धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 34

  1. [धृ] जाग्रतॊ दह्यमानस्य यत कार्यम अनुपश्यसि तद बरूहि तवं हि नस तात धर्मार्थकुशलः शुचिः ॥ 1 ॥

  2. तवं मां यथावद विदुर परशाधि; परज्ञा पूर्वं सर्वम अजातशत्रॊः यन मन्यसे पथ्यम अदीनसत्त्व; शरेयः करं बरूहि तद वै कुरूणाम ॥ 2 ॥

  3. पापाशङ्गी पापम एव नौपश्यन; पृच्छामि तवां वयाकुलेनात्मनाहम कवे तन मे बरूहि सर्वं यथावन; मनीषितं सर्वम अजातशत्रॊः ॥ 3 ॥

  4. शुभं वा यदि वा पापं दवेष्यं वा यदि वा परियम अपृष्टस तस्य तद बरूयाद यस्य नेच्छेत पराभवम ॥ 4 ॥

  5. तस्माद वक्ष्यामि ते राजन भवम इच्छन कुरून परति वचः शरेयः करं धर्म्यं बरुवतस तन निबॊध मे ॥ 5 ॥

  6. मिथ्यॊपेतानि कर्माणि सिध्येयुर यानि भारत अनुपाय परयुक्तानि मा सम तेषु मनः कृथाः ॥ 6 ॥

  7. तथैव यॊगविहितं न सिध्येत कर्म यन नृप उपाययुक्तं मेधावी न तत्र गलपयेन मनः ॥ 7 ॥

  8. अनुबन्धान अवेक्षेत सानुबन्धेषु कर्मसु संप्रधार्य च कुर्वीत न वेगेन समाचरेत ॥ 8 ॥

  9. अनुबन्धं च संप्रेक्ष्य विपाकांश चैव कर्मणाम उत्थानम आत्मनश चैव धीरः कुर्वीत वा न वा ॥ 9 ॥

  10. यः परमाणं न जानाति सथाने वृद्धौ तथा कषये कॊशे जनपदे दण्डे न स राज्यावतिष्ठते ॥ 10 ॥

  11. यस तव एतानि परमाणानि यथॊक्तान्य अनुपश्यति युक्तॊ धर्मार्थयॊर जञाने स राज्यम अधिगच्छति ॥ 11 ॥

  12. न राज्यं पराप्तम इत्य एव वर्तितव्यम असांप्रतम शरियं हय अविनयॊ हन्ति जरा रूपम इवॊत्तमम ॥ 12 ॥

  13. भक्ष्यॊत्तम परतिच्छन्नं मत्स्यॊ बडिशम आयसम रूपाभिपाती गरसते नानुबन्धम अवेक्षते ॥ 13 ॥

  14. यच छक्यं गरसितुं गरस्यं गरस्तं परिणमेच च यत हितं च परिणामे यत तद अद्यं भूतिम इच्छता ॥ 14 ॥

  15. वनस्पतेर अपक्वानि फलानि परचिनॊति यः स नाप्नॊति रसं तेभ्यॊ बीजं चास्य विनश्यति ॥ 15 ॥

  16. यस तु पक्वम उपादत्ते काले परिणतं फलम फलाद रसं स लभते बीजाच चैव फलं पुनः ॥ 16 ॥

  17. यथा मधु समादत्ते रक्षन पुष्पाणि षट्पदः तद्वद अर्थान मनुष्येभ्य आदद्याद अविहिंसया ॥ 17 ॥

  18. पुष्पं पुष्पं विचिन्वीत मूलच्छेदं न कारयेत माला कार इवारामे न यथाङ्गार कारकः ॥ 18 ॥

  19. किं नु मे सयाद इदं कृत्वा किं नु मे सयाद अकुर्वतः इति कर्माणि संचिन्त्य कुर्याद वा पुरुषॊ न वा ॥ 19 ॥

  20. अनारभ्या भवन्त्य अर्थाः के चिन नित्यं तथागताः कृतः पुरुषकारॊ ऽपि भवेद येषु निरर्थकः ॥ 20 ॥

  21. कांश चिद अर्थान नरः पराज्ञॊ लभु मूलान महाफलान कषिप्रम आरभते कर्तुं न विघ्नयति तादृशान ॥ 21 ॥

