धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 2

  1. [बलदेव] शरुतं भवद्भिर गद पूर्वजस्य; वाक्यं यथा धर्मवद अर्थवच च अजातशत्रॊश च हितं हितं च; दुर्यॊधनस्यापि तथैव राज्ञः ॥ 1 ॥

  2. अर्धं हि राज्यस्य विसृज्य वीराः; कुन्तीसुतास तस्य कृते यतन्ते परदाय चार्धं धृतराष्ट्र पुत्रः; सुखी सहास्माभिर अतीव मॊदेत ॥ 2 ॥

  3. लब्ध्वा हि राज्यं पुरुषप्रवीराः; सम्यक परवृत्तेषु परेषु चैव धरुवं परशान्ताः सुखम आविशेयुस; तेषां परशान्तिश च हितं परजानाम ॥ 3 ॥

  4. दुर्यॊधनस्यापि मतं च वेत्तुं; वक्तुं च वाक्यानि युधिष्ठिरस्य परियं मम सयाद यदि तत्र कश चिद; वरजेच छमार्थं कुरुपाण्डवानाम ॥ 4 ॥

  5. स भीष्मम आमन्त्र्य कुरुप्रवीरं; वैचित्र वीर्यं च महानुभावम दरॊणं सपुत्रं विदुरं कृपं च; गान्धारराजं च ससूतपुत्रम ॥ 5 ॥

  6. सर्वे च ये ऽनये धृतराष्ट्र पुत्रा; बलप्रधाना निगम परधानाः सथिताश च धर्मेषु यथा सवकेषु; लॊकप्रवीराः शरुतकालवृद्धाः ॥ 6 ॥

  7. एतेषु सर्वेषु समागतेषु; पौरेषु वृद्धेषु च संगतेषु बरवीतु वाक्यं परणिपात युक्तं; कुन्तीसुतस्यार्थ करं यथा सयात ॥ 7 ॥

  8. सर्वास्व अवस्थासु च ते न कौट्याद; गरस्तॊ हि सॊ ऽरथॊ बलम आश्रितैस तैः परियाभ्युपेतस्य युधिष्ठिरस्य; दयूते परमत्तस्य हृतं च राज्यम ॥ 8 ॥

  9. निवार्यमाणश च कुरुप्रवीरैः; सर्वैः सुहृद्भिर हय अयम अप्य अतज्ज्ञः गान्धारराजस्य सुतं मताक्षं; समाह्वयेद देवितुम आजमीढः ॥ 9 ॥

  10. दुरॊदरास तत्र सहस्रशॊ ऽनये; युधिष्ठिरॊ यान विषहेत जेतुम उत्सृज्य तान सौबलम एव चायं; समाह्वयत तेन जितॊ ऽकषवत्याम ॥ 10 ॥

  11. स दीव्यमानः परतिदेवनेन; अक्षेषु नित्यं सुपराङ्मुखेषु संरम्भमाणॊ विजितः परसह्य; तत्रापराधः शकुनेर न कश चित ॥ 11 ॥

  12. तस्मात परणम्यैव वचॊ बरवीतु; वैचित्रवीर्यं बहु साम युक्तम तथा हि शक्यॊ धृतराष्ट्र पुत्रः; सवार्थे नियॊक्तुं पुरुषेण तेन ॥ 12 ॥

  13. [व] एवं बरुवत्य एव मधु परवीरे; शिनिप्रवीरः सहसॊत्पपात तच चापि वाक्यं परिनिन्द्य तस्य; समाददे वक्यम इदं समन्युः ॥ 13 ॥

Reach this point to mark the section finished.

Continue to अध्याय 3

Previous: अध्याय 1