[वि] सप्तदशेमान राजेन्द्र मनुः सवायम्भुवॊ ऽबरवीत वैचित्रवीर्य पुरुषान आकाशं मुष्टिभिर घनतः ॥ 1 ॥
तान एव इन्द्रस्य हि धनुर अनाम्यं नमतॊ ऽबरवीत अथॊ मरीचिनः पादान अनाम्यान नमतस तथा ॥ 2 ॥
यश चाशिष्यं शासति यश च कुप्यते; यश चातिवेलं भजते दविषन्तम सत्रियश च यॊ ऽरक्षति भद्रम अस्तु ते; यश चायाच्यं याचति यश च कत्थते ॥ 3 ॥
यश चाभिजातः परकरॊत्य अकार्यं; यश चाबलॊ बलिना नित्यवैरी अश्रद्दधानाय च यॊ बरवीति; यश चाकाम्यं कामयते नरेन्द्र ॥ 4 ॥
वध्वा हासं शवशुरॊ यश च मन्यते; वध्वा वसन्न उत यॊ मानकामः परक्षेत्रे निर्वपति यश च बीजं; सत्रियं च यः परिवदते ऽतिवेलम ॥ 5 ॥
यश चैव लब्ध्वा न समरामीत्य उवाच; दत्त्वा च यः कत्थति याच्यमानः यश चासतः सान्त्वम उपासतीह; एते ऽनुयान्त्य अनिलं पाशहस्ताः ॥ 6 ॥
यस्मिन यथा वर्तते यॊ मनुष्यस; तस्मिंस तथा वर्तितव्यं स धर्मः मायाचारॊ मायया वर्तितव्यः; साध्व आचारः साधुना परत्युदेयः ॥ 7 ॥
शतायुर उक्तः पुरुषः सर्ववेदेषु वै यदा नाप्नॊत्य अथ च तत सर्वम आयुः केनेह हेतुना ॥ 8 ॥
अतिवादॊ ऽतिमानश च तथात्यागॊ नराधिपः करॊधश चातिविवित्सा च मित्रद्रॊहश च तानि षट ॥ 9 ॥
एत एवासयस तीक्ष्णाः कृन्तन्त्य आयूंषि देहिनाम एतानि मानवान घनन्ति न मृत्युर भद्रम अस्तु ते ॥ 10 ॥
विश्वस्तस्यैति यॊ दारान यश चापि गुरु तक्पगः वृषली पतिर दविजॊ यश च पानपश चैव भारत ॥ 11 ॥
शरणागतहा चैव सर्वे बरह्महणैः समाः एतैः समेत्य कर्तव्यं परायश्चित्तम इति शरुतिः ॥ 12 ॥
गृही वदान्यॊ ऽनपविद्ध वाक्यः; शेषान्न भॊकाप्य अविहिंसकश च नानर्थकृत तयक्तकलिः कृतज्ञः; सत्यॊ मृदुः सवर्गम उपैति विद्वान ॥ 13 ॥
सुलभाः पुरुषा राजन सततं परियवादिनः अप्रियस्य तु पथ्यस्य वक्ता शरॊता च दुर्लभः ॥ 14 ॥
यॊ हि धर्मं वयपाश्रित्य हित्वा भर्तुः परियाप्रिये अप्रियाण्य आह पथ्यानि तेन राजा सहायवान ॥ 15 ॥
तयजेत कुलार्थे पुरुषं गरामस्यार्थे कुलं तयजेत गरामं जनपदस्यार्थे आत्मार्थे पृथिवीं तयजेत ॥ 16 ॥
आपद अर्थं धनं रक्षेद दारान रक्षेद धनैर अपि आत्मानं सततं रक्षेद दारैर अपि धनैर अपि ॥ 17 ॥
उक्तं मया दयूतकाले ऽपि राजन; नैवं युक्तं वचनं परातिपीय तदौषधं पथ्यम इवातुरस्य; न रॊचते तव वैचित्र वीर्य ॥ 18 ॥
काकैर इमांश चित्रबर्हान मयूरान; पराजैष्ठाः पाण्डवान धार्तराष्ट्रैः हित्वा सिंहान करॊष्टु कान गूहमानः; पराप्ते काले शॊचिता तवं नरेन्द्र ॥ 19 ॥
यस तात न करुध्यति सर्वकालं; भृत्यस्य भक्तस्य हिते रतस्य तस्मिन भृत्या भर्तरि विश्वसन्ति; न चैनम आपत्सु परित्यजन्ति ॥ 20 ॥
