धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 36

  1. [वि] अत्रैवॊदाहरन्तीमम इतिहासं पुरातनम आत्रेयस्य च संवादं साध्यानां चेति नः शरुतम ॥ 1 ॥

  2. चरन्तं हंसरूपेण महर्षिं संशितव्रतम साध्या देवा महाप्राज्ञं पर्यपृच्छन्त वै पुरा ॥ 2 ॥

  3. साध्या देवा वयम अस्मॊ महर्षे; दृष्ट्वा भवन्तं न शक्नुमॊ ऽनुमातुम शरुतेन धीरॊ बुद्धिमांस तवं मतॊ नः; काव्यां वाचं वक्तुम अर्हस्य उदाराम ॥ 3 ॥

  4. एतत कार्यम अमराः संश्रुतं मे; धृतिः शमः सत्यधर्मानुवृत्तिः गरन्थिं विनीय हृदयस्य सर्वं; परियाप्रिये चात्मवशं नयीत ॥ 4 ॥

  5. आक्रुश्यमानॊ नाक्रॊशेन मन्युर एव तितिक्षितः आक्रॊष्टारं निर्दहति सुकृतं चास्य विन्दति ॥ 5 ॥

  6. नाक्रॊशी सयान नावमानी परस्य; मित्रद्रॊही नॊत नीचॊपसेवी न चातिमानी न च हीनवृत्तॊ; रूक्षां वाचं रुशतीं वर्जयीत ॥ 6 ॥

  7. मर्माण्य अस्थीनि हृदयं तथासून; घॊरा वाचॊ निर्दहन्तीह पुंसाम तस्माद वाचं रुशतीं रूक्षरूपां; धर्मारामॊ नित्यशॊ वर्जयीत ॥ 7 ॥

  8. अरुं तुरं परुषं रूक्षवाचं; वाक कण्टकैर वितुदन्तं मनुष्यान विद्याद अलक्ष्मीकतमं जनानां; मुखे निबद्धां निरृतिं वहन्तम ॥ 8 ॥

  9. परश चेद एनम अधिविध्येत बाणैर; भृशं सुतीक्ष्णैर अनलार्क दीप्तैः विरिच्यमानॊ ऽपय अतिरिच्यमानॊ; विद्यात कविः सुकृतं मे दधाति ॥ 9 ॥

  10. यदि सन्तं सेवते यद्य असन्तं; तपस्विनं यदि वा सतेनम एव वासॊ यथा रङ्ग वशं परयाति; तथा स तेषां वशम अभ्युपैति ॥ 10 ॥

  11. वादं तु यॊ न परवदेन न वादयेद; यॊ नाहतः परतिहन्यान न घातयेत यॊ हन्तुकामस्य न पापम इच्छेत; तस्मै देवाः सपृहयन्त्य आगताय ॥ 11 ॥

  12. अव्याहृतं वयाहृताच छरेय आहुः; सत्यं वदेद वयाहृतं तद दवितीयम परियंवदेद वयाहृतं तत तृतीयं; धर्म्यं वदेद वयाहृतं तच चतुर्थम ॥ 12 ॥

  13. यादृशैः संविवदते यादृशांश चॊपसेवते यादृग इच्छेच च भवितुं तादृग भवति पूरुषः ॥ 13 ॥

  14. यतॊ यतॊ निवर्तते ततस ततॊ विमुच्यते निवर्तनाद धि सर्वतॊ न वेत्ति दुःखम अण्व अपि ॥ 14 ॥

  15. न जीयते नॊत जिगीषते ऽनयान; न वैरक्कृच चाप्रतिघातकश च निन्दा परशंसासु समस्वभावॊ; न शॊचते हृष्यति नैव चायम ॥ 15 ॥

  16. भावम इच्छति सर्वस्य नाभावे कुरुते मतिम सत्यवादी मृदुर दान्तॊ यः स उत्तमपूरुषः ॥ 16 ॥

  17. नानर्थकं सान्त्वयति परतिज्ञाय ददाति च राद्धापराद्धे जानाति यः स मध्यमपूरुषः ॥ 17 ॥

