धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 1

  1. [व] कृत्वा विवाहं तु कुरुप्रवीरास; तदाभिमन्यॊर मुदितस्वपक्षाः विश्रम्य चत्वार्य उषसः परतीताः; सभां विराटस्य ततॊ ऽभिजग्मुः ॥ 1 ॥

  2. सभा तु सा मत्स्यपतेः समृद्धा; मणिप्रवेकॊत्तम रत्नचित्रा नयस्तासना माल्यवती सुगन्धा; ताम अभ्ययुस ते नरराज वर्याः ॥ 2 ॥

  3. अथासनान्य आविशतां पुरस्ताद; उभौ विराटद्रुपदौ नरेन्द्रौ वृद्धश च मान्यः पृथिवीपतीनां; पितामहॊ राम जनार्दनाभ्याम ॥ 3 ॥

  4. पाञ्चालराजस्य समीपतस तु; शिनिप्रवीरः सह रौहिणेयः मत्स्यस्य राज्ञस तु सुसंनिकृष्टौ; जनार्दनश चैव युधिष्ठिरश च ॥ 4 ॥

  5. सुताश च सर्वे दरुपदस्य राज्ञॊ; भीमार्जुनौ माद्रवतीसुतौ च परद्युम्न साम्बौ च युधि परवीरौ; विराट पुत्रश च सहाभिमन्युः ॥ 5 ॥

  6. सर्वे च शूराः पितृभिः समाना; वीर्येण रूपेण बलेन चैव उपाविशन दरौपदेयाः कुमाराः; सुवर्णचित्रेषु वरासनेषु ॥ 6 ॥

  7. तथॊपविष्टेषु महारथेषु; विभ्राजमानाम्बर भूषणेषु रराज सा राजवती समृद्धा; गरहैर इव दयौर विमलैर उपेता ॥ 7 ॥

  8. ततः कथास ते समवाय युक्ताः; कृत्वा विचित्राः पुरुषप्रवीराः तस्थुर मुहूर्तं परिचिन्तयन्तः; कृष्णं नृपास ते समुदीक्षमाणाः ॥ 8 ॥

  9. कथान्तम आसाद्य च माहवेन; संघट्टिताः पाण्डव कार्यहेतॊः ते राजसिंहाः सहिता हय अशृण्वन; वाक्यं महार्थं च महॊदयं च ॥ 9 ॥

  10. सर्वैर भवद्भिर विदितं यथायं; युधिष्ठिरः सौबलेनाक्षवत्याम जितॊ निकृत्यापहृतं च राज्यं; पुनः परवासे समयः कृतश च ॥ 10 ॥

  11. शक्तैर विजेतुं तरसा महीं च; सत्ये सथितैस तच चरितं यथावत पाण्डॊः सुतैस तद वरतम उग्ररूपं; वर्षाणि षट सप्त च भारताग्र्यैः ॥ 11 ॥

  12. तरयॊदशश चैव सुदुस्तरॊ ऽयम; अज्ञायमानैर भवतां समीपे कलेशान असह्यांश च तितिक्षमाणैर; यथॊषितं तद विदितं च सर्वम ॥ 12 ॥

  13. एवंगते धर्मसुतस्य राज्ञॊ; दुर्यॊधनस्यापि च यद धितं सयात तच चिन्तयध्वं कुरुपाण्डवानां; धर्म्यं च युक्तं च यशः करं च ॥ 13 ॥

  14. अधर्मयुक्तं च न कामयेत; राज्यं सुराणाम अपि धर्मराजः धर्मार्थयुक्तं च महीपतित्वं; गरामे ऽपि कस्मिंश चिद अयं बुभूषेत ॥ 14 ॥

  15. पित्र्यं हि राज्यं विदितं नृपाणां; यथापकृष्टं धृतराष्ट्र पुत्रैः मिथ्यॊपचारेण तथाप्य अनेन; कृच्छ्रं महत पराप्तम असह्य रूपम ॥ 15 ॥

  16. न चापि पार्थॊ विजितॊ रणे तैः; सवतेजसा धृतराष्ट्रस्य पुत्रैः तथापि राजा सहितः सुहृद्भिर; अभीप्सते ऽनामयम एव तेषाम ॥ 16 ॥

  17. यत तत सवयं पाण्डुसुतैर विजित्य; समाहृतं भूमिपतीन निपीड्य तत परार्थयन्ते पुरुषप्रवीराः; कुन्तीसुता माद्रवतीसुतौ च ॥ 17 ॥

  18. बालास तव इमे तैर विविधौर उपायैः; संप्रार्थिता हन्तुम अमित्रसाहाः राज्यं जिहीर्षद्भिर असद्भिर उग्रैः; सर्वं च तद वॊ विदितं यथावत ॥ 18 ॥

  19. तेषां च लॊभं परसमीक्ष्य वृद्धं; धर्मात्मतां चापि युधिष्ठिरस्य संबन्धितां चापि समीक्ष्य तेषां; मतिं कुरुध्वं सहिताः पृथक च ॥ 19 ॥

  20. इमे च सत्ये ऽभिरताः सदैव; तं पारयित्वा समयं यथावत अतॊ ऽनयथा तैर उपचर्यमाणा; हन्युः समेतान धृतराष्ट्र पुत्रान ॥ 20 ॥

  21. तैर विप्रकारं च निशम्य राज्ञः; सुहृज्जनास तान परिवारयेयुः युद्धेन बाधेयुर इमांस तथैव; तैर वध्यमाना युधितांश च हन्युः ॥ 21 ॥

  22. तथापि नेमे ऽलपतया समर्थास; तेषां जयायेति भवेन मतं वः समेत्य सर्वे सहिताः सुहृद्भिस; तेषां विनाशाय यतेयुर एव ॥ 22 ॥

  23. दुर्यॊधनस्यापि मतं यथावन; न जञायते किं नु करिष्यतीति अज्ञायमाने च मते परस्य; किं सयात समारभ्यतमं मतं वः ॥ 23 ॥

  24. तस्माद इतॊ गच्छतु धर्मशीलः; शुचिः कुलीनः पुरुषॊ ऽपरमत्तः दूतः समर्थः परशमाय तेषां; राज्यार्ध दानाय युधिष्ठिरस्य ॥ 24 ॥

  25. निशम्य वाक्यं तु जनार्दनस्य; धर्मार्थयुक्तं मधुरं समं च समाददे वाक्यम अथाग्रजॊ ऽसय; संपूज्य वाक्यं तद अतीव राजन ॥ 25 ॥

Reach this point to mark the section finished.

Continue to अध्याय 2

Previous: अध्याय 67