धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 35

  1. [धृ] बरूहि भूयॊ महाबुद्धे धर्मार्थसहितं वचः शृण्वतॊ नास्ति मे तृप्तिर विचित्राणीह भाषसे ॥ 1 ॥

  2. सर्वतीर्थेषु वा सनानं सर्वभूतेषु चार्जवम उभे एते समे सयाताम आर्जवं वा विशिष्यते ॥ 2 ॥

  3. आर्जवं परतिपद्यस्व पुत्रेषु सततं विभॊ इह कीर्तिं परां पराप्य परेत्य सवर्गम अवाप्स्यसि ॥ 3 ॥

  4. यावत कीर्तिर मनुष्यस्य पुण्या लॊकेषु गीयते तावत स पुरुषव्याघ्र सवर्गलॊके महीयते ॥ 4 ॥

  5. अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम विरॊचनस्य संवादं केशिन्य अर्थे सुधन्वना ॥ 5 ॥

  6. किं बराह्मणाः सविच छरेयांसॊ दितिजाः सविद विरॊचन अथ केन सम पर्यङ्कं सुधन्वा नाधिरॊहति ॥ 6 ॥

  7. पराजापत्या हि वै शरेष्ठा वयं केशिनि सत्तमाः अस्माकं खल्व इमे लॊकाः के देवाः के दविजातयः ॥ 7 ॥

  8. इहैवास्स्व परतीक्षाव उपस्थाने विरॊचन सुधन्वा परातर आगन्ता पश्येयं वां समागतौ ॥ 8 ॥

  9. तथा भद्रे करिष्यामि यथा तवं भीरु भाषसे सुधन्वानं च मां चैव परातर दरष्टासि संगतौ ॥ 9 ॥

  10. अन्वालभे हिरण्मयं पराह्रादे ऽहं तवासनम एकत्वम उपसंपन्नॊ न तव आसेयं तवया सह ॥ 10 ॥

  11. अन्वाहरन्तु फलकं कूर्चं वाप्य अथ वा बृसीम सुधन्वन न तवम अर्हॊ ऽसि मया सह समासनम ॥ 11 ॥

  12. पितापि ते समासीनम उपासीतैव माम अधः बालः सुखैधितॊ गेहे न तवं किं चन बुध्यसे ॥ 12 ॥

  13. हिरण्यं च गवाश्वं च यद वित्तम असुरेषु नः सुधन्वन विपणे तेन परश्नं पृच्छाव ये विदुः ॥ 13 ॥

  14. हिरण्यं च गवाश्वं च तवैवास्तु विरॊचन पराणयॊस तु पणं कृत्वा परश्नं पृच्छाव ये विदुः ॥ 14 ॥

  15. आवां कुत्र गमिष्यावः पराणयॊर विपणे कृते न हि देवेष्व अहं सथाता न मनुष्येषु कर्हि चित ॥ 15 ॥

  16. पितरं ते गमिष्यावः पराणयॊर विपणे कृते पुत्रस्यापि स हेतॊर हि परह्रादॊ नानृतं वदेत ॥ 16 ॥

  17. [परह] इमौ तौ संप्रदृश्येते याभ्यां न चरितं सह आशीविषाव इव करुद्धाव एकमार्गम इहागतौ ॥ 17 ॥

  18. किं वै सहैव चरतॊ न पुरा चरतः सह विरॊचनैतत पृच्छामि किं ते सख्यं सुधन्वना ॥ 18 ॥

  19. न मे सुधन्वना सख्यं पराणयॊर विपणावहे परह्राद तत तवाम ऋप्च्छामि मा परश्नम अनृतं वदीः ॥ 19 ॥

  20. [परह] उदकं मधुपर्कं चाप्य आनयन्तु सुधन्वने बरह्मन्न अभ्यर्चनीयॊ ऽसि शवेता गौः पीवरी कृता ॥ 20 ॥

  21. उदकं मधुपर्कं च पथ एवार्पितं मम परह्राद तवं तु नौ परश्नं तथ्यं परब्रूहि पृच्छतॊः ॥ 21 ॥

  22. [परह] पुर्तॊ वान्यॊ भवान बरह्मन साक्ष्ये चैव भवेत सथितः तयॊर विवदतॊः परश्नं कथम अस्मद विभॊ वदेत ॥ 22 ॥

  23. अथ यॊ नैव परब्रूयात सत्यं वा यदि वानृतम एतत सुधन्वन पृच्छामि दुर्विवक्ता सम किं वसेत ॥ 23 ॥

  24. यां रात्रिम अधिविन्ना सत्री यां चैवाक्ष पराजितः यां च भाराभितप्ताङ्गॊ दुर्विवक्ता सम तां वसेत ॥ 24 ॥