  18. दुःशासनस तूपहन्ता न शास्ता; नावर्तते मन्युवशात कृतघ्नः न कस्य चिन मित्रम अथॊ दुरात्मा; कलाश चैता अधमस्येह पुंसः ॥ 18 ॥

  19. न शरद्दधाति कल्याणं परेभ्यॊ ऽपय आत्मशङ्कितः निराकरॊति मित्राणि यॊ वै सॊ ऽधम पूरुषः ॥ 19 ॥

  20. उत्तमान एव सेवेत पराप्ते काले तु मध्यमान अधमांस तु न सेवेत य इच्छेच छरेय आत्मनः ॥ 20 ॥

  21. पराप्नॊति वै वित्तम असद बलेन; नित्यॊत्थानात परज्ञया पौरुषेण न तव एव सम्यग लभते परशंसां; न वृत्तम आप्नॊति महाकुलानाम ॥ 21 ॥

  22. महाकुलानां सपृहयन्ति देवा; धर्मार्थवृद्धाश च बहुश्रुताश च पृच्छामि तवां विदुर परश्नम एतं; भवन्ति वै कानि महाकुलानि ॥ 22 ॥

  23. तमॊ दमॊ बरह्मवित तवं वितानाः; पुण्या विवाहाः सततान्न दानम येष्व एवैते सप्तगुणा भवन्ति; सम्यग वृत्तास तानि महाकुलानि ॥ 23 ॥

  24. येषां न वृत्तं वयथते न यॊनिर; वृत्तप्रसादेन चरन्ति धर्मम ये कीर्तिम इच्छन्ति कुले विशिष्टां; तयक्तानृतास तानि महाकुलानि ॥ 24 ॥

  25. अनिज्ययाविवाहैर्श च वेदस्यॊत्सादनेन च कुलान्य अकुलतां यान्ति धर्मस्यातिक्रमेण च ॥ 25 ॥

  26. देव दरव्यविनाशेन बरह्म सवहरणेन च कुलान्य अकुलतां यान्ति बराह्मणातिक्रमेण च ॥ 26 ॥

  27. बराह्मणानां परिभवात परिवादाच च भारत कुलान्य अकुलतां यान्ति नयासापहरणेन च ॥ 27 ॥

  28. कुलानि समुपेतानि गॊभिः पुरुषतॊ ऽशवतः कुलसंख्यां न गच्छन्ति यानि हीनानि वृत्ततः ॥ 28 ॥

  29. वृत्ततस तव अविहीनानि कुलान्य अल्पधनान्य अपि कुलसंख्यां तु गच्छन्ति कर्षन्ति च मयद यशः ॥ 29 ॥

  30. मा नः कुले वैरकृत कश चिद अस्तु; राजामात्यॊ मा परस्वापहारी मित्रद्रॊही नैकृतिकॊ ऽनृती वा; पूर्वाशी वा पितृदेवातिथिभ्यः ॥ 30 ॥

  31. यश च नॊ बराह्मणं हन्याद यश च नॊ बराह्मणान दविषेत न नः स समितिं गच्छेद यश च नॊ निर्वपेत कृषिम ॥ 31 ॥

  32. तृणानि भूमिर उदकं वाक चतुर्थी च सूनृता सताम एतानि गेहेषु नॊच्छिद्यन्ते कदा चन ॥ 32 ॥

  33. शरद्धया परया राजन्न उपनीतानि सत्कृतिम परवृत्तानि महाप्राज्ञ धर्मिणां पुण्यकर्मणाम ॥ 33 ॥

  34. सूक्ष्मॊ ऽपि भारं नृपते सयन्दनॊ वै; शक्तॊ वॊढुं न तथान्ये महीजाः एवं युक्ता भारसहा भवन्ति; महाकुलीना न तथान्ये मनुष्याः ॥ 34 ॥

  35. न तन मित्रं यस्य कॊपाद बिभेति; यद वा मित्रं शङ्कितेनॊपचर्यम यस्मिन मित्रे पितरीवाश्वसीत; तद वै मित्रं संगतानीतराणि ॥ 35 ॥

  36. यदि चेद अप्य असंबन्धॊ मित्रभावेन वर्तते स एव बन्धुस तन मित्रं सा गतिस तत्परायणम ॥ 36 ॥

