धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 189

  1. दुर्यॊधन उवाच कथं शिखण्डी गाङ्गेय कन्या भूत्वा सती तदा पुरुषॊ ऽभवद युधि शरेष्ठ तन मे बरूहि पितामह ॥ 1 ॥

  2. भीष्म उवाच भार्या तु तस्य राजेन्द्र दरुपदस्य महीपतेः महिषी दयिता हय आसीद अपुत्रा च विशां पते ॥ 2 ॥

  3. एतस्मिन्न एव काले तु दरुपदॊ वै महीपतिः अपत्यार्थं महाराज तॊषयाम आस शंकरम ॥ 3 ॥

  4. अस्मद्वधार्थं निश्चित्य तपॊ घॊरं समास्थितः लेभे कन्यां महादेवात पुत्रॊ मे सयाद इति बरुवन ॥ 4 ॥

  5. भगवन पुत्रम इच्छामि भीष्मं परतिचिकीर्षया इत्य उक्तॊ देवदेवेन सत्रीपुमांस ते भविष्यति ॥ 5 ॥

  6. निवर्तस्व महीपाल नैतज जात्व अन्यथा भवेत स तु गत्वा च नगरं भार्याम इदम उवाच ह ॥ 6 ॥

  7. कृतॊ यत्नॊ मया देवि पुत्रार्थे तपसा महान कन्या भूत्वा पुमान भावी इति चॊक्तॊ ऽसमि शम्भुना ॥ 7 ॥

  8. पुनः पुनर याच्यमानॊ दिष्टम इत्य अब्रवीच छिवः न तद अन्यद धि भविता भवितव्यं हि तत तथा ॥ 8 ॥

  9. ततः सा नियता भूत्वा ऋतुकाले मनस्विनी पत्नी दरुपदराजस्य दरुपदं संविवेश ह ॥ 9 ॥

  10. लेभे गर्भं यथाकालं विधिदृष्टेन हेतुना पार्षतात सा महीपाल यथा मां नारदॊ ऽबरवीत ॥ 10 ॥

  11. ततॊ दधार तं गर्भं देवी राजीवलॊचना तां स राजा परियां भार्यां दरुपदः कुरुनन्दन पुत्रस्नेहान महाबाहुः सुखं पर्यचरत तदा ॥ 11 ॥

  12. अपुत्रस्य ततॊ राज्ञॊ दरुपदस्य महीपतेः कन्यां परवररूपां तां पराजायत नराधिप ॥ 12 ॥

  13. अपुत्रस्य तु राज्ञः सा दरुपदस्य यशस्विनी खयापयाम आस राजेन्द्र पुत्रॊ जातॊ ममेति वै ॥ 13 ॥

  14. ततः स राजा दरुपदः परच्छन्नाया नराधिप पुत्रवत पुत्रकार्याणि सर्वाणि समकारयत ॥ 14 ॥

  15. रक्षणं चैव मन्त्रस्य महिषी दरुपदस्य सा चकार सर्वयत्नेन बरुवाणा पुत्र इत्य उत न हि तां वेद नगरे कश चिद अन्यत्र पार्षतात ॥ 15 ॥

  16. शरद्दधानॊ हि तद वाक्यं देवस्याद्भुततेजसः छादयाम आस तां कन्यां पुमान इति च सॊ ऽबरवीत ॥ 16 ॥

  17. जातकर्माणि सर्वाणि कारयाम आस पार्थिवः पुंवद विधानयुक्तानि शिखण्डीति च तां विदुः ॥ 17 ॥

  18. अहम एकस तु चारेण वचनान नारदस्य च जञातवान देववाक्येन अम्बायास तपसा तथा ॥ 18 ॥

Reach this point to mark the section finished.

Continue to अध्याय 190

Previous: अध्याय 188