धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 33

  1. [व] दवाःस्थं पराह महाप्राज्ञॊ धृतराष्ट्रॊ महीपतिः विदुरं दरष्टुम इच्छामि तम इहानय माचिरम ॥ 1 ॥

  2. परहितॊ धृतराष्ट्रेण दूतः कषत्तारम अब्रवीत ईश्वरस तवां महाराजॊ महाप्राज्ञ दिदृक्षति ॥ 2 ॥

  3. एवम उक्तस तु विदुरः पराप्य राजनिवेशनम अब्रवीद धृतराष्ट्राय दवाःस्थ मां परतिवेदय ॥ 3 ॥

  4. विदुरॊ ऽयम अनुप्राप्तॊ राजेन्द्र तव शासनात दरष्टुम इच्छति ते पादौ किं करॊतु परशाधि माम ॥ 4 ॥

  5. परवेशय महाप्राज्ञं विदुरं दीर्घदर्शिनम अहं हि विदुरस्यास्य नाकाल्यॊ जातु दर्शने ॥ 5 ॥

  6. परविशान्तः पुरं कषत्तर महाराजस्य धीमतः न हि ते दर्शने ऽकाल्यॊ जातु राजा बरवीति माम ॥ 6 ॥

  7. [व] ततः परविश्य विदुरॊ धृतराष्ट्र निवेशनम अब्रवीत पराञ्जलिर वाक्यं चिन्तयानं नराधिपम ॥ 7 ॥

  8. विदुरॊ ऽहं महाप्राज्ञ संप्राप्तस तव शासनात यदि किं चन कर्तव्यम अयम अस्मि परशाधि माम ॥ 8 ॥

  9. संजयॊ विदुर पराप्तॊ गर्हयित्वा च मां गतः अजातशत्रॊः शवॊ वाक्यं सभामध्ये स वक्ष्यति ॥ 9 ॥

  10. तस्याद्य कुरुवीरस्य न विज्ञातं वचॊ मया तन मे दहति गात्राणि तद अकार्षीत परजागरम ॥ 10 ॥

  11. जाग्रतॊ दह्यमानस्य शरेयॊ यद इह पश्यसि तद बरूहि तवं हि नस तात धर्मार्थकुशलॊ हय असि ॥ 11 ॥

  12. यतः पराप्तः संजयः पाण्डवेभ्यॊ; न मे यथावन मनसः परशान्तिः सवेन्द्रियाण्य अप्रकृतिं गतानि; किं वक्ष्यतीत्य एव हि मे ऽदय चिन्ता ॥ 12 ॥

  13. अभियुक्तं बलवता दुर्बलं हीनसाधनम हृतस्वं कामिनं चॊरम आविशन्ति परजागराः ॥ 13 ॥

  14. कच चिद एतैर महादॊषैर न सपृष्टॊ ऽसि नराधिप कच चिन न परवित्तेषु गृध्यन विपरितप्यसे ॥ 14 ॥

  15. शरॊतुम इच्छामि ते धर्म्यं परं नैःश्रेयसं वचः अस्मिन राजर्षिवंशे हि तवम एकः पराज्ञसंमतः ॥ 15 ॥

  16. निषेवते परशस्तानि निन्दितानि न सेवते अनास्तिकः शरद्दधान एतत पण्डित लक्षणम ॥ 16 ॥

  17. करॊधॊ हर्षश च दर्पश च हरीस्तम्भॊ मान्यमानिता यम अर्थान नापकर्षन्ति स वै पण्डित उच्यते ॥ 17 ॥

  18. यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे कृतम एवास्य जानन्ति स वै पण्डित उच्यते ॥ 18 ॥

  19. यस्य कृत्यं न विघ्नन्ति शीतम उष्णं भयं रतिः समृद्धिर असमृद्धिर वा स वै पण्डित उच्यते ॥ 19 ॥

  20. यस्य संसारिणी परज्ञा धर्मार्थाव अनुवर्तते कामाद अर्थं वृणीते यः स वै पण्डित उच्यते ॥ 20 ॥

  21. यथाशक्ति चिकीर्षन्ति यथाशक्ति च कुर्वते न किं चिद अवमन्यन्ते पण्डिता भरतर्षभ ॥ 21 ॥

  22. कषिप्रं विजानाति चिरं शृणॊति; विज्ञाय चार्थं भजते न कामात नासंपृष्टॊ वयौपयुङ्क्ते परार्थे; तत परज्ञानं परथमं पण्डितस्य ॥ 22 ॥

