धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 38

  1. [वि] ऊर्ध्वं पराणा हय उत्क्रामन्ति यूनः सथविर आयति परत्युत्थानाभिवादाभ्यां पुनस तान पतिपद्यते ॥ 1 ॥

  2. पीठं दत्त्वा साधवे ऽभयागताय; आनीयापः परिनिर्णिज्य पादौ सुखं पृष्ट्वा परतिवेद्यात्म संस्थं; ततॊ दद्याद अन्नम अवेक्ष्य धीरः ॥ 2 ॥

  3. यस्यॊदकं मधुपर्कं च गां च; न मन्त्रवित परतिगृह्णाति गेहे लॊभाद भयाद अर्थकार्पण्यतॊ वा; तस्यानर्थं जीवितम आहुर आर्याः ॥ 3 ॥

  4. चिकित्सकः शक्य कर्तावकीर्णी; सतेनः करूरॊ मद्यपॊ भरूणहा च सेनाजीवी शरुतिविक्रायकश च; भृशं परियॊ ऽपय अतिथिर नॊदकार्हः ॥ 4 ॥

  5. अविक्रेयं लवणं पक्वम अन्नं दधि; कषीरं मधु तैलं घृतं च तिला मांसं मूलफलानि शाकं; रक्तं वासः सर्वगन्धा गुडश च ॥ 5 ॥

  6. अरॊषणॊ यः समलॊष्ट काञ्चनः; परहीण शॊकॊ गतसंधि विग्रहः निन्दा परशंसॊपरतः परियाप्रिये; चरन्न उदासीनवद एष भिक्षुकः ॥ 6 ॥

  7. नीवार मूलेङ्गुद शाकवृत्तिः; सुसंयतात्माग्निकार्येष्व अचॊद्यः वने वसन्न अतिथिष्व अप्रमत्तॊ; धुरंधरः पुण्यकृद एष तापसः ॥ 7 ॥

  8. अपकृत्वा बुद्धिमतॊ दूरस्थॊ ऽसमीति नाश्वसेत दीर्घौ बुद्धिमतॊ बाहू याभ्यां हिंसति हिंसितः ॥ 8 ॥

  9. न विश्वसेद अविश्वस्ते विश्वस्ते नातिविश्वसेत विश्वासाद भयम उत्पन्नं मूलान्य अपि निकृन्तति ॥ 9 ॥

  10. अनीर्ष्युर गुप्तदारः सयात संविभागी परियंवदः शलक्ष्णॊ मधुरवाक सत्रीणां न चासां वशगॊ भवेत ॥ 10 ॥

  11. पूजनीया महाभागाः पुण्याश च गृहदीप्तयः सत्रियः शरियॊ गृहस्यॊक्तास तस्माद रक्ष्या विशेषतः ॥ 11 ॥

  12. पितुर अन्तःपुरं दद्यान मातुर दद्यान महानसम गॊषु चात्मसमं दद्यात सवयम एव कृषिं वरजेत भृत्यैर वणिज्याचारं च पुत्रैः सेवेत बराह्मणान ॥ 12 ॥

  13. अद्भ्यॊ ऽगनिर बरह्मतः कषत्रम अश्मनॊ लॊहम उत्थितम तेषां सर्वत्रगं तेजः सवासु यॊनिषु शाम्यति ॥ 13 ॥

  14. नित्यं सन्तः कुले जाताः पावकॊपम तेजसः कषमावन्तॊ निराकाराः काष्ठे ऽगनिर इव शेरते ॥ 14 ॥

  15. यस्य मन्त्रं न जानन्ति बाह्याश चाभ्यन्तराश च ये स राजा सर्वतश चक्षुश चिरम ऐश्वर्यम अश्नुते ॥ 15 ॥

  16. करिष्यन न परभाषेत कृतान्य एव च दर्शयेत धर्मकामार्थ कार्याणि तथा मन्त्रॊ न भिद्यते ॥ 16 ॥

  17. गिरिपृष्ठम उपारुह्य परासादं वा रहॊगतः अरण्ये निःशलाके वा तत्र मन्त्रॊ विधीयते ॥ 17 ॥

  18. नासुहृत परमं मन्त्रं भारतार्हति वेदितुम अपण्डितॊ वापि सुहृत पण्डितॊ वाप्य अनात्मवान अमात्ये हय अर्थलिप्सा च मन्त्ररक्षणम एव च ॥ 18 ॥

  19. कृतानि सर्वकार्याणि यस्य वा पार्षदा विदुः गूढमन्त्रस्य नृपतेस तस्य सिद्धिर असंशयम ॥ 19 ॥

  20. अप्रशस्तानि कर्माणि यॊ मॊहाद अनुतिष्ठति स तेषां विपरिभ्रंशे भरश्यते जीविताद अपि ॥ 20 ॥

