[व] एवं सनत्सुजातेन विदुरेण च धीमता सार्धं कथयतॊ राज्ञः सा वयतीयाय शर्वरी ॥ 1 ॥
तस्यां रजन्यां वयुष्टायां राजानः सर्व एव ते सभाम आविविशुर हृष्टाः सूतस्यॊपदिदृक्षया ॥ 2 ॥
शुश्रूषमाणाः पार्थानां वचॊ धर्मार्थसंहितम धृतराष्ट्र मुखाः सर्वे ययू राजसभां शुभाम ॥ 3 ॥
सुधावदातां विस्तीर्णां कनकाजिर भूषिताम चन्द्रप्रभां सुरुचिरां सिक्तां परमवारिणा ॥ 4 ॥
रुचिरैर आसनैः सतीर्णां काञ्चनैर दारवैर अपि अश्मसारमयैर दान्तैः सवास्तीर्णैः सॊत्तरच छदैः ॥ 5 ॥
भीष्मॊ दरॊणः कृपः शल्यः कृतवर्मा जयद्रथः अश्वत्थामा विकर्णश च सॊमदत्तश च बाह्लिकः ॥ 6 ॥
विदुरश च महाप्राज्ञॊ युयुत्सुश च महारथः सर्वे च सहिताः शूराः पार्थिवा भरतर्षभ धृतराष्ट्रं पुरस्कृत्य विविशुस तां सभां शुभाम ॥ 7 ॥
दुःशासनश चित्रसेनः शकुनिश चापि सौबलः दुर्मुखॊ दुःसहः कर्ण उलूकॊ ऽथ विविंशतिः ॥ 8 ॥
कुरुराजं पुरस्कृत्य दुर्यॊधनम अमर्षणम विविशुस तां सभां राजन सुराः शक्र सदॊ यथा ॥ 9 ॥
आविशद्भिस तदा राजञ शूरैः परिघबाहुभिः शुशुभे सा सभा राजन सिंहैर इव गिरेर गुहा ॥ 10 ॥
ते परविश्य महेष्वासाः सभां समितिशॊभनाः आसनानि महार्हाणि भेजिरे सूर्यवर्चसः ॥ 11 ॥
आसनस्थेषु सर्वेषु तेषु राजसु भारत दवाःस्थॊ निवेदयाम आस सूतपुत्रम उपस्थितम ॥ 12 ॥
अयं स रथ आयाति यॊ ऽयासीत पाण्डवान परति दूतॊ नस तूर्णम आयातः सैन्धवैः साधु वाहिभिः ॥ 13 ॥
उपयाय तु स कषिप्रं रथात परस्कन्द्य कुण्डली परविवेश सभां पूर्णां महीपालैर महात्मभिः ॥ 14 ॥
[सम्जय] पराप्तॊ ऽसमि पाण्डवान गत्वा तद विजानीत कौरवाः यथा वयः कुरून सर्वान परतिनन्दन्ति पाण्डवाः ॥ 15 ॥
अभिवादयन्ति वृद्धांश च वयस्यांश च वयस्यवत यूनश चाभ्यवदन पार्थाः परतिपूज्य यथा वयः ॥ 16 ॥
यथाहं धृतराष्ट्रेण शिष्टः पूर्वम इतॊ गतः अब्रुवं पाण्डवान गत्वा तन निबॊधत पार्थिवाः ॥ 17 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 46
Reach this point to mark the section finished.
Continue to अध्याय 47