  23. नाप्राप्यम अभिवाञ्छन्ति नष्टं नेच्छन्ति शॊचितुम आपत्सु च न मुह्यन्ति नराः पण्डित बुद्धयः ॥ 23 ॥

  24. निश्चित्य यः परक्रमते नान्तर वसति कर्मणः अवन्ध्य कालॊ वश्यात्मा स वै पण्डित उच्यते ॥ 24 ॥

  25. आर्य कर्मणि राज्यन्ते भूतिकर्माणि कुर्वते हितं च नाभ्यसूयन्ति पण्डिता भरतर्षभ ॥ 25 ॥

  26. न हृष्यत्य आत्मसंमाने नावमानेन तप्यते गाङ्गॊ हरद इवाक्षॊभ्यॊ यः स पण्डित उच्यते ॥ 26 ॥

  27. तत्त्वज्ञः सर्वभूतानां यॊगज्ञः सर्वकर्मणाम उपायज्ञॊ मनुष्याणां नरः पण्डित उच्यते ॥ 27 ॥

  28. परवृत्त वाक चित्रकथ ऊहवान परतिभानवान आशु गरन्थस्य वक्ता च स वै पण्डित उच्यते ॥ 28 ॥

  29. शरुतं परज्ञानुगं यस्य परज्ञा चैव शरुतानुगा असंभिन्नार्य मर्यादः पण्डिताख्यां लभेत सः ॥ 29 ॥

  30. अश्रुतश च समुन्नद्धॊ दरिद्रश च महामनाः अर्थांश चाकर्मणा परेप्सुर मूढ इत्य उच्यते बुधैः ॥ 30 ॥

  31. सवम अर्थं यः परित्यज्य परार्थम अनुतिष्ठति मिथ्या चरति मित्रार्थे यश च मूढः स उच्यते ॥ 31 ॥

  32. अकामान कामयति यः कामयानान परिद्विषन बलवन्तं च यॊ दवेष्टि तम आहुर मूढचेतसम ॥ 32 ॥

  33. अमित्रं कुरुते मित्रं मित्रं दवेष्टि हिनस्ति च कर्म चारभते दुष्टं तम आहुर मूढचेतसम ॥ 33 ॥

  34. संसारयति कृत्यानि सर्वत्र विचिकित्सते चिरं करॊति कषिप्रार्थे स मूढॊ भरतर्षभ ॥ 34 ॥

  35. अनाहूतः परविशति अपृष्टॊ बहु भाषते विश्वसत्य अप्रमत्तेषु मूढ चेता नराधमः ॥ 35 ॥

  36. परं कषिपति दॊषेण वर्तमानः सवयं तथा यश च करुध्यत्य अनीशः सन स च मूढतमॊ नरः ॥ 36 ॥

  37. आत्मनॊ बलम आज्ञाय धर्मार्थपरिवर्जितम अलभ्यम इच्छन नैष्कर्म्यान मूढ बुद्धिर इहॊच्यते ॥ 37 ॥

  38. अशिष्यं शास्ति यॊ राजन्यश च शून्यम उपासते कदर्यं भजते यश च तम आहुर मूढचेतसम ॥ 38 ॥

  39. अर्थं महान्तम आसाद्य विद्याम ऐश्वर्यम एव वा विचरत्य असमुन्नद्धॊ यः स पण्डित उच्यते ॥ 39 ॥

  40. एकः संपन्नम अश्नाति वस ते वासश च शॊभनम यॊ ऽसंविभज्य भृत्येभ्यः कॊ नृशंसतरस ततः ॥ 40 ॥

  41. एकः पापानि कुरुते फलं भुङ्क्ते महाजनः भॊक्तारॊ विप्रमुच्यन्ते कर्ता दॊषेण लिप्यते ॥ 41 ॥

  42. एकं हन्यान न वाहन्याद इषुर मुक्तॊ धनुष्मता बुद्धिर बुद्धिमतॊत्सृष्टा हन्याद राष्ट्रं सराजकम ॥ 42 ॥

  43. एकया दवे विनिश्चित्य तरींश चतुर्भिर वशे कुरु पञ्च जित्वा विदित्वा षट सप्त हित्वा सुखी भव ॥ 43 ॥

  44. एकं विषरसॊ हन्ति शस्त्रेणैकश च वध्यते सराष्ट्रं स परजं हन्ति राजानं मन्त्रविस्रवः ॥ 44 ॥

