धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 191

  1. भीष्म उवाच एवम उक्तस्य दूतेन दरुपदस्य तदा नृप चॊरस्येव गृहीतस्य न परावर्तत भारती ॥ 1 ॥

  2. स यत्नम अकरॊत तीव्रं संबन्धैर अनुसान्त्वनैः दूतैर मधुरसंभाषैर नैतद अस्तीति संदिशन ॥ 2 ॥

  3. स राजा भूय एवाथ कृत्वा तत्त्वत आगमम कन्येति पाञ्चालसुतां तवरमाणॊ ऽभिनिर्ययौ ॥ 3 ॥

  4. ततः संप्रेषयाम आस मित्राणाम अमितौजसाम दुहितुर विप्रलम्भं तं धात्रीणां वचनात तदा ॥ 4 ॥

  5. ततः समुद्रयं कृत्वा बलानां राजसत्तमः अभियाने मतिं चक्रे दरुपदं परति भारत ॥ 5 ॥

  6. तथ संमन्त्रयाम आस मित्रैः सह महीपतिः हिरण्यवर्मा राजेन्द्र पाञ्चाल्यं पार्थिवं परति ॥ 6 ॥

  7. तत्र वै निश्चितं तेषाम अभूद राज्ञां महात्मनाम तथ्यं चेद भवति हय एतत कन्या राजञ शिखण्डिनी बद्ध्वा पाञ्चालराजानम आनयिष्यामहे गृहान ॥ 7 ॥

  8. अन्यं राजानम आधाय पाञ्चालेषु नरेश्वरम घातयिष्याम नृपतिं दरुपदं सशिखण्डिनम ॥ 8 ॥

  9. स तदा दूतम आज्ञाय पुनः कषत्तारम ईश्वरः परास्थापयत पार्षताय हन्मीति तवां सथिरॊ भव ॥ 9 ॥

  10. स परकृत्या च वै भीरुः किल्बिषी च नराधिपः भयं तीव्रम अनुप्राप्तॊ दरुपदः पृथिवीपतिः ॥ 10 ॥

  11. विसृज्य दूतं दाशार्णं दरुपदः शॊककर्शितः समेत्य भार्यां रहिते वाक्यम आह नराधिपः ॥ 11 ॥

  12. भयेन महताविष्टॊ हृदि शॊकेन चाहतः पाञ्चालराजॊ दयितां मातरं वै शिखण्डिनः ॥ 12 ॥

  13. अभियास्यति मां कॊपात संबन्धी सुमहाबलः हिरण्यवर्मा नृपतिः कर्षमाणॊ वरूथिनीम ॥ 13 ॥

  14. किम इदानीं करिष्यामि मूढः कन्याम इमां परति शिखण्डी किल पुत्रस ते कन्येति परिशङ्कितः ॥ 14 ॥

  15. इति निश्चित्य तत्त्वेन समित्रः सबलानुगः वञ्चितॊ ऽसमीति मन्वानॊ मां किलॊद्धर्तुम इच्छति ॥ 15 ॥

  16. किम अत्र तथ्यं सुश्रॊणि किं मिथ्या बरूहि शॊभने शरुत्वा तवत्तः शुभे वाक्यं संविधास्याम्य अहं तथा ॥ 16 ॥

  17. अहं हि संशयं पराप्तॊ बाला चेयं शिखण्डिनी तवं च राज्ञि महत कृच्छ्रं संप्राप्ता वरवर्णिनि ॥ 17 ॥

  18. सा तवं सर्वविमॊक्षाय तत्त्वम आख्याहि पृच्छतः तथा विदध्यां सुश्रॊणि कृत्यस्यास्य शुचिस्मिते शिखण्डिनि च मा भैस तवं विधास्ये तत्र तत्त्वतः ॥ 18 ॥

  19. करिययाहं वरारॊहे वञ्चितः पुत्रधर्मतः मया दाशार्णकॊ राजा वञ्चितश च महीपतिः तद आचक्ष्व महाभागे विधास्ये तत्र यद धितम ॥ 19 ॥

  20. जानतापि नरेन्द्रेण खयापनार्थं परस्य वै परकाशं चॊदिता देवी परत्युवाच महीपतिम ॥ 20 ॥

Reach this point to mark the section finished.

Continue to अध्याय 192

Previous: अध्याय 190