[सम्जय] यथार्हसे पाण्डव तत तथैव; कुरून कुरुश्रेष्ठ जनं च पृच्छसि अनामयास तात मनस्विनस ते; कुरुश्रेष्ठान पृच्छसि पार्थ यांस तवम ॥ 1 ॥
सन्त्य एव वृद्धाः साधवॊ धार्तराष्ट्रे; सन्त्य एव पापाः पाण्डव तस्य विद्धि दद्याद रिपॊश चापि हि धार्तराष्ट्रः; कुतॊ दायाँल लॊपयेद बराह्मणानाम ॥ 2 ॥
यद युष्माकं वर्तते ऽसौ न धर्म्यम; अद्रुग्धेषु दरुग्धवत तन न साधु मित्र धरुक सयाद धृतराष्ट्रः सपुत्रॊ; युष्मान दविषन साधु वृतान असाधुः ॥ 3 ॥
न चानुजानाति भृशं च तप्यते; शॊचत्य अन्तः सथविरॊ ऽजातशत्रॊ शृणॊति हि बराह्मणानां समेत्य; मित्रद्रॊहः पातकेभ्यॊ गरीयान ॥ 4 ॥
समरन्ति तुभ्यं नरदेवं संगमे; युद्धे च जिष्णॊश च युधां परणेतुः समुत्कृष्टे दुन्दुभिशङ्खशब्दे; गदापाणिं भीमसेनं समरन्ति ॥ 5 ॥
माद्री सुतौ चापि रणाजिमध्ये; सर्वा दिशः संपतन्तौ समरन्ति सेनां वर्षन्तौ शरवर्षैर अजस्रं; महारथौ समरे दुष्प्रकम्प्यौ ॥ 6 ॥
न तव एव मन्ये पुरुषस्य राजन्न; अनागतं जञायते यद भविष्यम तवं चेद इमं सर्वधर्मॊपपन्नः; पराप्तः कलेशं पाण्डव कृच्छ्ररूपम ॥ 7 ॥
तवम एवैतत सर्वम अतश च भूयः; समीकुर्याः परज्ञयाजात शत्रॊ न कामार्थं संत्यजेयुर हि धर्मं; पाण्डॊः सुताः सर्व एवेन्द्र कल्पाः ॥ 8 ॥
तवम एवैतत परज्ञयाजात शत्रॊ; शमं कुर्या येन शर्माप्नुयुस ते धार्तराष्ट्राः पाण्डवाः सृञ्जयाश च; ये चाप्य अन्ये पार्थिवाः संनिविष्टाः ॥ 9 ॥
यन माब्रवीद धृतराष्ट्रॊ निशायाम; अजातशत्रॊ वचनं पिता ते सहामात्यः सह पुत्रश च राजन; समेत्य तां वाचम इमां निबॊध ॥ 10 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 24
Reach this point to mark the section finished.
Continue to अध्याय 25