  25. नगरे परतिरुद्धः सन बहिर दवारे बुभुक्षितः अमित्रान भूयसः पश्यन दुर्विवक्ता सम तां वसेत ॥ 25 ॥

  26. पञ्च पश्वनृते हन्ति दश हन्ति गवानृते शतम अश्वानृते हन्ति सहस्रं पुरुषानृते ॥ 26 ॥

  27. हन्ति जातान अजातांश च हिरण्यार्थॊ ऽनृतं वदन सर्वं भूम्यनृते हन्ति मा सम भूम्यनृतं वदीः ॥ 27 ॥

  28. [परह] मत्तः शरेयान अङ्गिरा वै सुधन्वा तवद विरॊचन मातास्य शरेयसी मातुस तस्मात तवं तेन वै जितः ॥ 28 ॥

  29. विरॊचन सुधन्वायं पराणानाम ईश्वरस तव सुधन्वन पुनर इच्छामि तवया दत्तं विरॊचनम ॥ 29 ॥

  30. यद धर्मम अवृणीथास तवं न कामाद अनृतं वदीः पुनर ददामि ते तस्मात पुत्रं परह्राद दुर्लभम ॥ 30 ॥

  31. एष परह्राद पुत्रस ते मया दत्तॊ विरॊचनः पादप्रक्षालनं कुर्यात कुमार्याः संनिधौ मम ॥ 31 ॥

  32. तस्माद राजेन्द्र भूम्यर्थे नानृतं वक्तुम अर्हसि मा गमः स सुतामात्यॊ ऽतययं पुत्रान अनुभ्रमन ॥ 32 ॥

  33. न देवा यष्टिम आदाय रक्षन्ति पशुपालवत यं तु रक्षितुम इच्छन्ति बुद्ध्या संविभजन्ति तम ॥ 33 ॥

  34. यथा यथा हि पुरुषः कल्याणे कुरुते मनः तथा तथास्य सर्वार्थाः सिध्यन्ते नात्र संशयः ॥ 34 ॥

  35. न छन्दांसि वृजिनात तारयन्ति; आयाविनं मायया वर्तमानम नीडं शकुन्ता इव जातपक्षाश; छन्दांस्य एनं परजहत्य अन्तकाले ॥ 35 ॥

  36. मत्तापानं कलहं पूगवैरं; भार्यापत्यॊर अन्तरं जञातिभेदम राजद्विष्टं सत्रीपुमांसॊर विवादं; वर्ज्यान्य आहुर यश च पन्थाः परदुष्ठः ॥ 36 ॥

  37. सामुद्रिकं वणिजं चॊरपूर्वं; शलाक धूर्तं च चिकित्सकं च अरिं च मित्रं च कुशीलवं च; नैतान साख्येष्व अधिकुर्वीत सप्त ॥ 37 ॥

  38. मानाग्निहॊत्रम उत मानमौनं; मानेनाधीतम उत मानयज्ञः एतानि चत्वार्य अभयंकराणि; भयं परयच्छन्त्य अयथा कृतानि ॥ 38 ॥

  39. अगार दाही गरदः कुण्डाशी सॊमविक्रयी पर्व कारश च सूची च मित्र धरुक पारदारिकः ॥ 39 ॥

  40. भरूणहा गुरु तल्पी च यश च सयात पानपॊ दविजः अतितीक्ष्णश च काकश च नास्तिकॊ वेद निन्दकः ॥ 40 ॥

  41. सरुव परग्रहणॊ वरात्यः कीनाशश चार्थवान अपि रक्षेत्य उक्तश च यॊ हिंस्यात सर्वे बरह्मण्हणैः समाः ॥ 41 ॥

  42. तृणॊक्लया जञायते जातरूपं; युगे भद्रॊ वयवहारेण साधुः शूरॊ भयेष्व अर्थकृच्छ्रेषु धीरः; कृच्छ्रास्व आपत्सु सुहृदश चारयश च ॥ 42 ॥

  43. जरा रूपं हरति हि धैर्यम आशा; मृत्युः पराणान धर्मचर्याम असूया करॊधः शरियं शीलम अनार्य सेवा; हरियं कामः सर्वम एवाभिमानः ॥ 43 ॥

  44. शरीर मङ्गलात परभवति परागल्भ्यात संप्रवर्धते दाक्ष्यात तु कुरुते मूलं संयमात परतितिष्ठति ॥ 44 ॥

  45. अष्टौ गुणाः पुरुषं दीपयन्ति; परज्ञा च कौल्यं च दमः शरुतं च पराक्रमश चाबहु भाषिता च; दानं यथाशक्ति कृतज्ञता च ॥ 45 ॥