  22. ऋजु पश्यति यः सर्वं चक्षुषानुपिबन्न इव आसीनम अपि तूष्णीकम अनुरज्यन्ति तं परजाः ॥ 22 ॥

  23. चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम परसादयति लॊकं यस तं लॊकॊ ऽनुप्रसीदति ॥ 23 ॥

  24. यस्मात तरस्यन्ति भूतानि मृगव्याधान मृगा इव सागरान्ताम अपि महीं लब्ध्वा स परिहीयते ॥ 24 ॥

  25. पितृपैतामहं राज्यं पराप्तवान सवेन तेजसा वायुर अभ्रम इवासाद्य भरंशयत्य अनये सथितः ॥ 25 ॥

  26. धर्मम आचरतॊ राज्ञः सद्भिश चरितम आदितः वसुधा वसुसंपूर्णा वर्धते भूतिवर्धनी ॥ 26 ॥

  27. अथ संत्यजतॊ धर्मम अधर्मं चानुतिष्ठतः परतिसंवेष्टते भूमिर अग्नौ चर्माहितं यथा ॥ 27 ॥

  28. य एव यत्नः करियते परर राष्ट्रावमर्दने स एव यत्नः कर्तव्यः सवराष्ट्र परिपालने ॥ 28 ॥

  29. धर्मेण राज्यं विन्देत धर्मेण परिपालयेत धर्ममूलां शरियं पराप्य न जहाति न हीयते ॥ 29 ॥

  30. अप्य उन्मत्तात परलपतॊ बालाच च परिसर्पतः सर्वतः सारम आदद्याद अश्मभ्य इव काञ्चनम ॥ 30 ॥

  31. सुव्याहृतानि सुधियां सुकृतानि ततस ततः संचिन्वन धीर आसीत शिला हारी शिलं यथा ॥ 31 ॥

  32. गन्धेन गावः पश्यन्ति वेदैः पश्यन्ति बराह्मणाः चारैः पश्यन्ति राजानश चक्षुर्भ्याम इतरे जनाः ॥ 32 ॥

  33. भूयांसं लभते कलेशं या गौर भवति दुर्दुहा अथ या सुदुहा राजन नैव तां विनयन्त्य अपि ॥ 33 ॥

  34. यद अतप्तं परणमति न तत संतापयन्त्य अपि यच च सवयं नतं दारु न तत संनामयन्त्य अपि ॥ 34 ॥

  35. एतयॊपमया धीरः संनमेत बलीयसे इन्द्राय स परणमते नमते यॊ बलीयसे ॥ 35 ॥

  36. पर्जन्यनाथाः पशवॊ राजानॊ मित्र बान्धवाः पतयॊ बान्धवाः सत्रीणां बराह्मणा वेद बान्धवाः ॥ 36 ॥

  37. सत्येन रक्ष्यते धर्मॊ विया यॊगेन रक्ष्यते मृजया रक्ष्यते रूपं कुलं वृत्तेन रक्ष्यते ॥ 37 ॥

  38. मानेन रक्ष्यते धान्यम अश्वान रक्ष्यत्य अनुक्रमः अभीक्ष्णदर्शनाद गावः सत्रियॊ रक्ष्याः कुचेलतः ॥ 38 ॥

  39. न कुलं वृत्ति हीनस्य परमाणम इति मे मतिः अन्त्येष्व अपि हि जातानां वृत्तम एव विशिष्यते ॥ 39 ॥

  40. य ईर्ष्युः परवित्तेषु रूपे वीर्ये कुलान्वये सुखे सौभाग्यसत्कारे तस्य वयाधिर अनन्तकः ॥ 40 ॥

  41. अकार्य करणाद भीतः कार्याणां च विवर्जनात अकाले मन्त्रभेदाच च येन माद्येन न तत पिबेत ॥ 41 ॥

  42. विद्यामदॊ धनमदस तृतीयॊ ऽभिजनॊ मदः एते मदावलिप्तानाम एत एव सतां दमाः ॥ 42 ॥

  43. असन्तॊ ऽभयर्थिताः सद्भिः किं चित कार्यं कदा चन मन्यन्ते सन्तम आत्मानम असन्तम अपि विश्रुतम ॥ 43 ॥