  45. एकः सवादु न भुञ्जीत एकश चार्थान न चिन्तयेत एकॊ न गच्छेद अध्वानं नैकः सुप्तेषु जागृयात ॥ 45 ॥

  46. एकम एवाद्वितीयं तद यद राजन नावबुध्यसे सत्यं सवर्गस्य सॊपानं पारावारस्य नौर इव ॥ 46 ॥

  47. एकः कषमावतां दॊषॊ दवितीयॊ नॊपलभ्यते यद एनं कषमया युक्तम अशक्तं मन्यते जनः ॥ 47 ॥

  48. एकॊ धर्मः परं शरेयः कषमैका शान्तिर उत्तमा विद्यैका परमा दृष्टिर अहिंसैका सुखावहा ॥ 48 ॥

  49. दवाव इमौ गरसते भूमिः सर्पॊ बिलशयान इव राजानं चाविरॊद्धारं बराह्मणं चाप्रवासिनम ॥ 49 ॥

  50. दवे कर्मणी नरः कुर्वन्न अस्मिँल लॊके विरॊचते अब्रुवन परुषं किं चिद असतॊ नार्थयंस तथा ॥ 50 ॥

  51. दवाव इमौ पुरुषव्याघ्र परप्रत्यय कारिणौ सत्रियः कामित कामिन्यॊ लॊकः पूजित पूजकः ॥ 51 ॥

  52. दवाव इमौ कण्टकौ तीक्ष्णौ शरीरपरिशॊषणौ यश चाधनः कामयते यश च कुप्यत्य अनीश्वरः ॥ 52 ॥

  53. दवाव इमौ पुरुषौ राजन सवर्गस्य परि तिष्ठतः परभुश च कषमया युक्तॊ दरिद्रश च परदानवान ॥ 53 ॥

  54. नयायागतस्य दरव्यस्य बॊद्धव्यौ दवाव अतिक्रमौ अपात्रे परतिपत्तिश च पात्रे चाप्रतिपादनम ॥ 54 ॥

  55. तरयॊ नयाया मनुष्याणां शरूयन्ते भरतर्षभ कनीयान मध्यमः शरेष्ठ इति वेदविदॊ विदुः ॥ 55 ॥

  56. तरिविधाः पुरुषा राजन्न उत्तमाधममध्यमाः नियॊजयेद यथावत तांस तरिविधेष्व एव कर्मसु ॥ 56 ॥

  57. तरय एवाधना राजन भार्या दासस तथा सुतः यत ते समधिगच्छन्ति यस्य ते तस्य तद धनम ॥ 57 ॥

  58. चत्वारि राज्ञा तु महाबलेन; वर्ज्यान्य आहुः पण्डितस तानि विद्यात अल्पप्रज्ञैः सह मन्त्रं न कुर्यान; न दीर्घसूत्रैर अलसैश चारणैश च ॥ 58 ॥

  59. चत्वारि ते तात गृहे वसन्तु; शरियाभिजुष्टस्य गृहस्थ धर्मे वृद्धॊ जञातिर अवसन्नः कुलीनः; सखा दरिद्रॊ भगिनी चानपत्या ॥ 59 ॥

  60. चत्वार्य आह महाराज सद्यस्कानि बृहस्पतिः पृच्छते तरिदशेन्द्राय तानीमानि निबॊध मे ॥ 60 ॥

  61. देवतानां च संकल्पम अनुभावं च धीमताम विनयं कृतविद्यानां विनाशं पापकर्मणाम ॥ 61 ॥

  62. पञ्चाग्नयॊ मनुष्येण परिचर्याः परयत्नतः पिता माताग्निर आत्मा च गुरुश च भरतर्षभ ॥ 62 ॥

  63. पञ्चैव पूजयँल लॊके यशः पराप्नॊति केवलम देवान पितॄन मनुष्यांश च भिक्षून अतिथिपञ्चमान ॥ 63 ॥

  64. पञ्च तवानुगमिष्यन्ति यत्र यत्र गमिष्यसि मित्राण्य अमित्रा मध्यस्था उपजीव्यॊपजीविनः ॥ 64 ॥

  65. पञ्चेन्द्रियस्य मर्त्यस्य छिद्रं चेद एकम इन्द्रियम ततॊ ऽसय सरवति परज्ञा दृतेः पादाद इवॊदकम ॥ 65 ॥

