धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 188

  1. भीष्म उवाच ततस ते तापसाः सर्वे तपसे धृतनिश्चयाम दृष्ट्वा नयवर्तयंस तात किं कार्यम इति चाब्रुवन ॥ 1 ॥

  2. तान उवाच ततः कन्या तपॊवृद्धान ऋषींस तदा निराकृतास्मि भीष्मेण भरंशिता पतिधर्मतः ॥ 2 ॥

  3. वधार्थं तस्य दीक्षा मे न लॊकार्थं तपॊधनाः निहत्य भीष्मं गच्छेयं शान्तिम इत्य एव निश्चयः ॥ 3 ॥

  4. यत्कृते दुःखवसतिम इमां पराप्तास्मि शाश्वतीम पतिलॊकाद विहीना च नैव सत्री न पुमान इह ॥ 4 ॥

  5. नाहत्वा युधि गाङ्गेयं निवर्तेयं तपॊधनाः एष मे हृदि संकल्पॊ यदर्थम इदम उद्यतम ॥ 5 ॥

  6. सत्रीभावे परिनिर्विण्णा पुंस्त्वार्थे कृतनिश्चया भीष्मे परतिचिकीर्षामि नास्मि वार्येति वै पुनः ॥ 6 ॥

  7. तां देवॊ दर्शयाम आस शूलपाणिर उमापतिः मध्ये तेषां महर्षीणां सवेन रूपेण भामिनीम ॥ 7 ॥

  8. छन्द्यमाना वरेणाथ सा वव्रे मत्पराजयम वधिष्यसीति तां देवः परत्युवाच मनस्विनीम ॥ 8 ॥

  9. ततः सा पुनर एवाथ कन्या रुद्रम उवाच ह उपपद्येत कथं देव सत्रियॊ मम जयॊ युधि सत्रीभावेन च मे गाढं मनः शान्तम उमापते ॥ 9 ॥

  10. परतिश्रुतश च भूतेश तवया भीष्मपराजयः यथा स सत्यॊ भवति तथा कुरु वृषध्वज यथा हन्यां समागम्य भीष्मं शांतनवं युधि ॥ 10 ॥

  11. ताम उवाच महादेवः कन्यां किल वृषध्वजः न मे वाग अनृतं भद्रे पराह सत्यं भविष्यति ॥ 11 ॥

  12. वधिष्यसि रणे भीष्मं पुरुषत्वं च लप्स्यसे समरिष्यसि च तत सर्वं देहम अन्यं गता सती ॥ 12 ॥

  13. दरुपदस्य कुले जाता भविष्यसि महारथः शीघ्रास्त्रश चित्रयॊधी च भविष्यसि सुसंमतः ॥ 13 ॥

  14. यथॊक्तम एव कल्याणि सर्वम एतद भविष्यति भविष्यसि पुमान पश्चात कस्माच चित कालपर्ययात ॥ 14 ॥

  15. एवम उक्त्वा महातेजाः कपर्दी वृषभध्वजः पश्यताम एव विप्राणां तत्रैवान्तरधीयत ॥ 15 ॥

  16. ततः सा पश्यतां तेषां महर्षीणाम अनिन्दिता समाहृत्य वनात तस्मात काष्ठानि वरवर्णिनी ॥ 16 ॥

  17. चितां कृत्वा सुमहतीं परदाय च हुताशनम परदीप्ते ऽगनौ महाराज रॊषदीप्तेन चेतसा ॥ 17 ॥

  18. उक्त्वा भीष्मवधायेति परविवेश हुताशनम जयेष्ठा काशिसुता राजन यमुनाम अभितॊ नदीम ॥ 18 ॥

Reach this point to mark the section finished.

Continue to अध्याय 189

Previous: अध्याय 187