  44. गतिर आत्मवतां सन्तः सन्त एव सतां गतिः असतां च गतिः सन्तॊ न तव असन्तः सतां गतिः ॥ 44 ॥

  45. जिता सभा वस्त्रवता समाशा गॊमता जिता अध्वा जितॊ यानवता सर्वं शीलवता जितम ॥ 45 ॥

  46. शीलं परधानं पुरुषे तद यस्येह परणश्यति न तस्य जीवितेनार्थॊ न धनेन न बन्धुभिः ॥ 46 ॥

  47. आढ्यानां मांसपरमं मध्यानां गॊरसॊत्तरम लवणॊत्तरं दरिद्राणां भॊजनं भरतर्षभ ॥ 47 ॥

  48. संपन्नतरम एवान्नं दरिद्रा भुञ्जते सदा कषुत सवादुतां जनयति सा चाढ्येषु सुदुर्लभा ॥ 48 ॥

  49. परायेण शरीमतां लॊके भॊक्तुं शक्तिर न विद्यते दरिद्राणां तु राजेन्द्र अपि काष्ठं हि जीर्यते ॥ 49 ॥

  50. अवृत्तिर भयम अन्त्यानां मध्यानां मरणाद भयम उत्तमानां तु मर्त्यानाम अवमानात परं भयम ॥ 50 ॥

  51. ऐश्वर्यमदपापिष्ठा मदाः पानमदादयः ऐश्वर्यमदमत्तॊ हि नापतित्वा विबुध्यते ॥ 51 ॥

  52. इन्द्रियौर इन्द्रियार्थेषु वर्तमानैर अनिग्रहैः तैर अयं ताप्यते लॊकॊ नक्षत्राणि गरहैर इव ॥ 52 ॥

  53. यॊ जितः पञ्चवर्गेण सहजेनात्म कर्शिना आपदस तस्य वर्धन्ते शुक्लपक्ष इवॊडुराड ॥ 53 ॥

  54. अविजित्य य आत्मानम अमात्यान विजिगीषते अमित्रान वाजितामात्यः सॊ ऽवशः परिहीयते ॥ 54 ॥

  55. आत्मानम एव परथमं देशरूपेण यॊ जयेत ततॊ ऽमात्यान अमित्रांश च न मॊघं विजिगीषते ॥ 55 ॥

  56. वश्येन्द्रियं जितामात्यं धृतदण्डं विकारिषु परीक्ष्य कारिणं धीरम अत्यन्तं शरीर निषेवते ॥ 56 ॥

  57. रथः शरीरं पुरुषस्य राजन; नात्मा नियन्तेन्द्रियाण्य अस्य चाश्वाः तैर अप्रमत्तः कुशलः सदश्वैर; दान्तैः सुखं याति रथीव धीरः ॥ 57 ॥

  58. एतान्य अनिगृहीतानि वयापादयितुम अप्य अलम अविधेया इवादान्ता हयाः पथि कुसारथिम ॥ 58 ॥

  59. अनर्थम अर्थतः पश्यन्न अर्तं चैवाप्य अनर्थतः इन्द्रियैः परसृतॊ बालः सुदुःखं मन्यते सुखम ॥ 59 ॥

  60. धर्मार्थौ यः परित्यज्य सयाद इन्द्रियवशानुगः शरीप्राणधनदारेभ्य कषिप्रं स परिहीयते ॥ 60 ॥

  61. अर्थानाम ईश्वरॊ यः सयाद इन्द्रियाणाम अनीश्वरः इन्द्रियाणाम अनैश्वर्याद ऐश्वर्याद भरश्यते हि सः ॥ 61 ॥

  62. आत्मनात्मानम अन्विच्छेन मनॊ बुद्धीन्द्रियैर यतैः आत्मैव हय आत्मनॊ बन्धुर आत्मैव रिपुर आत्मनः ॥ 62 ॥

  63. कषुद्राक्षेणेव जालेन झषाव अपिहिताव उभौ कामश च राजन करॊधश च तौ पराज्ञानं विलुम्पतः ॥ 63 ॥

