[व] युयुधानस ततॊ वीरः सात्वतानां महारथः महता चतुरङ्गेण बलेनागाद युधिष्ठिरम ॥ 1 ॥
तस्य यॊधा महावीर्या नानादेशसमागताः नानाप्रहरणा वीराः शॊभयां चक्रिरे बलम ॥ 2 ॥
परश्वधैर भिण्ड बालैः शक्तितॊमरमुद्गरैः शक्त्यृष्टि परशु परासैः करवालैश च निर्मलैः ॥ 3 ॥
खड्गकार्मुकनिर्यूहैः शरैश च विविधैर अपि तैलधौतैः परकाशद्भिस तद अशॊभत वै बलम ॥ 4 ॥
तस्य मेघप्रकाशस्य शस्त्रैस तैः शॊभितस्य च बभूव रूपं सैन्यस्य मेघस्येव स विद्युतः ॥ 5 ॥
अक्षौहिणी हि सेना सा तदा यौधिष्ठिरं बलम परविश्यान्तर धधे राजन सागरं कुनदी यथा ॥ 6 ॥
तथैवाक्षौहिणीं गृह्य चेदीनाम ऋषभॊ बली धृष्टकेतुर उपागच्छत पाण्डवान अमितौजसः ॥ 7 ॥
मागधश च जयत्सेनॊ जरासंधिर महाबलः अक्षौहिण्यैव सैन्यस्य धर्मराजम उपागमत ॥ 8 ॥
तथैव पाण्ड्यॊ राजेन्द्र सागरानूपवासिभिः वृतॊ बहुविधैर यॊधैर युधिष्ठिरम उपागमत ॥ 9 ॥
तस्य सैन्यम अतीवासीत तस्मिन बलसमागमे परेक्षणीयतरं राजन सुवेषं बलवत तदा ॥ 10 ॥
दरुपदस्याप्य अभूत सेना नानादेशसमागतैः शॊभिता पुरुषैः शूरैः पुत्रैश चास्य महारथैः ॥ 11 ॥
तथैव राजा मत्स्यानां विराटॊ वाहिनीपतिः पार्वतीयैर महीपालैः सहितः पाण्डवान इयात ॥ 12 ॥
इतश चेतश च पाण्डूनां समाजग्मुर महात्मनाम अक्षौहिण्यस तु सप्तैव विविधध्वजसंकुलाः युयुत्समानाः कुरुभिः पाण्डवान समहर्षयन ॥ 13 ॥
तथैव धार्तराष्ट्रस्य हर्षं समभिवर्धयन भगदत्तॊ महीपालः सेनाम अक्षौहिणीं ददौ ॥ 14 ॥
तस्य चीनैः किरातैश च काञ्चनैर इव संवृतम बभौ बलम अनाधृष्यं कर्णिकारवनं यथा ॥ 15 ॥
तथा भूरिश्रवाः शूरः शल्यश च कुरुनन्दन दुर्यॊधनम उपायाताव अक्षौहिण्या पृथक पृथक ॥ 16 ॥
कृतवर्मा च हार्दिक्यॊ भॊजान्धकबलैः सह अक्षौहिण्यैव सेनाया दुर्यॊधनम उपागमत ॥ 17 ॥
तस्य तैः पुरुषव्याघ्रैर वनमाला धरैर बलम अशॊभत यथामत्तैर वनं परक्रीडितैर गजैः ॥ 18 ॥
जयद्रथ मुखाश चान्ये सिन्धुसौवीरवासिनः आजग्मुः पृथिवीपालाः कम्पयन्त इवाचलान ॥ 19 ॥
तेषाम अक्षौहिणी सेना बहुला विबभौ तदा विभूयमाना वातेन बहुरूपा इवाम्बुदाः ॥ 20 ॥
सुदक्षिणश च काम्बॊजॊ यवनैश च शकैस तथा उपाजगाम कौरव्यम अक्षौहिण्या विशां पते ॥ 21 ॥
तस्य सेना समावायः शलभानाम इवाबभौ स च संप्राप्य कौरव्यं तत्रैवान्तर दधे तदा ॥ 22 ॥
तथा माहिष्मती वासी नीलॊ नीलायुधैः सह महीपालॊ महावीर्यैर दक्षिणापथवासिभिः ॥ 23 ॥
आवन्त्यौ च महीपालौ महाबलसु संवृतौ पृथग अक्षौहिणीभ्यां ताव अभियातौ सुयॊधनम ॥ 24 ॥
केकयाश च नरव्याघ्राः सॊदर्याः पञ्च पार्थिवाः संहर्षयन्तः कौरव्यम अक्षौहिण्या समाद्रवन ॥ 25 ॥
इतश चेतश च सर्वेषां भूमिपानां महात्मनाम तिस्रॊ ऽनयाः समवर्तन्त वाहिन्यॊ भरतर्षभ ॥ 26 ॥
एवम एकादशावृत्ताः सेना दुर्यॊधनस्य ताः युयुत्समानाः कौन्तेयान नाना धवजसमाकुलाः ॥ 27 ॥
न हास्तिनपुरे राजन्न अवकाशॊ ऽभवत तदा राज्ञां सबलमुख्यानां पराधान्येनापि भारत ॥ 28 ॥
ततः पञ्चनदं चैव कृत्स्नं च कुरुजाङ्गलम तथा रॊहित कारण्यं मरु भूमिश च केवला ॥ 29 ॥
अहिच छत्रं कालकूटं गङ्गाकूलं च भारत वारणा वाटधानं च यामुनश चैव पर्वतः ॥ 30 ॥
एष देशः सुविस्तीर्णः परभूतधनधान्यवान बभूव कौरवेयाणां बलेन सुसमाकुलः ॥ 31 ॥
तत्र सैन्यं तथायुक्तं ददर्श स पुरॊहितः यः सपाञ्चालराजेन परेषितः कौरवान परति ॥ 32 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 19
Reach this point to mark the section finished.
Continue to अध्याय 20