  46. एतान गुणांस तात महानुभावान; एकॊ गुणः संश्रयते परसह्य राजा यदा सत्कुरुते मनुष्यं; सर्वान गुणान एष गुणॊ ऽतिभाति ॥ 46 ॥

  47. अष्टौ नृपेमानि मनुष्यलॊके; सवर्गस्य लॊकस्य निदर्शनानि चत्वार्य एषाम अन्ववेतानि सद्भिश; चत्वार्य एषाम अन्ववयन्ति सन्तः ॥ 47 ॥

  48. यज्ञॊ दानम अध्ययनं तपश च; चत्वार्य एतान्य अन्ववेतानि सद्भिः दमः सत्यम आर्जवम आनृशंस्यं; चत्वार्य एतान्य अन्ववयन्ति सन्तः ॥ 48 ॥

  49. न सा सभा यत्र न सन्ति वृद्धा; न ते वृद्धा ये न वदन्ति धर्मम नासौ हर्मॊ यतन सत्यम अस्ति; न तत सत्यं यच छलेनानुविद्धम ॥ 49 ॥

  50. सत्यं रूपं शरुतं विद्या कौल्यं शीलं बलं धनम शौर्यं च चिरभाष्यं च दशः संसर्गयॊनयः ॥ 50 ॥

  51. पापं कुर्वन पापकीर्तिः पापम एवाश्नुते फलम पुण्यं कुर्वन पुण्यकीर्तिः पुण्यम एवाश्नुते फलम ॥ 51 ॥

  52. पापं परज्ञां नाशयति करियमाणं पुनः पुनः नष्टप्रज्ञः पापम एव नित्यम आरभते नरः ॥ 52 ॥

  53. पुण्यं परज्ञां वर्धयति करियमाणं पुनः पुनः वृद्धप्रज्ञः पुण्यम एव नित्यम आरभते नरः ॥ 53 ॥

  54. असूयकॊ दन्द शूकॊ निष्ठुरॊ वैरकृन नरः स कृच्छ्रं महद आप्नॊतॊ नचिरात पापम आचरन ॥ 54 ॥

  55. अनसूयः कृतप्रज्ञ्टः शॊभनान्य आचरन सदा अकृच्छ्रात सुखम आप्नॊति सर्वत्र च विराजते ॥ 55 ॥

  56. परज्ञाम एवागमयति यः पराज्ञेभ्यः स पण्डितः पराज्ञॊ हय अवाप्य धर्मार्थौ शक्नॊति सुखम एधितुम ॥ 56 ॥

  57. दिवसेनैव तत कुर्याद येन रातौ सुखं वसेत अष्ट मासेन तत कुर्याद येन वर्षाः सुखं वसेत ॥ 57 ॥

  58. पूर्वे वयसि तत कुर्याद येन वृद्धसुखं वसेत यावज जीवेन तत कुर्याद येन परेत्य सुखं वसेत ॥ 58 ॥

  59. जीर्णम अन्नं परशंसन्ति भार्यं च गतयौवनाम शूरं विगतसंग्रामं गतपारं तपस्विनम ॥ 59 ॥

  60. धनेनाधर्मलब्धेन यच छिद्रम अपिधीयते असंवृतं तद भवति ततॊ ऽनयद अवदीर्यते ॥ 60 ॥

  61. गुरुर आत्मवतां शास्ता शासा राजा दुरात्मनाम अथ परच्छन्नपापानां शास्ता वैवस्वतॊ यमः ॥ 61 ॥

  62. ऋषीणां च नदीनां च कुलानां च महामनाम परभवॊ नाधिगन्तव्यः सत्रीणां दुश्चरितस्य च ॥ 62 ॥

  63. दविजातिपूजाभिरतॊ दाता जञातिषु चार्जवी कषत्रियः सवर्गभाग राजंश चिरं पालयते महीम ॥ 63 ॥

  64. सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास तरयः शूरश च कृतविद्यश च यश च जानाति सेवितुम ॥ 64 ॥

  65. बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत तानि जङ्घा जघन्यानि भारप्रत्यवराणि च ॥ 65 ॥

  66. दुर्यॊधने च शकुनौ मूढे दुःशासने तथा कर्णे चैश्वर्यम आधाय कथं तवं भूतिम इच्छसि ॥ 66 ॥

  67. सर्वैर गुणैर उपेताश च पाण्डवा भरतर्षभ पितृवत तवयि वर्तन्ते तेषु वर्तस्व पुत्रवत ॥ 67 ॥

Reach this point to mark the section finished.

Continue to अध्याय 36

Previous: अध्याय 34