धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 3

  1. [सात्यकि] यादृशः पुरुषस्यात्मा तादृशं संप्रभाषते यथा रूपॊ ऽनतरात्मा ते तथारूपं परभाषसे ॥ 1 ॥

  2. सन्ति वै पुरुषाः शूराः सन्ति कापुरुषास तथा उभाव एतौ दृढौ पक्षौ दृश्येते पुरुषान परति ॥ 2 ॥

  3. एकस्मिन्न एव जायेते कुले कलीब महारथौ फलाफलवती शाखे यथैकस्मिन वनस्पतौ ॥ 3 ॥

  4. नाभ्यसूयामि ते वाक्यं बरुवतॊ लाङ्गलध्वज ये तु शृण्वन्ति ते वाक्यं तान असूयामि माधव ॥ 4 ॥

  5. कथं हि धर्मराजस्य दॊषम अल्पम अपि बरुवन लभते परिषन्मध्ये वयाहर्तुम अकुतॊभयः ॥ 5 ॥

  6. समाहूय महात्मानं जितवन्तॊ ऽकषकॊविदाः अनक्षज्ञं यथाश्रद्धं तेषु धर्मजयः कुतः ॥ 6 ॥

  7. यदि कुन्तीसुतं गेहे करीडन्तं भरातृभिः सह अभिगम्य जयेयुस ते तत तेषां धर्मतॊ भवेत ॥ 7 ॥

  8. समाहूय तु राजानं कषत्रधर्मरतं सदा निकृत्या जितवन्तस ते किं नु तेषां परं शुभम ॥ 8 ॥

  9. कथं परणिपतेच चायम इह कृत्वा पणं परम वनवासाद विमुक्तस तु पराप्तः पैतामहं पदम ॥ 9 ॥

  10. यद्य अयं परवित्तानि कामयेत युधिष्ठिरः एवम अप्य अयम अत्यन्तं परान नार्हति याचितुम ॥ 10 ॥

  11. कथं च धर्मयुक्तास ते न च राज्यं जिहीर्षवः निवृत्तवासान कौन्तेयान य आहुर विदिता इति ॥ 11 ॥

  12. अनुनीता हि भीष्मेण दरॊणेन च महात्मना न वयवस्यन्ति पाण्डूनां परदातुं पैतृकं वसु ॥ 12 ॥

  13. अहं तु ताञ शतैर बाणैर अनुनीय रणे बलात पादयॊः पातयिष्यामि कौन्तेयस्य महात्मनः ॥ 13 ॥

  14. अथ ते न वयवस्यन्ति परणिपाताय धीमतः गमिष्यन्ति सहामात्या यमस्य सदनं परति ॥ 14 ॥

  15. न हि ते युयुधानस्य संरब्धस्य युयुत्सतः वेगं समर्थाः संसॊढुं वज्रस्येव महीधराः ॥ 15 ॥

  16. कॊ हि गाण्डीवधन्वानं कश च चक्रायुधं युधि मां चापि विषहेत कॊ नु कश च भीमं दुरासदम ॥ 16 ॥

  17. यमौ च दृढधन्वानौ यम कल्पौ महाद्युती कॊ जिजीविषुर आसीदेद धृष्टद्युम्नं च पार्षतम ॥ 17 ॥

  18. पञ्चेमान पाण्डवेयांश च दरौपद्याः कीर्तिवर्धनान समप्रमाणान पाण्डूनां समवीर्यान मदॊत्कटान ॥ 18 ॥

  19. सौभद्रं च महेष्वासम अमरैर अपि दुःसहम गद परद्युम्न साम्बांश च कालवज्रानलॊपमान ॥ 19 ॥

  20. ते वयं धृतराष्ट्रस्य पुत्रं शकुनिना सह कर्णेन च निहत्याजाव अभिषेक्ष्याम पाण्डवम ॥ 20 ॥

  21. नाधर्मॊ विद्यते कश चिच छत्रून हत्वाततायिनः अधर्म्यम अयशस्यं च शात्रवाणां परयाचनम ॥ 21 ॥

  22. हृद्गतस तस्य यः कामस तं कुरुध्वम अतन्द्रिताः निसृष्टं धृतराष्ट्रेण राज्यं पराप्नॊतु पाण्डवः ॥ 22 ॥

  23. अद्य पाण्डुसुतॊ राज्यं लभतां वा युधिष्ठिरः निहता वारणे सर्वे सवप्स्यन्ति वसुधातले ॥ 23 ॥

Reach this point to mark the section finished.

Continue to अध्याय 4

Previous: अध्याय 2