भीष्म उवाच शिखण्डिवाक्यं शरुत्वाथ स यक्षॊ भरतर्षभ परॊवाच मनसा चिन्त्य दैवेनॊपनिपीडितः भवितव्यं तथा तद धि मम दुःखाय कौरव ॥ 1 ॥
भद्रे कामं करिष्यामि समयं तु निबॊध मे किं चित कालान्तरं दास्ये पुंलिङ्गं सवम इदं तव आगन्तव्यं तवया काले सत्यम एतद बरवीमि ते ॥ 2 ॥
परभुः संकल्पसिद्धॊ ऽसमि कामरूपी विहंगमः मत्प्रसादात पुरं चैव तराहि बन्धूंश च केवलान ॥ 3 ॥
सत्रीलिङ्गं धारयिष्यामि तवदीयं पार्थिवात्मजे सत्यं मे परतिजानीहि करिष्यामि परियं तव ॥ 4 ॥
शिखण्ड्य उवाच परतिदास्यामि भगवँल लिङ्गं पुनर इदं तव किं चित कालान्तरं सत्रीत्वं धारयस्व निशाचर ॥ 5 ॥
परतिप्रयाते दाशार्णे पार्थिवे हेमवर्मणि कन्यैवाहं भविष्यामि पुरुषस तवं भविष्यसि ॥ 6 ॥
भीष्म उवाच इत्य उक्त्वा समयं तत्र चक्राते ताव उभौ नृप अन्यॊन्यस्यानभिद्रॊहे तौ संक्रामयतां ततः ॥ 7 ॥
सत्रीलिङ्गं धारयाम आस सथूणॊ यक्षॊ नराधिप यक्षरूपं च तद दीप्तं शिखण्डी परत्यपद्यत ॥ 8 ॥
ततः शिखण्डी पाञ्चाल्यः पुंस्त्वम आसाद्य पार्थिव विवेश नगरं हृष्टः पितरं च समासदत यथावृत्तं तु तत सर्वम आचख्यौ दरुपदस्य च ॥ 9 ॥
दरुपदस तस्य तच छरुत्वा हर्षम आहारयत परम सभार्यस तच च सस्मार महेश्वरवचस तदा ॥ 10 ॥
ततः संप्रेषयाम आस दशार्णाधिपतेर नृप पुरुषॊ ऽयं मम सुतः शरद्धत्तां मे भवान इति ॥ 11 ॥
अथ दाशार्णकॊ राजा सहसाभ्यागमत तदा पाञ्चालराजं दरुपदं दुःखामर्षसमन्वितः ॥ 12 ॥
ततः काम्पिल्यम आसाद्य दशार्णाधिपतिर तदा परेषयाम आस सत्कृत्य दूतं बरह्मविदां वरम ॥ 13 ॥
बरूहि मद्वचनाद दूत पाञ्चाल्यं तं नृपाधमम यद वै कन्यां सवकन्यार्थे वृतवान असि दुर्मते फलं तस्यावलेपस्य दरक्ष्यस्य अद्य न संशयः ॥ 14 ॥
एवम उक्तस तु तेनासौ बराह्मणॊ राजसत्तम दूतः परयातॊ नगरं दाशार्णनृपचॊदितः ॥ 15 ॥
तत आसादयाम आस पुरॊधा दरुपदं पुरे तस्मै पाञ्चालकॊ राजा गाम अर्घ्यं च सुसत्कृतम परापयाम आस राजेन्द्र सह तेन शिखण्डिना ॥ 16 ॥
तां पूजां नाभ्यनन्दत स वाक्यं चेदम उवाच ह यद उक्तं तेन वीरेण राज्ञा काञ्चनवर्मणा ॥ 17 ॥
यत ते ऽहम अधमाचार दुहित्रर्थे ऽसमि वञ्चितः तस्य पापस्य करणात फलं पराप्नुहि दुर्मते ॥ 18 ॥
देहि युद्धं नरपते ममाद्य रणमूर्धनि उद्धरिष्यामि ते सद्यः सामात्यसुतबान्धवम ॥ 19 ॥
तद उपालम्भसंयुक्तं शरावितः किल पार्थिवः दशार्णपतिदूतेन मन्त्रिमध्ये पुरॊधसा ॥ 20 ॥
अब्रवीद भरतश्रेष्ठ दरुपदः परणयानतः यद आह मां भवान बरह्मन संबन्धिवचनाद वचः तस्यॊत्तरं परतिवचॊ दूत एव वदिष्यति ॥ 21 ॥
ततः संप्रेषयाम आस दरुपदॊ ऽपि महात्मने हिरण्यवर्मणे दूतं बराह्मणं वेदपारगम ॥ 22 ॥
