धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 22

  1. [धृ] पराप्तान आहुः संजय पाण्डुपुत्रान; उपप्लव्ये तान विजानीहि गत्वा अजातशत्रुं च सभाजयेथा; दिष्ट्यानघ गरामम उपस्थितस तवम ॥ 1 ॥

  2. सर्वान वदेः संजय सवस्तिमन्तः; कृच्छ्रं वासम अतदर्हा निरुष्य तेषां शान्तिर विद्यते ऽसमासु शीघ्रं; मिथ्यॊपेतानाम उपकारिणां सताम ॥ 2 ॥

  3. नाहं कव चित संजय पाण्डवानां; मिथ्यावृत्तिं कां चन जात्व अपश्यम सर्वां शरियं हय आत्मवीर्येण लब्ध्वा; पर्याकार्षुः पाण्डवा मह्यम एव ॥ 3 ॥

  4. दॊषं हय एषां नाधिगच्छे परिक्षन; नित्यं कं चिद येन गर्हेय पार्थान धर्मार्थाभ्यां कर्म कुर्वन्ति नित्यं; सुखप्रिया नानुरुध्यन्ति कामान ॥ 4 ॥

  5. धर्मं शीतं कषुत्पिपासे तथैव; निद्रां तन्द्रीं करॊधहर्षौ परमादम धृत्या चैव परज्ञया चाभिभूय; धर्मार्थयॊगान परयतन्ति पार्थाः ॥ 5 ॥

  6. तयजन्ति मित्रेषु धनानि काले; न संवासाज जीर्यति मैत्रम एषाम यथार्ह मानार्थ करा हि पार्थास; तेषां दवेष्टा नास्त्य आजमीढस्य पक्षे ॥ 6 ॥

  7. अन्यत्र पापाद विषमान मन्दबुद्धेर; दुर्यॊधनात कषुद्रतराच च कर्णात तेषां हीमे हीनसुखप्रियाणां; महात्मनां संजनयन्ति तेजः ॥ 7 ॥

  8. उत्थानवीर्यः सुखम एधमानॊ; दुर्यॊधनः सुकृतं मन्यते तत तेषां भागं यच च मन्येत बालः; शक्यं हर्तुं जीवतां पाण्डवानाम ॥ 8 ॥

  9. यस्यार्जुनः पदवीं केशवश च; वृकॊदरः सात्यकॊ ऽजातशत्रॊः माद्रीपुत्रौ सृञ्जयाश चापि सर्वे; पुरा युद्धात साधु तस्य परदानम ॥ 9 ॥

  10. स हय एवैकः पृथिवीं सव्यसाची; गाण्डीवधन्वा परणुदेद रथस्थः तथा विष्णुः केशवॊ ऽपय अप्रधृष्यॊ; लॊकत्रयस्याधिपतिर महात्मा ॥ 10 ॥

  11. तिष्ठेत कस तस्य मर्त्यः पुरस्ताद; यः सर्वदेवेषु वरेण्य ईड्यः पर्जन्यघॊषान परवपञ शरौघान; पतंगसंघान इव शीघ्रवेगान ॥ 11 ॥

  12. दिशं हय उदीचीम अपि चॊत्तरान कुरून; गाण्डीवधन्वैक रथॊ जिगाय धनं चैषाम आहरत सव्यसाची; सेनानुगान बलिदांश चैव चक्रे ॥ 12 ॥

  13. यश चैव देवान खाण्डवे सव्यसाची; गाण्डीवधन्वा परजिगाय सेन्द्रान उपाहरत फल्गुनॊ जातवेदसे; यशॊ मानं वर्धयन पाण्डवानाम ॥ 13 ॥

  14. गदा भृतां नाद्य समॊ ऽसति; भीमाद धस्त्य आरॊहॊ नास्ति समश च तस्य रथे ऽरजुनाद आहुर अहीनम एनं; बाह्वॊर बले चायुत नागवीर्यम ॥ 14 ॥

  15. सुशिक्षितः कृतवैरस तरस्वी; दहेत करुद्धस तरसा धार्तराष्ट्रान सदात्यमर्षी बलवान न शक्यॊ; युद्धे जेतुं वासवेनापि साक्षात ॥ 15 ॥

  16. सुचेतसौ बलिनौ शीघ्रहस्तौ; सुशिक्षितौ भरातरौ फल्गुनेन शयेनौ यथा पक्षिपूगान रुजन्तौ; माद्रीपुत्रौ नेह कुरून विशेताम ॥ 16 ॥

  17. तेषां मध्ये वर्तमानस तरस्वी; धृष्टद्युम्नः पाण्डवानाम इहैकः सहामात्यः सॊमकानां परबर्हः; संत्यक्तात्मा पाण्डवानां जयाय ॥ 17 ॥

  18. सहॊषितश चरितार्थॊ वयः सथः; शाल्वेयानाम अधिपॊ वै विराटः सह पुत्रैः पाण्डवार्थे च शश्वद; युधिष्ठिरं भक्त इति शरुतं मे ॥ 18 ॥

  19. अवरुद्धा बलिनः केकयेभ्यॊ; महेष्वासा भरातरः पञ्च सन्ति केकयेभ्यॊ राज्यम आकाङ्क्षमाणा; युद्धार्थिनश चानुवसन्ति पार्थान ॥ 19 ॥

  20. सर्वे च वीराः पृथिवीपतीनां; समानीताः पाण्डवार्थे निविष्टाः शूरान अहं भक्तिमतः शृणॊमि; परीत्या युक्तान संश्रितान धर्मराजम ॥ 20 ॥

