धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 4

  1. [दरुपद] एवम एतन महाबाहॊ भविष्यति न संशयः न हि दुर्यॊधनॊ राज्यं मधुरेण परदास्यति ॥ 1 ॥

  2. अनुवर्त्स्यति तं चापि धृतराष्ट्रः सुतप्रियः भीष्मद्रॊणौ च कार्पण्यान मौर्ख्याद राधेय सौबलौ ॥ 2 ॥

  3. बलदेवस्य वाक्यं तु मम जञाने न युज्यते एतद धि पुरुषेणाग्रे कार्यं सुनयम इच्छता ॥ 3 ॥

  4. न तु वाच्यॊ मृदु वचॊ धार्तराष्ट्रः कथं चन न हि मार्दवसाध्यॊ ऽसौ पापबुद्धिर मतॊ मम ॥ 4 ॥

  5. गर्दभे मार्दवं कुर्याद गॊषु तीक्ष्णं समाचरेत मृदु दुर्यॊधने वाक्यं यॊ बरूयात पापचेतसि ॥ 5 ॥

  6. मृदु वै मन्यते पापॊ भाष्य माणम अशक्तिजम जितम अर्थं विजानीयाद अबुधॊ मार्दवे सति ॥ 6 ॥

  7. एतच चैव करिष्यामॊ यत्नश च करियताम इह परस्थापयाम मित्रेभ्यॊ बलान्य उद्यॊजयन्तु नः ॥ 7 ॥

  8. शल्यस्य धृष्टकेतॊश च जयत्सेनस्य चाभिभॊः केकयानां च सर्वेषां दूता गच्छन्तु शीघ्रगाः ॥ 8 ॥

  9. स तु दुर्यॊधनॊ नूनं परेषयिष्यति सर्वशः पूर्वाभिपन्नाः सन्तश च भजन्ते पूर्वचॊदकम ॥ 9 ॥

  10. तत तवरध्वं नरेन्द्राणां पूर्वम एव परचॊदने महद धि कार्यं वॊढव्यम इति मे वर्तते मतिः ॥ 10 ॥

  11. शल्यस्य परेष्यतां शीघ्रं ये च तस्यानुगा नृपाः भगदत्ताय राज्ञे च पूर्वसागरवासिने ॥ 11 ॥

  12. अमितौजसे तथॊग्राय हार्दिक्यायाहुकाय च दीर्घप्रज्ञाय मल्लाय रॊचमानाय चाभिभॊ ॥ 12 ॥

  13. आनीयतां बृहन्तश च सेना बिन्दुश च पार्थिवः पापजित परतिविन्ध्यश च चित्रवर्मा सुवास्तुकः ॥ 13 ॥

  14. बाह्लीकॊ मुञ्ज केशश च चैद्याधिपतिर एव च सुपार्श्वश च सुबाहुश च पौरवश च महारथः ॥ 14 ॥

  15. शकानां पह्लवानां च दरदानां च ये नृपाः काम्बॊजा ऋषिका ये च पश्चिमानूपकाश च ये ॥ 15 ॥

  16. जयसेनश च काश्यश च तथा पञ्चनदा नृपाः कराथ पुत्रश च दुर्धर्षः पार्वतीयाश च ये नृपाः ॥ 16 ॥

  17. जानकिश च सुशर्मा च मणिमान पौतिमत्स्यकः पांसुराष्ट्राधिपश चैव धृष्टकेतुश च वीर्यवान ॥ 17 ॥

  18. औड्रश च दण्डधारश च बृहत्सेनश च वीर्यवान अपराजितॊ निषादश च शरेणिमान वसुमान अपि ॥ 18 ॥

  19. बृहद्बलॊ महौजाश च बाहुः परपुरंजयः समुद्रसेनॊ राजा च सह पुत्रेण वीर्यवान ॥ 19 ॥

  20. अदारिश च नदीजश च कर्ण वृष्टश च पार्थिवः समर्थश च सुवीरश च मार्जारः कन्यकस तथा ॥ 20 ॥

  21. महावीरश च कद्रुश च निकरस तुमुलः करथः नीलश च वीरधर्मा च भूमिपालश च वीर्यवान ॥ 21 ॥

  22. दुर्जयॊ दन्तवक्त्रश च रुक्मी च जनमेजयः आषाढॊ वायुवेगश च पूर्वपाली च पार्थिवः ॥ 22 ॥

  23. भूरि तेजा देवकश च एकलव्यस्य चात्मजः कारूषकाश च राजानः कषेमधूर्तिश च वीर्यवान ॥ 23 ॥

  24. उद्भवः कषेमकश चैव वाटधानश च पार्थिवः शरुतायुश च दृढायुश च शाल्व पुत्रश च वीर्यवान ॥ 24 ॥

  25. कुमारश च कलिङ्गानाम ईश्वरॊ युद्धदुर्मदः एतेषां परेष्यतां शीघ्रम एतद धि मम रॊचते ॥ 25 ॥

  26. अयं च बराह्मणः शीघ्रं मम राजन पुरॊहितः परेष्यतां धृतराष्ट्राय वाक्यम अस्मिन समर्प्यताम ॥ 26 ॥

  27. यथा दुर्यॊधनॊ वाच्यॊ यथा शांतनवॊ नृपः धृतराष्ट्रॊ यथा वाच्यॊ दरॊणश च विदुषां वरः ॥ 27 ॥

Reach this point to mark the section finished.

Continue to अध्याय 5

Previous: अध्याय 3