समागम्य तु राज्ञा स दशार्णपतिना तदा तद वाक्यम आददे राजन यद उक्तं दरुपदेन ह ॥ 23 ॥
आगमः करियतां वयक्तं कुमारॊ वै सुतॊ मम मिथ्यैतद उक्तं केनापि तन न शरद्धेयम इत्य उत ॥ 24 ॥
ततः स राजा दरुपदस्य शरुत्वा; विमर्शयुक्तॊ युवतीर वरिष्ठाः संप्रेषयाम आस सुचारुरूपाः; शिखण्डिनं सत्री पुमान वेति वेत्तुम ॥ 25 ॥
ताः परेषितास तत्त्वभावं विदित्वा; परीत्या राज्ञे तच छशंसुर हि सर्वम शिखण्डिनं पुरुषं कौरवेन्द्र; दशार्णराजाय महानुभावम ॥ 26 ॥
ततः कृत्वा तु राजा स आगमं परीतिमान अथ संबन्धिना समागम्य हृष्टॊ वासम उवास ह ॥ 27 ॥
शिखण्डिने च मुदितः परादाद वित्तं जनेश्वरः हस्तिनॊ ऽशवांश च गाश चैव दास्यॊ बहुशतास तथा पूजितश च परतिययौ निवर्त्य तनयां किल ॥ 28 ॥
विनीतकिल्बिषे परीते हेमवर्मणि पार्थिवे परतियाते तु दाशार्णे हृष्टरूपा शिखण्डिनी ॥ 29 ॥
कस्य चित तव अथ कालस्य कुबेरॊ नरवाहनः लॊकानुयात्रां कुर्वाणः सथूणस्यागान निवेशनम ॥ 30 ॥
स तद्गृहस्यॊपरि वर्तमान; आलॊकयाम आस धनाधिगॊप्ता सथूणस्य यक्षस्य निशाम्य वेश्म; सवलंकृतं माल्यगुणैर विचित्रम ॥ 31 ॥
लाजैश च गन्धैश च तथा वितानैर; अभ्यर्चितं धूपनधूपितं च धवजैः पताकाभिर अलंकृतं च; भक्ष्यान्नपेयामिषदत्तहॊमम ॥ 32 ॥
तत सथानं तस्य दृष्ट्वा तु सर्वतः समलंकृतम अथाब्रवीद यक्षपतिस तान यक्षान अनुगांस तदा ॥ 33 ॥
सवलंकृतम इदं वेश्म सथूणस्यामितविक्रमाः नॊपसर्पति मां चापि कस्माद अद्य सुमन्दधीः ॥ 34 ॥
यस्माज जानन सुमन्दात्मा माम असौ नॊपसर्पति तस्मात तस्मै महादण्डॊ धार्यः सयाद इति मे मतिः ॥ 35 ॥
यक्षा ऊचुः दरुपदस्य सुता राजन राज्ञॊ जाता शिखण्डिनी तस्मै निमित्ते कस्मिंश चित परादात पुरुषलक्षणम ॥ 36 ॥
अग्रहील लक्षणं सत्रीणां सत्रीभूतस तिष्ठते गृहे नॊपसर्पति तेनासौ सव्रीडः सत्रीस्वरूपवान ॥ 37 ॥
एतस्मात कारणाद राजन सथूणॊ न तवाद्य पश्यति शरुत्वा कुरु यथान्यायं विमानम इह तिष्ठताम ॥ 38 ॥
भीष्म उवास आनीयतां सथूण इति ततॊ यक्षाधिपॊ ऽबरवीत कर्तास्मि निग्रहं तस्येत्य उवाच स पुनः पुनः ॥ 39 ॥
सॊ ऽभयगच्छत यक्षेन्द्रम आहूतः पृथिवीपते सत्रीस्वरूपॊ महाराज तस्थौ वरीडासमन्वितः ॥ 40 ॥
तं शशाप सुसंक्रुद्धॊ धनदः कुरुनन्दन एवम एव भवत्व अस्य सत्रीत्वं पापस्य गुह्यकाः ॥ 41 ॥
ततॊ ऽबरवीद यक्षपतिर महात्मा; यस्माद अदास तव अवमन्येह यक्षान शिखण्डिने लक्षणं पापबुद्धे; सत्रीलक्षणं चाग्रहीः पापकर्मन ॥ 42 ॥
अप्रवृत्तं सुदुर्बुद्धे यस्माद एतत कृतं तवया तस्माद अद्य परभृत्य एव तवं सत्री स पुरुषस तथा ॥ 43 ॥