  66. षड दॊषाः पुरुषेणेह हातव्या भूतिम इच्छता निद्रा तन्द्री भयं करॊध आलस्यं दीर्घसूत्रता ॥ 66 ॥

  67. षड इमान पुरुषॊ जह्याद भिन्नां नावम इवार्णवे अप्रवक्तारम आचार्यम अनधीयानम ऋत्विजम ॥ 67 ॥

  68. अरक्षितारं राजानं भार्यां चाप्रिय वादिनीम गरामकारं च गॊपालं वनकामं च नापितम ॥ 68 ॥

  69. षड एव तु गुणाः पुंसा न हातव्याः कदा चन सत्यं दानम अनालस्यम अनसूया कषमा धृतिः ॥ 69 ॥

  70. षण्णाम आत्मनि नित्यानाम ऐश्वर्यं यॊ ऽधिगच्छति न स पापैः कुतॊ ऽनर्थैर युज्यते विजितेन्द्रियः ॥ 70 ॥

  71. षड इमे षट्सु जीवन्ति सप्तमॊ नॊपलभ्यते चॊराः परमत्ते जीवन्ति वयाधितेषु चिकित्सकाः ॥ 71 ॥

  72. परमदाः कामयानेषु यजमानेषु याजकाः राजा विवदमानेषु नित्यं मूर्खेषु पण्डिताः ॥ 72 ॥

  73. सप्त दॊषाः सदा राज्ञा हातव्या वयसनॊदयाः परायशॊ यैर विनश्यन्ति कृतमूलाश च पार्थिवाः ॥ 73 ॥

  74. सत्रियॊ ऽकषा मृगया पानं वाक पारुष्यं च पञ्चमम महच च दण्डपारुष्यम अर्थदूषणम एव च ॥ 74 ॥

  75. अष्टौ पूर्वनिमित्तानि नरस्य विनशिष्यतः बराह्मणान परथमं दवेष्टि बराह्मणैश च विरुध्यते ॥ 75 ॥

  76. बराह्मण सवानि चादत्ते बराह्मणांश च जिघांसति रमते निन्दया चैषां परशंसां नाभिनन्दति ॥ 76 ॥

  77. नैतान समरति कृत्येषु याचितश चाभ्यसूयति एतान दॊषान नरः पराज्ञॊ बुद्ध्या बुद्ध्वा विवर्जयेत ॥ 77 ॥

  78. अष्टाव इमानि हर्षस्य नव नीतानि भारत वर्तमानानि दृश्यन्ते तान्य एव सुसुखान्य अपि ॥ 78 ॥

  79. समागमश च सखिभिर महांश चैव धनागमः पुत्रेण च परिष्वङ्गः संनिपातश च मैथुने ॥ 79 ॥

  80. समये च परियालापः सवयूथेषु च संनतिः अभिप्रेतस्य लाभश च पूजा च जनसंसदि ॥ 80 ॥

  81. नवद्वारम इदं वेश्म तरिस्थूणं पञ्च साक्षिकम कषेत्रज्ञाधिष्ठितं विद्वान यॊ वेद स परः कविः ॥ 81 ॥

  82. दश धर्मं न जानन्ति धृतराष्ट्र निबॊध तान मत्तः परमत्त उन्मत्तः शरान्तः करुद्धॊ बुभुक्षितः ॥ 82 ॥

  83. तवरमाणश च भीरुश च लुब्धः कामी च ते दश तस्माद एतेषु भावेषु न परसज्जेत पण्डितः ॥ 83 ॥

  84. अत्रैवॊदाहरन्तीमम इतिहासं पुरातनम पुत्रार्थम असुरेन्द्रेण गीतं चैव सुधन्वना ॥ 84 ॥

  85. यः काममन्यू परजहाति राजा; पात्रे परतिष्ठापयते धनं च विशेषविच छरुतवान कषिप्रकारी; तं सर्वलॊकः कुरुते परमाणम ॥ 85 ॥

  86. जानाति विश्वासयितुं मनुष्यान; विज्ञात दॊषेषु दधाति दण्डम जानाति मात्रां च तथा कषमां च; तं तादृशं शरीर जुषते समग्रा ॥ 86 ॥

  87. सुदुर्बलं नावजानाति कं चिद; युक्तॊ रिपुं सेवते बुद्धिपूर्वम न विग्रहं रॊचयते बलस्थैः; काले च यॊ विक्रमते स धीरः ॥ 87 ॥

