तं सनातनम ॥ 16 ॥

  17. न दर्शने तिष्ठति रूपम अस्य; पश्यन्ति चैनं सुविशुद्धसत्त्वाः हितॊ मनीषी मनसाभिपश्येद; ये तं शरयेयुर अमृतास ते भवन्ति यॊगिनस तं परपश्यन्ति भगवन्तं सनातनम ॥ 17 ॥

  18. गूहन्ति सर्पा इव गह्वराणि; सवशिक्षया सवेन वृत्तेन मर्त्याः तेषु परमुह्यन्ति जना विमूढा; यथाध्वानं मॊहयन्ते भयाय यॊगिनस तं परपश्यन्ति भगवन्तं सनातनम ॥ 18 ॥

  19. सदा सदासत्कृतः सयान न मृत्युर अमृतं कुतः सत्यानृते सत्यसमान बन्धने; सतश च यॊनिर असतश चैक एव यॊगिनस तं परपश्यन्ति भगवन्तं सनातनम ॥ 19 ॥

  20. न साधुना नॊत असाधुना वा; समानम एतद दृश्यते मानुषेषु समानम एतद अमृतस्य विद्याद; एवं युक्तॊ मधु तद वै परीप्सेत यॊगिनस तं परपश्यन्ति भगवन्तं सनातनम ॥ 20 ॥

  21. नास्यातिवादा हृदयं तापयन्ति; नानधीतं नाहुतम अग्निहॊत्रम मनॊ बराह्मीं लघुताम आदधीत; परज्ञानम अस्य नाम धीरा लभन्ते यॊगिनस तं परपश्यन्ति भगवन्तं सनातनम ॥ 21 ॥

  22. एवं यः सर्वभूतेषु आत्मानम अनुपश्यति अन्यत्रान्यत्र युक्तेषु किं स शॊचेत ततः परम ॥ 22 ॥

  23. यथॊद पाने महति सर्वतः संप्लुतॊदके एवं सर्वेषु वेदेषु बराह्मणस्य विजानतः ॥ 23 ॥

  24. अङ्गुष्ठ मात्रः पुरुषॊ महात्मा; न दृश्यते ऽसौ हृदये निविष्टः अजश चरॊ दिवारात्रम अतन्द्रितश च; स तं मत्वा कविर आस्ते परसन्नः ॥ 24 ॥

  25. अहम एवास्मि वॊ माता पिता पुत्रॊ ऽसम्य अहं पुनः आत्माहम अपि सर्वस्य यच च नास्ति यद अस्ति च ॥ 25 ॥

  26. पितामहॊ ऽसमि सथविरः पिता पुत्रश च भारत ममैव यूयम आत्मस्था न मे यूयं न वॊ ऽपय अहम ॥ 26 ॥

  27. आत्मैव सथानं मम जन्म चात्मा; वेदप्रॊक्तॊ ऽहम अजर परतिष्ठः ॥ 27 ॥

  28. अणॊर अणीयान सुमनाः सर्वभूतेषु जागृमि पितरं सर्वभूतानां पुष्करे निहितं विदुः ॥ 28 ॥

Reach this point to mark the section finished.

Continue to अध्याय 46

Previous: अध्याय 44