धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 20

  1. [व] स तु कौरव्यम आसाद्य दरुपदस्य पुरॊहितः सत्कृतॊ धृतराष्ट्रेण भीष्मेण विदुरेण च ॥ 1 ॥

  2. सर्वं कौशल्यम उक्त्वादौ पृष्ट्वा चैवम अनामयम सर्वसेनाप्रणेतॄणां मध्ये वाक्यम उवाच ह ॥ 2 ॥

  3. सर्वैर भवद्भिर विदितॊ राजधर्मः सनातनः वाक्यॊपादान हेतॊस तु वक्ष्यामि विदिते सति ॥ 3 ॥

  4. धृतरष्ट्रश च पाण्डुश च सुताव एकस्य विश्रुतौ तयॊः समानं दरविणं पैतृकं नात्र संशयः ॥ 4 ॥

  5. धृतराष्ट्रस्य ये पुत्रास ते पराप्ताः पैतृकं वसु पाण्डुपुत्राः कथं नाम न पराप्ताः पैतृकं वसु ॥ 5 ॥

  6. एवंगते पाण्डवेयैर विदितं वः पुरा यथा न पराप्तं पैतृकं दरव्यं धार्तराष्ट्रेण संवृतम ॥ 6 ॥

  7. पराणान्तिकैर अप्य उपायैः परयतद्भिर अनेकशः शेषवन्तॊ न शकिता नयितुं यमसादनम ॥ 7 ॥

  8. पुनश च वर्धितं राज्यं सवबलेन महात्मभिः छद्मनापहृतं कषुद्रैर धार्तराष्ट्रः स सौबलैः ॥ 8 ॥

  9. तद अप्य अनुमतं कर्म तथायुक्तम अनेन वै वासिताश च महारण्ये वर्षाणीह तरयॊदश ॥ 9 ॥

  10. सभायां कलेशितैर वीरैः सह भार्यैस तथा भृशम अरण्ये विविधाः कलेशाः संप्राप्तास तैः सुदारुणाः ॥ 10 ॥

  11. तथा विराटनगरे यॊन्यन्तरगतैर इव पराप्तः परमसंक्लेशॊ यथा पापैर महात्मभिः ॥ 11 ॥

  12. ते सर्वे पृष्ठतः कृत्वा तत सर्वं पूर्वकिल्बिषम सामैव कुरुभिः सार्धम इच्छन्ति कुरुपुंगवाः ॥ 12 ॥

  13. तेषां च वृत्तम आज्ञाय वृत्तं दुर्यॊधनस्य च अनुनेतुम इहार्हन्ति धृतराष्ट्रं सुहृज्जनाः ॥ 13 ॥

  14. न हि ते विग्रहं वीराः कुर्वन्ति कुरुभिः सह अविनाशेन लॊकस्य काङ्क्षन्ते पाण्डवाः सवकम ॥ 14 ॥

  15. यश चापि धार्तराष्ट्रस्य हेतुः सयाद विग्रहं परति स च हेतुर न मन्तव्यॊ बलीयांसस तथा हि ते ॥ 15 ॥

  16. अक्षौहिण्यॊ हि सप्तैव धर्मपुत्रस्य संगताः युयुत्समानाः कुरुभिः परतीक्षन्ते ऽसय शासनम ॥ 16 ॥

  17. अपरे पुरुषव्याघ्राः सहस्राक्षौहिणी समाः सात्यकिर भीमसेनश च यमौ च सुमहाबलौ ॥ 17 ॥

  18. एकादशैताः पृतना एकतश च समागताः एकतश च महाबाहुर बहुरूपॊ धनंजयः ॥ 18 ॥

  19. यथा किरीटी सेनाभ्यःसर्वाभ्यॊ वयतिरिच्यते एवम एव महाबाहुर वासु देवॊ महाद्युतिः ॥ 19 ॥

  20. बहुलत्वं च सेनानां विक्रमं च किरीटिनः बुद्धिमत्तां च कृष्णस्य बुद्ध्वा युध्येत कॊ नरः ॥ 20 ॥

  21. ते भवन्तॊ यथा धर्मं यथा समयम एव च परयच्छन्तु परदातव्यं मा वः कालॊ ऽतयगाद अयम ॥ 21 ॥

Reach this point to mark the section finished.

Continue to अध्याय 21

Previous: अध्याय 19