[व] तस्य तद वचनं शरुत्वा परज्ञावृद्धॊ महाद्युतिः संपूज्यैनं यथाकालं भीष्मॊ वचनम अब्रवीत ॥ 1 ॥
दिष्ट्या कुशलिनः सर्वे पाण्डवाः सह बान्धवैः दिष्ट्या सहायवन्तश च दिष्ट्या धर्मे च ते रताः ॥ 2 ॥
दिष्ट्या च संधिकामास ते भरातरः कुरुनन्दनाः दिष्ट्या न युद्धमनसः सह दामॊदरेण ते ॥ 3 ॥
भवता सत्यम उक्तं च सर्वम एतन न संशयः अतितीक्ष्णं तु ते वाक्यं बराह्मण्याद इति मे मतिः ॥ 4 ॥
असंशयं कलेशितास ते वने चेह च पाण्डवाः पराप्ताश च धर्मतः सर्वं पितुर धनम असंशयम ॥ 5 ॥
किरीटी बलवान पार्थः कृतास्त्रश च महाबलः कॊ हि पाण्डुसुतं युद्धे विषहेत धनंजयम ॥ 6 ॥
अपि वज्रधरः साक्षात किम उतान्ये धनुर भृतः तरयाणाम अपि लॊकानां समर्थ इति मे मतिः ॥ 7 ॥
भीष्मे बरुवति तद वाक्यं धृष्टम आक्षिप्य मन्युमान दुर्यॊधनं समालॊक्य कर्णॊ वचनम अब्रवीत ॥ 8 ॥
न तन न विदितं बरह्मँल लॊके भूतेन केन चित पुनर उक्तेन किं तेन भाषितेन पुनः पुनः ॥ 9 ॥
दुर्यॊधनार्थे शकुनिर दयूते निर्जितवान पुरा समयेन गतॊ ऽरण्यं पाण्डुपुत्रॊ युधिष्ठिरः ॥ 10 ॥
न तं समयम आदृत्य राज्यम इच्छति पैतृकम बलम आश्रित्य मत्स्यानां पाञ्चालानां च पार्थिवः ॥ 11 ॥
दुर्यॊधनॊ भयाद विद्वन न दद्यात पदम अन्ततः धर्मतस तु महीं कृत्स्नां परदद्याच छत्रवे ऽपि च ॥ 12 ॥
यदि काङ्क्षन्ति ते राज्यं पितृपैतामहं पुनः यथाप्रतिज्ञं कालं तं चरन्तु वनम आश्रिताः ॥ 13 ॥
ततॊ दुर्यॊधनस्याङ्के वर्तन्ताम अकुतॊभयाः अधार्मिकाम इमां बुद्धिं कुर्युर मौर्ख्याद धि केवलम ॥ 14 ॥
अथ ते धर्मम उत्सृज्य युद्धम इच्छन्ति पाण्डवाः आसाद्येमान कुरुश्रेष्ठान समरिष्यन्ति वचॊ मम ॥ 15 ॥
किं नु राधेय वाचा ते कर्म तत समर्तुम अर्हसि एक एव यदा पार्थः षड रथाञ जितवान युधि ॥ 16 ॥
न चेद एवं करिष्यामॊ यद अयं बराह्मणॊ ऽबरवीत धरुवं युधि हतास तेन भक्षयिष्याम पांसुकान ॥ 17 ॥
धृतराष्ट्रस ततॊ भीष्मम अनुमान्य परसाद्य च अवभर्त्स्य च राधेयम इदं वचनम अब्रवीत ॥ 18 ॥
अस्मद्धितम इदं वाक्यं भीष्मः शांतनवॊ ऽबरवीत पाण्डवानां हितं चैव सर्वस्य जगतस तथा ॥ 19 ॥
चिन्तयित्वा तु पार्थेभ्यः परेषयिष्यामि संजयम स भवान परतियात्व अद्य पाण्डवान एव माचिरम ॥ 20 ॥
स तं सत्कृत्य कौरव्यः परेषयाम आस पाण्डवान सभामध्ये समाहूय संजयं वाक्यम अब्रवीत ॥ 21 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 21
Reach this point to mark the section finished.
Continue to अध्याय 22