  21. गिर्याश्रया दुर्ग निवासिनश च; यॊधाः पृथिव्यां कुलजा विशुद्धाः मलेच्छाश च नानायुध वीर्यवन्तः; समागताः पाण्डवार्थे निविष्टाः ॥ 21 ॥

  22. पाण्ड्यश च राजामित इन्द्रकल्पॊ; युधि परवीरैर बहुभिः समेतः समागतः पाण्डवार्थे महात्मा; लॊकप्रवीरॊ ऽपरतिवीर्य तेजाः ॥ 22 ॥

  23. अस्त्रं दरॊणाद अर्जुनाद वासुदेवात; कृपाद भीष्माद येन कृतं शृणॊमि यं तं कार्ष्णि परतिमं पराहुर एकं; स सात्यकिः पाण्डवार्थे निविष्टः ॥ 23 ॥

  24. अपाश्रिताश चेदिकरूषकाश च; सर्वॊत्साहैर भूमिपालैः समेताः तेषां मध्ये सूर्यम इवातपन्तं; शरिया वृतं चेदिपतिं जवलन्तम ॥ 24 ॥

  25. अस्तम्भनीयं युधि मन्यमानं; जया कर्षतां शरेष्ठतमं पृथिव्याम सर्वॊत्साहं कषत्रियाणां निहत्य; परसह्य कृष्णस तरसा ममर्द ॥ 25 ॥

  26. यशॊ मानौ वर्धयन यादवानां; पुराभिनच छिशुपालं समीके यस्य सर्वे वर्धयन्ति सम मानं; करूष राजप्रमुखा नरेन्द्राः ॥ 26 ॥

  27. तम असह्यं केशवं तत्र मत्वा; सुग्रीव युक्तेन रथेन कृष्णम संप्राद्रवंश चेदिपतिं विहाय; सिंहं दृष्ट्वा कषुद्रमृगा इवान्ये ॥ 27 ॥

  28. यस तं परतीपस तरसा परत्युदीयाद; आशंसमानॊ दवैरथे वासुदेवम सॊ ऽशेत कृष्णेन हतः परासुर; वातेनेवॊन्मथितः कर्णिकारः ॥ 28 ॥

  29. पराक्रमं मे यद अवेदयन्त; तेषाम अर्थे संजय केशवस्य अनुस्मरंस तस्य कर्माणि विष्णॊर; गावल्गणे नाधिगच्छामि शान्तिम ॥ 29 ॥

  30. न जातु ताञ शत्रुर अन्यः सहेत; येषां स सयाद अग्रणीर वृष्णिसिंहः परवेपते मे हृदयं भयेन; शरुत्वा कृष्णाव एकरथे समेतौ ॥ 30 ॥

  31. नॊ चेद गच्छेत संगरं मन्दबुद्धिस; ताभ्यां सुतॊ मे विपरीतचेताः नॊ चेत कुरून संजय निर्दहेताम; इन्द्रा विष्णू दैत्य सेनां यथैव मतॊ हि मे शक्रसमॊ धनंजयः; सनातनॊ वृष्णिवीरश च विष्णुः ॥ 31 ॥

  32. धर्मारामॊ हरीनिषेधस तरस्वी; कुन्तीपुत्रः पाण्डवॊ ऽजातशत्रुः दुर्यॊधनेन निकृतॊ मनस्वी; नॊ चेत करुद्ध परदहेद धार्तराष्ट्रान ॥ 32 ॥

  33. नाहं तथा हय अर्जुनाद वासुदेवाद; भीमाद वापि परदहेद धार्तराष्ट्रान यथा राज्ञः करॊधदीप्तस्य सूत; मन्यॊर अहं भीततरः सदैव ॥ 33 ॥

  34. अलं तपॊ बरह्मचर्येण युक्तः; संकल्पॊ ऽयं मानसस तस्य सिध्येत तस्य करॊधं संजयाहं सिमीके; सथाने जानभृशम अस्म्य अद्य भीतः ॥ 34 ॥

  35. स गच्छ शीघ्रं परहितॊ रथेन; पाञ्चालराजस्य चमूं परेत्य अजातशत्रुं कुशलं सम पृच्छेः; पुनः पुनः परीतियुक्तं वदेस तवम ॥ 35 ॥

  36. जनार्दनं चापि समेत्य तात; महामात्रं वीर्यवताम उदारम अनामयं मद्वचनेन पृच्छेर; धृतराष्ट्रः पाण्डवैः शान्तिम ईप्सुः ॥ 36 ॥

  37. न तस्य किं चिद वचनं न कुर्यात; कुन्तीपुत्रॊ वासुदेवस्य सूत परियश चैषाम आत्मसमश च कृष्णॊ; विद्वांश चैषां कर्मणि नित्ययुक्तः ॥ 37 ॥

  38. समानीय पाणवान सृञ्जयांश च; जनार्दनं युयुधानं विराटम अनामयं मद्वचनेन पृच्छेः; सर्वांस तथा दरौपदेयांश च पञ्च ॥ 38 ॥

  39. यद यत तत्र पराप्तकालं परेभ्यस; तवं मन्येथा भारतानां हितं च तत तद भाषेथाः संजय राजमध्ये; न मूर्छयेद यन न भवेच च युद्धम ॥ 39 ॥

Reach this point to mark the section finished.

Continue to अध्याय 23

Previous: अध्याय 21