  88. पराप्यापदं न वयथते कदा चिद; उद्यॊगम अन्विच्छति चाप्रमत्तः दुःखं च काले सहते जितात्मा; धुरंधरस तस्य जिताः सपत्नाः ॥ 88 ॥

  89. अनर्थकं विप्र वासं गृहेभ्यः; पापैः संधिं परदाराभिमर्शम दम्भं सतैन्यं पैशुनं मद्य पानं; न सेवते यः स सुखी सदैव ॥ 89 ॥

  90. न संरम्भेणारभते ऽरथवर्गम; आकारितः शंसति तथ्यम एव न मात्रार्थे रॊचयते विवादं; नापूजितः कुप्यति चाप्य अमूढः ॥ 90 ॥

  91. न यॊ ऽभयसूयत्य अनुकम्पते च; न दुर्बलः परातिभाव्यं करॊति नात्याह किं चित कषमते विवादं; सर्वत्र तादृग लभते परशंसाम ॥ 91 ॥

  92. यॊ नॊद्धतं कुरुते जातु वेषं; न पौरुषेणापि विकत्थते ऽनयान न मूर्च्छितः कटुकान्य आह किं चित; परियं सदा तं कुरुते जनॊ ऽपि ॥ 92 ॥

  93. न वैरम उद्दीपयति परशान्तं; न दर्मम आरॊहति नास्तम एति न दुर्गतॊ ऽसमीति करॊति मन्युं; तम आर्य शीलं परम आहुर अग्र्यम ॥ 93 ॥

  94. न सवे सुखे वै कुरुते परहर्षं; नान्यस्य दुःखे भवति परतीतः दत्त्वा न पश्चात कुरुते ऽनुतापं; न कत्थते सत्पुरुषार्य शीलः ॥ 94 ॥

  95. देशाचारान समयाञ जातिधर्मान; बुभूषते यस तु परावरज्ञः स तत्र तत्राधिगतः सदैव; महाजनस्याधिपत्यं करॊति ॥ 95 ॥

  96. दम्भं मॊहं मत्सरं पापकृत्यं; राजद्विष्टं पैशुनं पूगवैरम मत्तॊन्मत्तैर दुर्जनैश चापि वादं; यः परज्ञावान वर्जयेत स परधानः ॥ 96 ॥

  97. दमं शौचं दैवतं मङ्गलानि; परायश्चित्तं विविधाँल लॊकवादान एतानि यः कुरुते नैत्यकानि; तस्यॊत्थानं देवता राधयन्ति ॥ 97 ॥

  98. समैर विवाहं कुरुते न हीनैः; समैः सख्यं वयवहारं कथाश च गुणैर विशिष्टांश च पुरॊ दधाति; विपश्चितस तस्य नयाः सुनीताः ॥ 98 ॥

  99. मितं भुङ्क्ते संविभज्याश्रितेभ्यॊ; मितं सवपित्य अमितं कर्मकृत्वा ददात्य अमित्रेष्व अपि याचितः संस; तम आत्मवन्तं परजहात्य अनर्थाः ॥ 99 ॥

  100. चिकीर्षितं विप्रकृतं च यस्य; नान्ये जनाः कर्म जानन्ति किं चित मन्त्रे गुप्ते सम्यग अनुष्ठिते च; सवल्पॊ नास्य वयथते कश चिद अर्थः ॥ 100 ॥

  101. यः सर्वभूतप्रशमे निविष्टः; सत्यॊ मृदुर दानकृच छुद्ध भावः अतीव संज्ञायते जञातिमध्ये; महामणिर जात्य इव परसन्नः ॥ 101 ॥

  102. य आत्मनापत्रपते भृशं नरः; स सर्वलॊकस्य गुरुर भवत्य उत अनन्त तेजाः सुमनाः समाहितः; सवतेजसा सूर्य इवावभासते ॥ 102 ॥

  103. वने जाताः शापदग्धस्य राज्ञः; पाण्डॊः पुत्राः पञ्च पञ्चेन्द्र कल्पाः तवयैव बाला वर्धिताः शिक्षिताश च; तवादेशं पालयन्त्य आम्बिकेय ॥ 103 ॥

  104. परदायैषाम उचितं तात राज्यं; सुखी पुत्रैः सहितॊ मॊदमानः न देवानां नापि च मानुषाणां; भविष्यसि तवं तर्कणीयॊ नरेन्द्र ॥ 104 ॥

Reach this point to mark the section finished.

Continue to अध्याय 34

Previous: अध्याय 32