  64. समवेक्ष्येह धर्मार्थौ संभारान यॊ ऽधिगच्छति स वै संभृत संभारः सततं सुखम एधते ॥ 64 ॥

  65. यः पञ्चाभ्यन्तराञ शत्रून अविजित्य मतिक्षयान जिगीषति रिपून अन्यान रिपवॊ ऽभिभवन्ति तम ॥ 65 ॥

  66. दृश्यन्ते हि दुरात्मानॊ वध्यमानाः सवकर्म भिः इन्द्रियाणाम अनीशत्वाद राजानॊ राज्यविभ्रमैः ॥ 66 ॥

  67. असंत्यागात पापकृताम अपापांस; तुल्यॊ दण्डः सपृशते मिश्रभावात शुष्केणार्द्रं दह्यते मिश्रभावात; तस्मात पापैः सह संधिं न कुर्यात ॥ 67 ॥

  68. निजान उत्पततः शत्रून पञ्च पञ्च परयॊजनान यॊ मॊहान न निघृह्णाति तम आपद गरसते नरम ॥ 68 ॥

  69. अनसूयार्जवं शौचं संतॊषः परियवादिता दमः सत्यम अनायासॊ न भवन्ति दुरात्मनाम ॥ 69 ॥

  70. आत्मज्ञानम अनायासस तितिक्षा धर्मनित्यता वाक चैव गुप्ता दानं च नैतान्य अन्त्येषु भारत ॥ 70 ॥

  71. आक्रॊश परिवादाभ्यां विहिंसन्त्य अबुधा बुधान वक्ता पापम उपादत्ते कषममाणॊ विमुच्यते ॥ 71 ॥

  72. हिंसा बलम असाधूनां राज्ञां दण्डविधिर बलम शुश्रूषा तु बलं सत्रीणां कषमागुणवतां बलम ॥ 72 ॥

  73. वाक संयमॊ हि नृपते सुदुष्करतमॊ मतः अर्थवच च विचित्रं च न शक्यं बहुभाषितुम ॥ 73 ॥

  74. अभ्यावहति कल्याणं विविधा वाक सुभाषिता सैव दुर्भाषिता राजन्न अनर्थायॊपपद्यते ॥ 74 ॥

  75. संरॊहति शरैर विद्धं वनं परशुना हतम वाचा दुरुक्तं बीभत्सं न संरॊहति वाक कषतम ॥ 75 ॥

  76. कर्णिनालीकनाराचा निर्हरन्ति शरीरतः वाक्शल्यस तु न निर्हर्तुं शक्यॊ हृदि शयॊ हि सः ॥ 76 ॥

  77. वाक सायका वदनान निष्पतन्ति; यैर आहतः शॊचति रत्र्य अहानि परस्य नामर्मसु ते पतन्ति; तान पण्डितॊ नावसृजेत परेषु ॥ 77 ॥

  78. यस्मै देवाः परयच्छन्ति पुरुषाय पराभवम बुद्धिं तस्यापकर्षन्ति सॊ ऽपाचीनानि पश्यति ॥ 78 ॥

  79. बुद्धौ कलुष भूतायां विनाशे परत्युपस्थिते अनयॊ नयसंकाशॊ हृदयान नापसर्पति ॥ 79 ॥

  80. सेयं बुद्धिः परीता ते पुत्राणां तव भारत पाण्डवानां विरॊधेन न चैनाम अवबुध्यसे ॥ 80 ॥

  81. राजा लक्षणसंपन्नस तरैलॊक्यस्यापि यॊ भवेत शिष्यस ते शासिता सॊ ऽसतु धृतराष्ट्र युधिष्ठिरः ॥ 81 ॥

  82. अतीव सर्वान पुत्रांस ते भागधेय पुरस्कृतः तेजसा परज्ञया चैव युक्तॊ धर्मार्थतत्त्ववित ॥ 82 ॥

  83. आनृशंस्याद अनुक्रॊशाद यॊ ऽसौ धर्मभृतां वरः गौरवात तव राजेन्द्र बहून कलेशांस तितिक्षति ॥ 83 ॥

Reach this point to mark the section finished.

Continue to अध्याय 35

Previous: अध्याय 33