[धृ] अनुक्तं यदि ते किं चिद वाचा विदुर विद्यते तन मे शुश्रूषवे बरूहि विचित्राणि हि भाषसे ॥ 1 ॥
धृतराष्ट्र कुमारॊ वै यः पुराणः सनातनः सनत्सुजातः परॊवाच मृत्युर नास्तीति भारत ॥ 2 ॥
स ते गुह्यान परकाशांश च सर्वान हृदयसंश्रयान परवक्ष्यति महाराज सर्वबुद्धिमतां वरः ॥ 3 ॥
किं तवं न वेद तद भूयॊ यन मे बरूयात सनातनः तवम एव विदुर बरूहि परज्ञा शेषॊ ऽसति चेत तव ॥ 4 ॥
शूद्रयॊनाव अहं जातॊ नातॊ ऽनयद वक्तुम उत्सहे कुमारस्य तु या बुद्धिर वेद तां शाश्वतीम अहम ॥ 5 ॥
बराह्मीं हि यॊनिम आपन्नः सुगुह्यम अपि यॊ वदेत न तेन गर्ह्यॊ देवानां तस्माद एतद बरवीमि ते ॥ 6 ॥
बरवीहि विदुर तवं मे पुराणं तं सनातनम कथम एतेन देहेन सयाद इहैव समागमः ॥ 7 ॥
चिन्तयाम आस विदुरस तम ऋषिं संशितव्रतम स च तच चिन्तितं जञात्वा दर्शयाम आस भारत ॥ 8 ॥
स चैनं परतिजग्राह विधिदृष्टेन कर्मणा सुखॊपविष्टं विश्रान्तम अथैनं विदुरॊ ऽबरवीत ॥ 9 ॥
भगवन संशयः कश चिद धृतराष्ट्रस्य मानसे यॊ न शक्यॊ मया वक्तुं तम अस्मै वक्तुम अर्हसि यं शरुत्वायं मनुष्येन्द्रः सुखदुःखातिगॊ भवेत ॥ 10 ॥
लाभालाभौ परिय दवेष्यौ यथैनं न जरान्तकौ विषहेरन भयामर्षौ कषुत्पिपासे मदॊद्भवौ अरतिश चैव तन्द्री च कामक्रॊधौ कषयॊदयौ ॥ 11 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 41
Reach this point to mark the section finished.
Continue to अध्याय 42