  37. चलचित्तस्य वै पुंसॊ वृद्धान अनुपसेवतः पारिप्लवमतेर नित्यम अध्रुवॊ मित्र संग्रहः ॥ 37 ॥

  38. चलचित्तम अनात्मानम इन्द्रियाणां वशानुगम अर्थाः समतिवर्तन्ते हंसाः शुष्कं सरॊ यथा ॥ 38 ॥

  39. अकस्माद एव कुप्यन्ति परसीदन्त्य अनिमित्ततः शीलम एतद असाधूनाम अभ्रं पारिप्लवं यथा ॥ 39 ॥

  40. सत्कृताश च कृतार्थाश च मित्राणां न भवन्ति ये तान मृतान अपि करव्यादाः कृतघ्नान नॊपभुञ्जते ॥ 40 ॥

  41. अर्थयेद एव मित्राणि सति वासति वा धने नानर्थयन विजानाति मित्राणां सारफल्गुताम ॥ 41 ॥

  42. संतापाद भरश्यते रूपं संतापाद भरश्यते बलम संतापाद भरश्यते जञानं संतापाद वयाधिम ऋच्छति ॥ 42 ॥

  43. अनवाप्यं च शॊकेन शरीरं चॊपतप्यते अमित्राश च परहृष्यन्ति मा सम शॊके मनः कृथाः ॥ 43 ॥

  44. पुनर नरॊ मरियते जायते च; पुनर नरॊ हीयते वर्धते पुनः पुनर नरॊ याचति याच्यते च; पुनर नरः शॊचति शॊच्यते पुनः ॥ 44 ॥

  45. सुखं च दुःखं च भवाभवौ च; लाभालाभौ मरणं जीवितं च पर्यायशः सर्वम इह सपृशन्ति; तस्माद धीरॊ नैव हृष्येन न शॊचेत ॥ 45 ॥

  46. चलानि हीमानि षडिन्द्रियाणि; तेषां यद यद वर्तते यत्र यत्र ततस ततः सरवते बुद्धिर अस्य; छिद्रॊद कुम्भाद इव नित्यम अम्भः ॥ 46 ॥

  47. तनुर उच्छः शिखी राजा मिथ्यॊपचरितॊ मया मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति ॥ 47 ॥

  48. नित्यॊद्विग्नम इदं सर्वं नित्यॊद्विग्नम इदं मनः यत तत पदम अनुद्विग्नं तन मे वद महामते ॥ 48 ॥

  49. नान्यत्र विद्या तपसॊर नान्यत्रेन्द्रिय निग्रहात नान्यत्र लॊभसंत्यागाच छान्तिं पश्याम ते ऽनघ ॥ 49 ॥

  50. बुद्ध्या भयं परणुदति तपसा विन्दते महत गुरुशुश्रूषया जञानं शान्तिं तयागेन विन्दति ॥ 50 ॥

  51. अनाश्रिता दानपुण्यं वेद पुण्यम अनाश्रिताः रागद्वेषविनिर्मुक्ता विचरन्तीह मॊक्षिणः ॥ 51 ॥

  52. सवधीतस्य सुयुद्धस्य सुकृतस्य च कर्मणः तपसश च सुतप्तस्य तस्यान्ते सुखम एधते ॥ 52 ॥

  53. सवास्तीर्णानि शयनानि परपन्ना; न वै भिन्ना जातु निद्रां लभन्ते न सत्रीषु राजन रतिम आप्नुवन्ति; न मागधैः सतूयमाना न सूतैः ॥ 53 ॥

  54. न वै भिन्ना जातु चरन्ति धर्मं; न वै सुखं पराप्नुवन्तीह भिन्नाः न वै भिन्ना गौरवं मानयन्ति; न वै भिन्नाः परशमं रॊचयन्ति ॥ 54 ॥

  55. न वै तेषां सवदते पथ्यम उक्तं; यॊगक्षेमं कल्पते नॊत तेषाम भिन्नानां वै मनुजेन्द्र परायणं; न विद्यते किं चिद अन्यद विनाशात ॥ 55 ॥

