धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 192

  1. भीष्म उवाच ततः शिखण्डिनॊ माता यथातत्त्वं नराधिप आचचक्षे महाबाहॊ भर्त्रे कन्यां शिखण्डिनीम ॥ 1 ॥

  2. अपुत्रया मया राजन सपत्नीनां भयाद इदम कन्या शिखण्डिनी जाता पुरुषॊ वै निवेदितः ॥ 2 ॥

  3. तवया चैव नरश्रेष्ठ तन मे परीत्यानुमॊदितम पुत्रकर्म कृतं चैव कन्यायाः पार्थिवर्षभ भार्या चॊढा तवया राजन दशार्णाधिपतेः सुता ॥ 3 ॥

  4. तवया च परागभिहितं देववाक्यार्थदर्शनात कन्या भूत्वा पुमान भावीत्य एवं चैतद उपेक्षितम ॥ 4 ॥

  5. एतच छरुत्वा दरुपदॊ यज्ञसेनः; सर्वं तत्त्वम मन्त्रविद्भ्यॊ निवेद्य मन्त्रं राजा मन्त्रयाम आस राजन; यद यद युक्तं रक्षणे वै परजानाम ॥ 5 ॥

  6. संबन्धकं चैव समर्थ्य तस्मिन; दाशार्णके वै नृपतौ नरेन्द्र सवयं कृत्वा विप्रलम्भं यथावन; मन्त्रैकाग्रॊ निश्चयं वै जगाम ॥ 6 ॥

  7. सवभावगुप्तं नगरम आपत्काले तु भारत गॊपयाम आस राजेन्द्र सर्वतः समलंकृतम ॥ 7 ॥

  8. आर्तिं च परमां राजा जगाम सह भार्यया दशार्णपतिना सार्धं विरॊधे भरतर्षभ ॥ 8 ॥

  9. कथं संबन्धिना सार्धं न मे सयाद विग्रहॊ महान इति संचिन्त्य मनसा दैवतान्य अर्चयत तदा ॥ 9 ॥

  10. तं तु दृष्ट्वा तदा राजन देवी देव परं तथा अर्चां परयुञ्जानम अथॊ भार्या वचनम अब्रवीत ॥ 10 ॥

  11. देवानां परतिपत्तिश च सत्या साधुमता सदा सा तु दुःखार्णवं पराप्य नः सयाद अर्चयतां भृशम ॥ 11 ॥

  12. दैवतानि च सर्वाणि पूज्यन्तां भूरिदक्षिणैः अग्नयश चापि हूयन्तां दाशार्णप्रतिसेधने ॥ 12 ॥

  13. अयुद्धेन निवृत्तिं च मनसा चिन्तयाभिभॊ देवतानां परसादेन सर्वम एतद भविष्यति ॥ 13 ॥

  14. मन्त्रिभिर मन्त्रितं सार्धं तवया यत पृथुलॊचन पुरस्यास्याविनाशाय तच च राजंस तथा कुरु ॥ 14 ॥

  15. दैवं हि मानुषॊपेतं भृशं सिध्यति पार्थिव परस्परविरॊधात तु नानयॊः सिद्धिर अस्ति वै ॥ 15 ॥

  16. तस्माद विधाय नगरे विधानं सचिवैः सह अर्चयस्व यथाकामं दैवतानि विशां पते ॥ 16 ॥

  17. एवं संभाषमाणौ तौ दृष्ट्वा शॊकपरायणौ शिखण्डिनी तदा कन्या वरीडितेव मनस्विनी ॥ 17 ॥

  18. ततः सा चिन्तयाम आस मत्कृते दुःखिताव उभौ इमाव इति ततश चक्रे मतिं पराणविनाशने ॥ 18 ॥

  19. एवं सा निश्चयं कृत्वा भृशं शॊकपरायणा जगाम भवनं तयक्त्वा गहनं निर्जनं वनम ॥ 19 ॥

  20. यक्षेणर्द्धिमता राजन सथूणाकर्णेन पालितम तद्भयाद एव च जनॊ विसर्जयति तद वनम ॥ 20 ॥

  21. तत्र सथूणस्य भवनं सुधामृत्तिकलेपनम लाजॊल्लापिकधूमाढ्यम उच्चप्राकारतॊरणम ॥ 21 ॥

  22. तत परविश्य शिखण्डी सा दरुपदस्यात्मजा नृप अनश्नती बहुतिथं शरीरम उपशॊषयत ॥ 22 ॥

  23. दर्शयाम आस तां यक्षः सथूणॊ मध्वक्षसंयुतः किमर्थॊ ऽयं तवारम्भः करिष्ये बरूहि माचिरम ॥ 23 ॥

  24. अशक्यम इति सा यक्षं पुनः पुनर उवाच ह करिष्यामीति चैनां स परत्युवाचाथ गुह्यकः ॥ 24 ॥

  25. धनेश्वरस्यानुचरॊ वरदॊ ऽसमि नृपात्मजे अदेयम अपि दास्यामि बरूहि यत ते विवक्षितम ॥ 25 ॥

  26. ततः शिखण्डी तत सर्वम अखिलेन नयवेदयत तस्मै यक्षप्रधानाय सथूणाकर्णाय भारत ॥ 26 ॥

  27. आपन्नॊ मे पिता यक्ष नचिराद विनशिष्यति अभियास्यति संक्रुद्धॊ दशार्णाधिपतिर हि तम ॥ 27 ॥

  28. महाबलॊ महॊत्साहः स हेमकवचॊ नृपः तस्माद रक्षस्व मां यक्ष पितरं मातरं च मे ॥ 28 ॥

  29. परतिज्ञातॊ हि भवता दुःखप्रतिनयॊ मम भवेयं पुरुषॊ यक्ष तवत्प्रसादाद अनिन्दितः ॥ 29 ॥

  30. यावद एव स राजा वै नॊपयाति पुरं मम तावद एव महायक्ष परसादं कुरु गुह्यक ॥ 30 ॥

Reach this point to mark the section finished.

Continue to अध्याय 193

Previous: अध्याय 191