धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 23

  1. [व] राज्ञस तु वचनं शरुत्वा धृतराष्ट्रस्य संजयः उपप्लव्यं ययौ दरष्टुं पाण्डवान अमितौजसः ॥ 1 ॥

  2. स तु राजानम आसाद्य धर्मात्मानं युधिष्ठिरम परणिपत्य ततः पूर्वं सूतपुत्रॊ ऽभयभाषत ॥ 2 ॥

  3. गावल्गणिः संजय सूत सूनुर; अजातशत्रुम अवदत परतीतः दिष्ट्या राजंस तवाम अरॊगं परपश्ये; सहायवन्तं च महेन्द्रकल्पम ॥ 3 ॥

  4. अनामयं पृच्छति तवाम्बिकेयॊ; वृद्धॊ राजा धृतराष्ट्रॊ मनीषी कच चिद भीमः कुशली पाण्डवाग्र्यॊ; धनंजयस तौ च माद्री तनूजौ ॥ 4 ॥

  5. कच चित कृष्णा दरौपदी राजपुत्री; सत्यव्रता वीर पत्नी सपुत्रा मनस्विनी यत्र च वाञ्छसि तवम; इष्टान कामान भारत सवस्ति कामः ॥ 5 ॥

  6. गावल्गणे संजय सवागतं ते; परीतात्माहं तवाभिवदामि सूत अनामयं परतिजाने तवाहं; सहानुजैः कुशली चास्मि विद्वन ॥ 6 ॥

  7. चिराद इदं कुशलं भरतस्य; शरुत्वा राज्ञः कुरुवृद्धस्य सूत मन्ये साक्षाद दृष्टम अहं नरेन्द्रं; दृष्ट्वैव तवां संजय परीतियॊगात ॥ 7 ॥

  8. पितामहॊ नः सथविरॊ मनस्वी; महाप्रज्ञः सर्वधर्मॊपपन्नः स कौरव्यः कुशली तात भीष्मॊ; यथापूर्वं वृत्तिर अप्य अस्य कच चित ॥ 8 ॥

  9. कच चिद राजा धृतराष्ट्रः सपुत्रॊ; वैचित्र वीर्यः कुशली महात्मा महाराजॊ बाह्लिकः परातिपेयः; कच चिद विद्वान कुशली सूतपुत्र ॥ 9 ॥

  10. स सॊमदत्तः कुशली तात कच चिद; भूरिश्रवाः सत्यसंधः शलश च दरॊणः सपुत्रश च कृपश च विप्रॊ; महेष्वासाः कच चिद एते ऽपय अरॊगाः ॥ 10 ॥

  11. महाप्राज्ञाः सर्वशास्त्रावदाता; धनुर भृतां मुख्यतमाः पृथिव्याम कच चिन मानं तात लभन्त एते; धनुर भृतः कच चिद एते ऽपय अरॊगाः ॥ 11 ॥

  12. सर्वे कुरुभ्यः सपृहयन्ति संजय; धनुर्धरा ये पृथिव्यां युवानः येषां राष्ट्रे निवसति दर्शनीयॊ; महेष्वासः शीलवान दरॊणपुत्रः ॥ 12 ॥

  13. वैश्यापुत्रः कुशली तात कच चिन; महाप्राज्ञॊ राजपुत्रॊ युयुत्सुः कर्णॊ ऽमात्यः कुशली तात कच चित; सुयॊधनॊ यस्य मन्दॊ विधेयः ॥ 13 ॥

  14. सत्रियॊ वृद्धा भारतानां जनन्यॊ; महानस्यॊ दासभार्याश च सूत वध्वः पुत्रा भागिनेया भगिन्यॊ; दौहित्रा वा कच चिद अप्य अव्यलीकाः ॥ 14 ॥

  15. कच चिद राजा बाह्मणानां यथावत; परवर्तते पूर्ववत तात वृत्तिम कच चिद दायान मामकान धार्तराष्ट्रॊ; दविजातीनां संजय नॊपहन्ति ॥ 15 ॥

  16. कच चिद राजा धृतराष्ट्रः सपुत्र; उपेक्षते बराह्मणातिक्रमान वै कच चिन न हेतॊर इव वर्त्म भूत; उपेक्षते तेषु स नयून वृत्तिम ॥ 16 ॥

  17. एतज जयॊतिर उत्तमं जीवलॊके; शुक्लं परजानां विहितं विधात्रा ते चेल लॊभं न नियच्छन्ति मन्दाः; कृत्स्नॊ नाशॊ भविता कौरवाणाम ॥ 17 ॥

  18. कच चिद राजा धृतराष्ट्रः सपुत्रॊ; बुभूषते वृत्तिम अमात्यवर्गे कच चिन न भेदेन जिजीविषन्ति; सुहृद रूपा दुर्हृदश चैकमित्राः ॥ 18 ॥

  19. कच चिन न पापं कथयन्ति तात; ते पाण्डवानां कुरवः सर्व एव कच चिद दृष्ट्वा दस्यु संघान समेतान; समरन्ति पार्थस्य युधां परणेतुः ॥ 19 ॥

  20. मौर्वी भुजाग्र परहितान सम तात; दॊधूयमानेन धनुर्धरेण गाण्डीवमुक्तान सतनयित्नुघॊषान; अजिह्मगान कच चिद अनुस्मरन्ति ॥ 20 ॥

  21. न हय अपश्यं कं चिद अहं पृथिव्यां; शरुतं समं वाधिकम अर्जुनेन यस्यैक षष्टिर निशितास तीक्ष्णधाराः; सुवाससः संमतॊ हस्तवापः ॥ 21 ॥

  22. गदापाणिर भीमसेनस तरस्वी; परवेपयञ शत्रुसंघान अनीके नागः परभिन्न इव नड्वलासु; चङ्क्रम्यते कच चिद एनं समरन्ति ॥ 22 ॥

  23. माद्रीपुत्रः सहदेवः कलिङ्गान; समागतान अजयद दन्तकूरे वामेनास्यन दक्षिणेनैव यॊ वै; महाबलं कच चिद एनं समरन्ति ॥ 23 ॥

  24. उद्यन्न अयं नकुलः परेषितॊ वै; गावल्गणे संजय पश्यतस ते दिशं परतीचीं वशम आनयन मे; माद्री सुतं कच चिद एनं समरन्ति ॥ 24 ॥

  25. अभ्याभवॊ दवैतवने य आसीद; दुर्मन्त्रिते घॊषयात्रा गतानाम यत्र मन्दाञ शत्रुवशं परयातान; अमॊचयद भीमसेनॊ जयश च ॥ 25 ॥

  26. अहं पश्चाद अर्जुनम अभ्यरक्षं; माद्रीपुत्रौ भीमसेनश च चक्रे गाण्डीवभृच छत्रुसंघान उदस्य; सवस्त्य आगमत कच चिद एनं समरन्ति ॥ 26 ॥

  27. न कर्मणा साधुनैकेन नूनं; कर्तुं शक्यं भवतीह संजय सर्वात्मना परिजेतुं वयं चेन; न शक्नुमॊ धृतराष्ट्रस्य पुत्रम ॥ 27 ॥

Reach this point to mark the section finished.

Continue to अध्याय 24

Previous: अध्याय 22