धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 190

  1. भीष्म उवाच चकार यत्नं दरुपदः सर्वस्मिन सवजने महत ततॊ लेख्यादिषु तथा शिल्पेषु च परं गता इष्वस्त्रे चैव राजेन्द्र दरॊणशिष्यॊ बभूव ह ॥ 1 ॥

  2. तस्य माता महाराज राजानं वरवर्णिनी चॊदयाम आस भार्यार्थं कन्यायाः पुत्रवत तदा ॥ 2 ॥

  3. ततस तां पार्षतॊ दृष्ट्वा कन्यां संप्राप्तयौवनाम सत्रियं मत्वा तदा चिन्तां परपेदे सह भार्यया ॥ 3 ॥

  4. दरुपद उवाच कन्या ममेयं संप्राप्ता यौवनं शॊकवर्धिनी मया परच्छादिता चेयं वचनाच छूलपाणिनः ॥ 4 ॥

  5. न तन मिथ्या महाराज्ञि भविष्यति कथं चन तरैलॊक्यकर्ता कस्माद धि तन मृषा कर्तुम अर्हति ॥ 5 ॥

  6. भार्यॊवाच यदि ते रॊचते राजन वक्ष्यामि शृणु मे वचः शरुत्वेदानीं परपद्येथाः सवकार्यं पृषतात्मज ॥ 6 ॥

  7. करियताम अस्य नृपते विधिवद दारसंग्रहः सत्यं भवति तद वाक्यम इति मे निश्चिता मतिः ॥ 7 ॥

  8. भीष्म उवाच ततस तौ निश्चयं कृत्वा तस्मिन कार्ये ऽथ दम्पती वरयां चक्रतुः कन्यां दशार्णाधिपतेः सुताम ॥ 8 ॥

  9. ततॊ राजा दरुपदॊ राजसिंहः; सर्वान राज्ञः कुलतः संनिशाम्य दाशार्णकस्य नृपतेस तनूजां; शिखण्डिने वरयाम आस दारान ॥ 9 ॥

  10. हिरण्यवर्मेति नृपॊ यॊ ऽसौ दाशार्णकः समृतः स च परादान महीपालः कन्यां तस्मै शिखण्डिने ॥ 10 ॥

  11. स च राजा दशार्णेषु महान आसीन महीपतिः हिरण्यवर्मा दुर्धर्षॊ महासेनॊ महामनाः ॥ 11 ॥

  12. कृते विवाहे तु तदा सा कन्या राजसत्तम यौवनं समनुप्राप्ता सा च कन्या शिखण्डिनी ॥ 12 ॥

  13. कृतदारः शिखण्डी तु काम्पिल्यं पुनर आगमत न च सा वेद तां कन्यां कं चित कालं सत्रियं किल ॥ 13 ॥

  14. हिरण्यवर्मणः कन्या जञात्वा तां तु शिखण्डिनीम धात्रीणां च सखीनां च वरीडमाना नयवेदयत कन्यां पञ्चालराजस्य सुतां तां वै शिखण्डिनीम ॥ 14 ॥

  15. ततस ता राजशार्दूल धात्र्यॊ दाशार्णिकास तदा जग्मुर आर्तिं परां दुःखात परेषयाम आसुर एव च ॥ 15 ॥

  16. ततॊ दशार्णाधिपतेः परेष्याः सर्वं नयवेदयन विप्रलम्भं यथावृत्तं स च चुक्रॊध पार्थिवः ॥ 16 ॥

  17. शिखण्ड्य अपि महाराज पुंवद राजकुले तदा विजहार मुदा युक्तः सत्रीत्वं नैवातिरॊचयन ॥ 17 ॥

  18. तथा कतिपयाहस्य तच छरुत्वा भरतर्षभ हिरण्यवर्मा राजेन्द्र रॊषाद आर्तिं जगाम ह ॥ 18 ॥

  19. ततॊ दाशार्णकॊ राजा तीव्रकॊपसमन्वितः दूतं परस्थापयाम आस दरुपदस्य निवेशने ॥ 19 ॥

  20. ततॊ दरुपदम आसाद्य दूतः काञ्चनवर्मणः एक एकान्तम उत्सार्य रहॊ वचनम अब्रवीत ॥ 20 ॥

  21. दशार्णराजॊ राजंस तवाम इदं वचनम अब्रवीत अभिषङ्गात परकुपितॊ विप्रलब्धस तवयानघ ॥ 21 ॥

  22. अवमन्यसे मां नृपते नूनं दुर्मन्त्रितं तव यन मे कन्यां सवकन्यार्थे मॊहाद याचितवान असि ॥ 22 ॥

  23. तस्याद्य विप्रलम्भस्य फलं पराप्नुहि दुर्मते एष तवां सजनामात्यम उद्धरामि सथिरॊ भव ॥ 23 ॥

Reach this point to mark the section finished.

Continue to अध्याय 191

Previous: अध्याय 189