न भृत्यानां वृत्ति संरॊधनेन; बाह्यं जनं संजिघृक्षेद अपूर्वम तयजन्ति हय एनम उचितावरुद्धाः; सनिग्धा हय अमात्याः परिहीनभॊगाः ॥ 21 ॥
कृत्यानि पूर्वं परिसंख्याय सर्वाण्य; आयव्ययाव अनुरूपां च वृत्तिम संगृह्णीयाद अनुरूपान सहायान; सहायसाध्यानि हि दुष्कराणि ॥ 22 ॥
अभिप्रायं यॊ विदित्वा तु भर्तुः; सर्वाणि कार्याणि करॊत्य अतन्द्रीः वक्ता हितानाम अनुरक्त आर्यः; शक्तिज्ञ आत्मेव हि सॊ ऽनुकम्प्यः ॥ 23 ॥
वाक्यं तु यॊ नाद्रियते ऽनुशिष्टः; परत्याह यश चापि नियुज्यमानः परज्ञाभिमानी परतिकूलवादी; तयाज्यः स तादृक तवरयैव भृत्यः ॥ 24 ॥
अस्तब्धम अक्लीबम अदीर्घसूत्रं; सानुक्रॊशं शलक्ष्णम अहार्यम अन्यैः अरॊग जातीयम उदारवाक्यं; दूतं वदन्त्य अष्ट गुणॊपपन्नम ॥ 25 ॥
न विश्वासाज जातु परस्य गेहं; गच्छेन नरश चेतयानॊ विकाले न चत्वरे निशि तिष्ठेन निगूढॊ; न राजन्यां यॊषितं परार्थयीत ॥ 26 ॥
न निह्नवं सत्र गतस्य गच्छेत; संसृष्ट मन्त्रस्य कुसंगतस्य न च बरूयान नाश्वसामि तवयीति; स कारणं वयपदेशं तु कुर्यात ॥ 27 ॥
घृणी राजा पुंश्चली राजभृत्यः; पुत्रॊ भराता विधवा बाल पुत्रा सेना जीवी चॊद्धृत भक्त एव; वयवहारे वै वर्जनीयाः सयुर एते ॥ 28 ॥
गुणा दश सनानशीलं भजन्ते; बलं रूपं सवरवर्णप्रशुद्धिः सपर्शश च गन्धश च विशुद्धता च; शरीः सौकुमार्यं परवराश च नार्यः ॥ 29 ॥
गुणाश च षण्मितभुक्तं भजन्ते; आरॊग्यम आयुश च सुखं बलं च अनाविलं चास्य भवेद अपत्यं; न चैनम आद्यून इति कषिपन्ति ॥ 30 ॥
अकर्म शीलं च महाशनं च; लॊकद्विष्टं बहु मायं नृशंसम अदेशकालज्ञम अनिष्ट वेषम; एतान गृहे न परतिवासयीत ॥ 31 ॥
कदर्यम आक्रॊशकम अश्रुतं च; वराक संभूतम अमान्य मानिनम निष्ठूरिणं कृतवैरं कृतघ्नम; एतान भृतार्तॊ ऽपि न जातु याचेत ॥ 32 ॥
संक्लिष्टकर्माणम अतिप्रवादं; नित्यानृतं चादृढ भक्तिकं च विकृष्टरागं बहुमानिनं चाप्य; एतान न सेवेत नराधमान षट ॥ 33 ॥
सहायबन्धना हय अर्थाः सहायाश चार्थबन्धनाः अन्यॊन्यबन्धनाव एतौ विनान्यॊन्यं न सिध्यतः ॥ 34 ॥
उत्पाद्य पुत्रान अनृणांश च कृत्वा; वृत्तिं च तेभ्यॊ ऽनुविधाय कां चित सथाने कुमारीः परतिपाद्य सर्वा; अरण्यसंस्थॊ मुनिवद बुभूषेत ॥ 35 ॥
हितं यत सर्वभूतानाम आत्मनश च सुखावहम तत कुर्याद ईश्वरॊ हय एतन मूलं धर्मार्थसिद्धये ॥ 36 ॥
बुद्धिः परभावस तेजश च सत्त्वम उत्थानम एव च वयवसायश च यस्य सयात तस्यावृत्ति भयं कुतः ॥ 37 ॥
पश्य दॊषान पाण्डवैर विग्रहे तवं; यत्र वयथेरन्न अपि देवाः स शक्राः पुत्रैर वैरं नित्यम उद्विग्नवासॊ; यशः परणाशॊ दविषतां च हर्षः ॥ 38 ॥