  56. संभाव्यं गॊषु संपन्नं संभाव्यं बराह्मणे तपः संभाव्यं सत्रीषु चापल्यं संभाव्यं जञातितॊ भयम ॥ 56 ॥

  57. तन्तवॊ ऽपय आयता नित्यं तन्तवॊ बहुलाः समाः बहून बहुत्वाद आयासान सहन्तीत्य उपमा सताम ॥ 57 ॥

  58. धूमायन्ते वयपेतानि जवलन्ति सहितानि च धृतराष्ट्रॊल्मुकानीव जञातयॊ भरतर्षभ ॥ 58 ॥

  59. बराह्मणेषु च ये शूराः सत्रीषु जञातिषु गॊषु च वृन्ताद इव फलं पक्वं धृतराष्ट्र पतन्ति ते ॥ 59 ॥

  60. महान अप्य एकजॊ वृक्षॊ बलवान सुप्रतिष्ठितः परसह्य एव वातेन शाखा सकन्धं विमर्दितुम ॥ 60 ॥

  61. अथ ये सहिता वृक्षाः संघशः सुप्रतिष्ठिताः ते हि शीघ्रतमान वातान सहन्ते ऽनयॊन्यसंश्रयात ॥ 61 ॥

  62. एवं मनुष्यम अप्य एकं गुणैर अपि समन्वितम शक्यं दविषन्तॊ मन्यन्ते वायुर दरुमम इवौकजम ॥ 62 ॥

  63. अन्यॊन्यसमुपष्टम्भाद अन्यॊन्यापाश्रयेण च जञातयः संप्रवर्धन्ते सरसीवॊत्पलान्य उत ॥ 63 ॥

  64. अवध्या बराह्मणा गावॊ सत्रियॊ बालाश च जञातयः येषां चान्नानि भुञ्जीत ये च सयुः शरणागताः ॥ 64 ॥

  65. न मनुष्ये गुणः कश चिद अन्यॊ धनवताम अपि अनातुरत्वाद भद्रं ते मृतकल्पा हि रॊगिणः ॥ 65 ॥

  66. अव्याधिजं कटुकं शीर्ष रॊगं; पापानुबन्धं परुषं तीक्ष्णम उग्रम सतां पेयं यन न पिबन्त्य असन्तॊ; मन्युं महाराज पिब परशाम्य ॥ 66 ॥

  67. रॊगार्दिता न फलान्य आद्रियन्ते; न वै लभन्ते विषयेषु तत्त्वम दुःखॊपेता रॊगिणॊ नित्यम एव; न बुध्यन्ते धनभॊगान न सौख्यम ॥ 67 ॥

  68. पुरा हय उक्तॊ नाकरॊस तवं वचॊ मे; दयूते जितां दरौपदीं परेक्ष्य राजन दुर्यॊधनं वारयेत्य अक्षवत्यां; कितवत्वं पण्डिता वर्जयन्ति ॥ 68 ॥

  69. न तद बलं यन मृदुना विरुध्यते; मिश्रॊ धर्मस तरसा सेवितव्यः परध्वंसिनी करूरसमाहिता शरीर; मृदुप्रौढा गच्छति पुत्रपौत्रान ॥ 69 ॥

  70. धार्तराष्ट्राः पाण्डवान पालयन्तु; पाण्डॊः सुतास तव पुत्रांश च पान्तु एकारिमित्राः कुरवॊ हय एकमन्त्रा; जीवन्तु राजन सुखिनः समृद्धाः ॥ 70 ॥

  71. मेढीभूतः कौरवाणां तवम अद्य; तवय्य आधीनं कुरु कुलम आजमीढ पार्थान बालान वनवास परतप्तान; गॊपायस्व सवं यशस तात रक्षन ॥ 71 ॥

  72. संधत्स्व तवं कौरवान पाण्डुपुत्रैर; मा ते ऽनतरं रिपवः परार्थयन्तु सत्ये सथितास ते नरदेव सर्वे; दुर्यॊधनं सथापय तवं नरेन्द्र ॥ 72 ॥

Reach this point to mark the section finished.

Continue to अध्याय 37

Previous: अध्याय 35