धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 18

  1. [ष] ततः शक्रः सतूयमानॊ गन्धर्वाप्सरसां गणैः ऐरावतं समारुह्य दविपेन्द्रं लक्षणैर युतम ॥ 1 ॥

  2. पावकश च महातेजा महर्षिश च बृहस्पतिः यमश च वरुणश चैव कुबेरश च धनेश्वरः ॥ 2 ॥

  3. सर्वैर देवैः परिवृतः शक्रॊ वृत्रनिषूदनः गन्धर्वैर अप्सरॊभिश च यातस तरिभुवनं परभुः ॥ 3 ॥

  4. स समेत्य महेन्द्राण्या देवराजः शतक्रतुः मुदा परमया युक्तः पालयाम आस देवराट ॥ 4 ॥

  5. ततः स भगवांस तत्र अङ्गिराः समदृश्यत अथर्ववेद मन्त्रैश च देवेन्द्रं समपूजयत ॥ 5 ॥

  6. ततस तु भगवान इन्द्रः परहृष्टः समपद्यत वरं च परददौ तस्मै अथर्वाङ्गिरसे तदा ॥ 6 ॥

  7. अथर्वाङ्गिरसं नाम अस्मिन वेदे भविष्यति उदाहरणम एतद धि यज्ञभागं च लप्स्यसे ॥ 7 ॥

  8. एवं संपूज्य भगवान अथर्वाङ्गिरसं तदा वयसर्जयन महाराज देवराजः शतक्रतुः ॥ 8 ॥

  9. संपूज्य सर्वांस तरिदशान ऋषींश चापि तपॊधनान इन्द्रः परमुदितॊ राजन धर्मेणापालयत परजाः ॥ 9 ॥

  10. एवं दुःखम अनुप्राप्तम इन्द्रेण सह भार्यया अज्ञातवासश च कृतः शत्रूणां वधकाङ्क्षया ॥ 10 ॥

  11. नात्र मन्युस तवया कार्यॊ यत कलिष्टॊ ऽसि महावने दरौपद्या सह राजेन्द्र भरातृभिश च महात्मभिः ॥ 11 ॥

  12. एवं तवम अपि राजेन्द्र राज्यं पराप्स्यसि भारत वृत्रं हत्वा यथा पराप्तः शक्रः कौरवनन्दन ॥ 12 ॥

  13. दुराचारश च नहुषॊ बरह्म दविट पापचेतनः अगस्त्यपाशाभिहतॊ विनष्टः शाश्वतीं समाः ॥ 13 ॥

  14. एवं तव दुरात्मानः शत्रवः शत्रुसूदन कषिप्रं नाशं गमिष्यन्ति कर्णदुर्यॊधनादयः ॥ 14 ॥

  15. अतः सागरपर्यन्तां भॊक्ष्यसे मेदिनीम इमाम भरातृभिः सहितॊ वीर दरौपद्या च सहाभिभॊ ॥ 15 ॥

  16. उपाख्यानम इदं शक्र विजयं वेद संमितम राज्ञा वयूढेष्व अनीकेषु शरॊतव्यं जयम इच्छता ॥ 16 ॥

  17. तस्मात संश्रावयामि तवां विजयं जयतां वर संस्तूयमाना वर्धन्ते महात्मानॊ युधिष्ठिर ॥ 17 ॥

  18. कषत्रियाणाम अभावॊ ऽयं युधिष्ठिर महात्मनाम दुर्यॊधनापराधेन भीमार्जुनबलेन च ॥ 18 ॥

  19. आख्यानम इन्द्र विजयं य इदं नियतः पठेत धूतपाप्मा जितस्वर्गः स परेत्येह च मॊदते ॥ 19 ॥

  20. न चारिजं भयं तस्य न चापुत्रॊ भवेन नरः नापदं पराप्नुयात कां चिद दीर्घम आयुश च विन्दति सर्वत्र जयम आप्नॊति न कदा चित पराजयम ॥ 20 ॥

  21. एवम आश्वासितॊ राजा शल्येन भरतर्षभ पूजयाम आस विधिवच छल्यं धर्मभृतां वरः ॥ 21 ॥

  22. शरुत्वा शल्यस्य वचनं कुन्तीपुत्रॊ युधिष्ठिरः परत्युवाच महाबाहुर मद्रराजम इदं वचः ॥ 22 ॥

  23. भवान कर्णस्य सारथ्यं करिष्यति न संशयः तत्र तेजॊवधः कार्यः कर्णस्य मम संस्तवैः ॥ 23 ॥

  24. एवम एतत करिष्यामि यथा मां संप्रभाषसे यच चान्यद अपि शक्ष्यामि तत करिष्याम्य अहं तव ॥ 24 ॥

  25. तत आमन्त्र्य कौन्तेयाञ शल्यॊ मद्राधिपस तदा जगाम सबलः शरीमान दुर्यॊधनम अरिंदमः ॥ 25 ॥

Reach this point to mark the section finished.

Continue to अध्याय 19

Previous: अध्याय 17