भीष्मस्य कॊपस तव चेन्द्र कल्प; दरॊणस्य राज्ञश च युधिष्ठिरस्य उत्सादयेल लॊकम इमं परवृद्धः; शवेतॊ गरहस तिर्यग इवापतन खे ॥ 39 ॥
तव पुत्रशतं चैव कर्णः पञ्च च पाण्डवाः पृथिवीम अनुशासेयुर अखिलां सागराम्बराम ॥ 40 ॥
धार्तराष्ट्रा वनं राजन वयाघ्राः पाण्डुसुता मताः मा वनं छिन्धि स वयाघ्रं मा वयाघ्रान नीनशॊ वनात ॥ 41 ॥
न सयाद वनम ऋते वयाघ्रान वयाघ्रा न सयुर ऋते वनम वनं हि रक्ष्यते वयाघ्रैर वयाघ्रान रक्षति काननम ॥ 42 ॥
न तथेच्छन्त्य अकल्याणाः परेषां वेदितुं गुणान यथैषां जञातुम इच्छन्ति नैर्गुण्यं पापचेतसः ॥ 43 ॥
अर्थसिद्धिं पराम इच्छन धर्मम एवादितश चरेत न हि धर्माद अपैत्य अर्थः सवर्गलॊकाद इवामृतम ॥ 44 ॥
यस्यात्मा विरतः पापात कल्याणे च निवेशितः तेन सर्वम इदं बुद्धं परकृतिर विकृतिर्श च या ॥ 45 ॥
यॊ धर्मम अर्थं कामं च यथाकालं निषेवते धर्मार्थकामसंयॊगं यॊ ऽमुत्रेह च विन्दति ॥ 46 ॥
संनियच्छति यॊ वेगम उत्थितं करॊधहर्षयॊः स शरियॊ भाजनं राजन्यश चापत्सु न मुह्यति ॥ 47 ॥
बलं पञ्च विधं नित्यं पुरुषाणां निबॊध मे यत तु बाहुबलं नाम कनिष्ठं बलम उच्यते ॥ 48 ॥
अमात्यलाभॊ भद्रं ते दवितीयं बलम उच्यते धनलाभस तृतीयं तु बलम आहुर जिगीषवः ॥ 49 ॥
यत तव अस्य सहजं राजन पितृपैतामहं बलम अभिजात बलं नाम तच चतुर्थं बलं समृतम ॥ 50 ॥
येन तव एतानि सर्वाणि संगृहीतानि भारत यद बलानां बलं शरेष्ठं तत परज्ञा बलम उच्यते ॥ 51 ॥
महते यॊ ऽपकाराय नरस्य परभवेन नरः तेन वैरं समासज्य दूरस्थॊ ऽसमीति नाश्वसेत ॥ 52 ॥
सत्रीषु राजसु सर्पेषु सवाध्याये शत्रुसेविषु भॊगे चायुषि विश्वासं कः पराज्ञः कर्तुम अर्हति ॥ 53 ॥
परज्ञा शरेणाभिहतस्य जन्तॊश; चिकित्सकाः सन्ति न चौषधानि न हॊममन्त्रा न च मङ्गलानि; नाथर्वणा नाप्य अगदाः सुसिद्धाः ॥ 54 ॥
सर्पश चाग्निश च सिंहश च कुलपुत्रश च भारत नावज्ञेया मनुष्येण सर्वे ते हय अतितेजसः ॥ 55 ॥
अग्निस तेजॊ महल लॊके गूढस तिष्ठति दारुषु न चॊपयुङ्क्ते तद दारु यावन नॊ दीप्यते परैः ॥ 56 ॥
स एव खलु दारुभ्यॊ यदा निर्मथ्य दीप्यते तदा तच च वनं चान्यन निर्दहत्य आशु तेजसा ॥ 57 ॥
एवम एव कुले जाताः पावकॊपम तेजसः कषमावन्तॊ निराकाराः काष्ठे ऽगनिर इव शेरते ॥ 58 ॥
लता धर्मा तवं सपुत्रः शालाः पाण्डुसुता मताः न लता वर्धते जातु महाद्रुमम अनाश्रिता ॥ 59 ॥
वनं राजंस तवं सपुत्रॊ ऽमबिकेय; सिंहान वने पाण्डवांस तात विद्धि सिंहैर विहीनं हि वनं विनश्येत; सिंहा विनश्येयुर ऋते वनेन ॥ 60 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 37
Reach this point to mark the section finished.
Continue to अध्याय 38