धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 40

  1. [वि] यॊ ऽभयर्थितः सद्भिर असज्जमानः; करॊत्य अर्थं शक्तिम अहापयित्वा कषिप्रं यशस तं समुपैति सन्तम अलं; परसन्ना हि सुखाय सन्तः ॥ 1 ॥

  2. महान्तम अप्य अर्थम अधर्मयुक्तं; यः संत्यजत्य अनुपाक्रुष्ट एव सुखं स दुःखान्य अवमुच्य शेते; जीर्णां तवचं सर्प इवावमुच्य ॥ 2 ॥

  3. अनृतं च समुत्कर्षे राजगामि च पैशुनम गुरॊश चालीक निर्बन्धः समानि बरह्महत्यया ॥ 3 ॥

  4. असूयैक पदं मृत्युर अतिवादः शरियॊ वधः अशुश्रूषा तवरा शलाघा विद्यायाः शत्रवस तरयः ॥ 4 ॥

  5. सुखार्थिनः कुतॊ विद्या नास्ति विद्यार्थिनः सुखम सुखार्थी वा तयजेद विद्यां विद्यार्थी वा सुखं तयजेत ॥ 5 ॥

  6. नाग्निस तृप्यति काष्ठानां नापगानां महॊदधिः नान्तकः सर्वभूतानां न पुंसां वामलॊचना ॥ 6 ॥

  7. आशा धृतिं हन्ति समृद्धिम अन्तकः; करॊधः शरियं हन्ति यशः कदर्यता अपालनं हन्ति पशूंश च राजन्न; एकः करुद्धॊ बराह्मणॊ हन्ति राष्ट्रम ॥ 7 ॥

  8. अजश च कांस्यं च रथश च नित्यं; मध्व आकर्षः शकुनिः शरॊत्रियश च वृद्धॊ जञातिर अवसन्नॊ वयस्य; एतानि ते सन्तु गृहे सदैव ॥ 8 ॥

  9. अजॊक्षा चन्दनं वीणा आदर्शॊ मधुसर्पिषी विषम औदुम्बरं शङ्खः सवर्णं नाभिश च रॊचना ॥ 9 ॥

  10. गृहे सथापयितव्यानि धन्यानि मनुर अब्रवीत देव बराह्मण पूजार्थम अतिथीनां च भारत ॥ 10 ॥

  11. इदं च तवां सर्वपरं बरवीमि; पुण्यं पदं तात महाविशिष्टम न जातु कामान न भयान न लॊभाद; धर्मं तयजेज जीवितस्यापि हेतॊः ॥ 11 ॥

  12. नित्यॊ धर्मः सुखदुःखे तव अनित्ये; नित्यॊ जीवॊ धातुर अस्य तव अनित्यः तयक्त्वानित्यं परतितिष्ठस्व नित्ये; संतुष्य तवं तॊष परॊ हि लाभः ॥ 12 ॥

  13. महाबलान पश्य मनानुभावान; परशास्य भूमिं धनधान्य पूर्णाम राज्यानि हित्वा विपुलांश च भॊगान; गतान नरेन्द्रान वशम अन्तकस्य ॥ 13 ॥

  14. मृतं पुत्रं दुःखपुष्टं मनुष्या; उत्क्षिप्य राजन सवगृहान निर्हरन्ति तं मुक्तकेशाः करुणं रुदन्तश; चितामध्ये काष्ठम इव कषिपन्ति ॥ 14 ॥

  15. अन्यॊ धनं परेतगतस्य भुङ्क्ते; वयांसि चाग्निश च शरीरधातून दवाभ्याम अयं सह गच्छत्य अमुत्र; पुण्येन पापेन च वेष्ट्यमानः ॥ 15 ॥

  16. उत्सृज्य विनिवर्तन्ते जञातयः सुहृदः सुताः अग्नौ परास्तं तु पुरुषं कर्मान्वेति सवयं कृतम ॥ 16 ॥

  17. अस्माल लॊकाद ऊर्ध्वम अमुष्य चाधॊ; महत तमस तिष्ठति हय अन्धकारम तद वै महामॊहनम इन्द्रियाणां; बुध्यस्व मा तवां परलभेत राजन ॥ 17 ॥

  18. इदं वचः शक्ष्यसि चेद यथावन; निशम्य सर्वं परतिपत्तुम एवम यशः परं पराप्स्यसि जीवलॊके; भयं न चामुत्र न चेह ते ऽसति ॥ 18 ॥

  19. आत्मा नदी भारत पुण्यतीर्था; सत्यॊदका धृतिकूला दमॊर्मिः तस्यां सनातः पूयते पुण्यकर्मा; पुण्यॊ हय आत्मा नित्यम अम्भॊ ऽमभ एव ॥ 19 ॥

  20. कामक्रॊधग्राहवतीं पञ्चेन्द्रिय जलां नदीम कृत्वा धृतिमयीं नावं जन्म दुर्गाणि संतर ॥ 20 ॥

  21. परज्ञा वृद्धं धर्मवृद्धं सवबन्धुं; विद्या वृद्धं वयसा चापि वृद्धम कार्याकार्ये पूजयित्वा परसाद्य; यः संपृच्छेन न स मुह्येत कदा चित ॥ 21 ॥

  22. धृत्या शिश्नॊदरं रक्षेत पाणिपादं च चक्षुषा चक्षुः शरॊत्रे च मनसा मनॊ वाचं च कर्मणा ॥ 22 ॥

  23. नित्यॊदकी नित्ययज्ञॊपवीती; नित्यस्वाध्यायी पतितान्न वर्जी ऋतं बरुवन गुरवे कर्म कुर्वन; न बराह्मणश चयवते बरह्मलॊकात ॥ 23 ॥

  24. अधीत्य वेदान परिसंस्तीर्य चाग्नीन; इष्ट्वा यज्ञैः पालयित्वा परजाश च गॊब्राह्मणार्थे शस्त्रपूतान्तर आत्मा; हतः संग्रामे कषत्रियः सवर्गम एति ॥ 24 ॥

  25. वैश्यॊ ऽधीत्य बराह्मणान कषत्रियांश च; धनैः काले संविभज्याश्रितांश च तरेता पूतं धूमम आघ्राय पुण्यं; परेत्य सवर्गे देव सुखानि भुङ्क्ते ॥ 25 ॥

  26. बरह्मक्षत्रं वैश्य वर्णं च शूद्रः; करमेणैतान नयायतः पूजयानः तुष्टेष्व एतेष्व अव्यथॊ दग्धपापस; तयक्त्वा देहं सवर्गसुखानि भुङ्क्ते ॥ 26 ॥

  27. चातुर्वर्ण्यस्यैष धर्मस तवॊक्तॊ; हेतुं चात्र बरुवतॊ मे निबॊध कषात्राद धर्माद धीयते पाण्डुपुत्रस; तं तवं राजन राजधर्मे नियुङ्क्ष्व ॥ 27 ॥

  28. एवम एतद यथा मां तवम अनुशासति नित्यदा ममापि च मतिः सौम्य भवत्य एवं यथात्थ माम ॥ 28 ॥

  29. सा तु बुद्दिः कृताप्य एवं पाण्डवान रप्ति मे सदा दुर्यॊधनं समासाद्य पुनर विपरिवर्तते ॥ 29 ॥

  30. न दिष्टम अभ्यतिक्रान्तुं शक्यं मर्त्येन केन चित दिष्टम एव कृतं मन्ये पौरुषं तु निरर्थकम ॥ 30 ॥

Reach this point to mark the section finished.

Continue to अध्याय 41

Previous: अध्याय 39