  21. कर्मणां तु परशस्तानाम अनुष्ठानं सुखावहम तेषाम एवाननुष्ठानं पश्चात तापकरं महत ॥ 21 ॥

  22. सथानवृद्ध कषयज्ञस्य षाड्गुण्य विदितात्मनः अनवज्ञात शीलस्य सवाधीना पृथिवी नृप ॥ 22 ॥

  23. अमॊघक्रॊधहर्षस्य सवयं कृत्यान्ववेक्षिणः आत्मप्रत्यय कॊशस्य वसुधेयं वसुंधरा ॥ 23 ॥

  24. नाममात्रेण तुष्येत छत्रेण च महीपतिः भृत्येभ्यॊ विसृजेद अर्थान नैकः सर्वहरॊ भवेत ॥ 24 ॥

  25. बराह्मणॊ बराह्मणं वेद भर्ता वेद सत्रियं तथा अमात्यं नृपतिर वेद राजा राजानम एव च ॥ 25 ॥

  26. न शत्रुर अङ्कम आपन्नॊ मॊक्तव्यॊ वध्यतां गतः अहताद धि भयं तस्माज जायते नचिराद इव ॥ 26 ॥

  27. दैवतेषु च यत्नेन राजसु बराह्मणेषु च नियन्तव्यः सदा करॊधॊ वृद्धबालातुरेषु च ॥ 27 ॥

  28. निरर्थं कलहं पराज्ञॊ वर्जयेन मूढ सेवितम कीर्तिं च लभते लॊके न चानर्थेन युज्यते ॥ 28 ॥

  29. परसादॊ निष्फलॊ यस्य करॊधश चापि निरर्थकः न तं भर्तारम इच्छन्ति षण्ढं पतिम इव सत्रियः ॥ 29 ॥

  30. न बुद्धिर धनलाभाय न जाड्यम असमृद्धये लॊकपर्याय वृत्तान्तं पराज्ञॊ जानाति नेतरः ॥ 30 ॥

  31. विद्या शीलवयॊवृद्धान बुद्धिवृद्धांश च भारत धनाभिजन वृद्धांश च नित्यं मूढॊ ऽवमन्यते ॥ 31 ॥

  32. अनार्य वृत्तम अप्राज्ञम असूयकम अधार्मिकम अनर्थाः कषिप्रम आयान्ति वाग दुष्टं करॊधनं तथा ॥ 32 ॥

  33. अविसंवादनं दानं समयस्याव्यतिक्रमः आवर्तयन्ति भूतानि सम्यक परणिहिता च वाक ॥ 33 ॥

  34. अविसंवादकॊ दक्षः कृतज्ञॊ मतिमान ऋजुः अपि संक्षीण कॊशॊ ऽपि लभते परिवारणम ॥ 34 ॥

  35. धृतिः शमॊ दमः शौचं कारुण्यं वाग अनिष्ठुरा मित्राणां चानभिद्रॊहः सतैताः समिधः शरियः ॥ 35 ॥

  36. असंविभागी दुष्टात्मा कृतघ्नॊ निरपत्रपः तादृङ नराधमॊ लॊके वर्जनीयॊ नराधिप ॥ 36 ॥

  37. न स रात्रौ सुखं शेते स सर्प इव वेश्मनि यः कॊपयति निर्दॊषं स दॊषॊ ऽभयन्तरं जनम ॥ 37 ॥

  38. येषु दुष्टेषु दॊषः सयाद यॊगक्षेमस्य भारत सदा परसादनं तेषां देवतानाम इवाचरेत ॥ 38 ॥

  39. ये ऽरथाः सत्रीषु समासक्ताः परथमॊत्पतितेषु च ये चानार्य समासक्ताः सर्वे ते संशयं गताः ॥ 39 ॥

  40. यत्र सत्री यत्र कितवॊ यत्र बालॊ ऽनुशास्ति च मज्जन्ति ते ऽवशा देशा नद्याम अश्मप्लवा इव ॥ 40 ॥

  41. परयॊजनेषु ये सक्ता न विशेषेषु भारत तान अहं पण्डितान मन्ये विशेषा हि परसङ्गिनः ॥ 41 ॥

  42. यं परशंसन्ति कितवा यं परशंसन्ति चारणाः यं परशंसन्ति बन्धक्यॊ न स जीवति मानवः ॥ 42 ॥

  43. हित्वा तान परमेष्वासान पाण्डवान अमितौजसः आहितं भारतैश्वर्यं तवया दुर्यॊधने महत ॥ 43 ॥

  44. तं दरक्ष्यसि परिभ्रष्टं तस्मात तवं नचिराद इव ऐश्वर्यमदसंमूढं बलिं लॊकत्रयाद इव ॥ 44 ॥

Reach this point to mark the section finished.

Continue to अध्याय 39

Previous: अध्याय 37