ततः परसादयाम आसुर यक्षा वैश्रवणं किल सथूणस्यार्थे कुरुष्वान्तं शापस्येति पुनः पुनः ॥ 44 ॥
ततॊ महात्मा यक्षेन्द्रः परत्युवाचानुगामिनः सर्वान यक्षगणांस तात शापस्यान्तचिकीर्षया ॥ 45 ॥
हते शिखण्डिनि रणे सवरूपं परतिपत्स्यते सथूणॊ यक्षॊ निरुद्वेगॊ भवत्व इति महामनाः ॥ 46 ॥
इत्य उक्त्वा भगवान देवॊ यक्षराक्षसपूजितः परययौ सह तैः सर्वैर निमेषान्तरचारिभिः ॥ 47 ॥
सथूणस तु शापं संप्राप्य तत्रैव नयवसत तदा समये चागमत तं वै शिखण्डी स कषपाचरम ॥ 48 ॥
सॊ ऽभिगम्याब्रवीद वाक्यं पराप्तॊ ऽसमि भगवन्न इति तम अब्रवीत ततः सथूणः परीतॊ ऽसमीति पुनः पुनः ॥ 49 ॥
आर्जवेनागतं दृष्ट्वा राजपुत्रं शिखण्डिनम सर्वम एव यथावृत्तम आचचक्षे शिखण्डिने ॥ 50 ॥
यक्ष उवाच शप्तॊ वैश्रवणेनास्मि तवत्कृते पार्थिवात्मज गच्छेदानीं यथाकामं चर लॊकान यथासुखम ॥ 51 ॥
दिष्टम एतत पुरा मन्ये न शक्यम अतिवर्तितुम गमनं तव चेतॊ हि पौलस्त्यस्य च दर्शनम ॥ 52 ॥
भीष्म उवाच एवम उक्तः शिखण्डी तु सथूणयक्षेण भारत परत्याजगाम नगरं हर्षेण महतान्वितः ॥ 53 ॥
पूजयाम आस विविधैर गन्धमाल्यैर महाधनैः दविजातीन देवताश चापि चैत्यान अथ चतुष्पथान ॥ 54 ॥
दरुपदः सह पुत्रेण सिद्धार्थेन शिखण्डिना मुदं च परमां लेभे पाञ्चाल्यः सह बान्धवैः ॥ 55 ॥
शिष्यार्थं परददौ चापि दरॊणाय कुरुपुंगव शिखण्डिनं महाराज पुत्रं सत्रीपूर्विणं तथा ॥ 56 ॥
परतिपेदे चतुष्पादं धनुर्वेदं नृपात्मजः शिखण्डी सह युष्माभिर धृष्टद्युम्नश च पार्षतः ॥ 57 ॥
मम तव एतच चरास तात यथावत परत्यवेदयन जडान्धबधिराकारा ये युक्ता दरुपदे मया ॥ 58 ॥
एवम एष महाराज सत्रीपुमान दरुपदात्मजः संभूतः कौरवश्रेष्ठ शिखण्डी रथसत्तमः ॥ 59 ॥
जयेष्ठा काशिपतेः कन्या अम्बा नामेति विश्रुता दरुपदस्य कुले जाता शिखण्डी भरतर्षभ ॥ 60 ॥
नाहम एनं धनुष्पाणिं युयुत्सुं समुपस्थितम मुहूर्तम अपि पश्येयं परहरेयं न चाप्य उत ॥ 61 ॥
वरतम एतन मम सदा पृथिव्याम अपि विश्रुतम सत्रियां सत्रीपूर्वके चापि सत्रीनाम्नि सत्रीस्वरूपिणि ॥ 62 ॥
न मुञ्चेयम अहं बाणान इति कौरवनन्दन न हन्याम अहम एतेन कारणेन शिखण्डिनम ॥ 63 ॥
एतत तत्त्वम अहं वेद जन्म तात शिखण्डिनः ततॊ नैनं हनिष्यामि समरेष्व आततायिनम ॥ 64 ॥
यदि भीष्मः सत्रियं हन्याद धन्याद आत्मानम अप्य उत नैनं तस्माद धनिष्यामि दृष्ट्वापि समरे सथितम ॥ 65 ॥
संजय उवाच एतच छरुत्वा तु कौरव्यॊ राजा दुर्यॊधनस तदा मुहूर्तम इव स धयात्वा भीष्मे युक्तम अमन्यत ॥ 66 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 193
Reach this point to mark the section finished.
Continue to अध्याय 194