धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 187

  1. राम उवाच परत्यक्षम एतल लॊकानां सर्वेषाम एव भामिनि यथा मया परं शक्त्या कृतं वै पौरुषं महत ॥ 1 ॥

  2. न चैव युधि शक्नॊमि भीष्मं शस्त्रभृतां वरम विशेषयितुम अत्यर्थम उत्तमास्त्राणि दर्शयन ॥ 2 ॥

  3. एषा मे परमा शक्तिर एतन मे परमं बलम यथेष्टं गम्यतां भद्रे किम अन्यद वा करॊमि ते ॥ 3 ॥

  4. भीष्मम एव परपद्यस्व न ते ऽनया विद्यते गतिः निर्जितॊ हय अस्मि भीष्मेण महास्त्राणि परमुञ्चता ॥ 4 ॥

  5. भीष्म उवाच एवम उक्त्वा ततॊ रामॊ विनिःश्वस्य महामनाः तूष्णीम आसीत तदा कन्या परॊवाच भृगुनन्दनम ॥ 5 ॥

  6. भगवन्न एवम एवैतद यथाह भगवांस तथा अजेयॊ युधि भीष्मॊ ऽयम अपि देवैर उदारधीः ॥ 6 ॥

  7. यथाशक्ति यथॊत्साहं मम कार्यं कृतं तवया अनिधाय रणे वीर्यम अस्त्राणि विविधानि च ॥ 7 ॥

  8. न चैष शक्यते युद्धे विशेषयितुम अन्ततः न चाहम एनं यास्यामि पुनर भीष्मं कथं चन ॥ 8 ॥

  9. गमिष्यामि तु तत्राहं यत्र भीष्मं तपॊधन समरे पातयिष्यामि सवयम एव भृगूद्वह ॥ 9 ॥

  10. एवम उक्त्वा ययौ कन्या रॊषव्याकुललॊचना तपसे धृतसंकल्पा मम चिन्तयती वधम ॥ 10 ॥

  11. ततॊ महेन्द्रं सह तैर मुनिर्भिर भृगुसत्तमः यथागतं ययौ रामॊ माम उपामन्त्र्य भारत ॥ 11 ॥

  12. ततॊ ऽहं रथम आरुह्य सतूयमानॊ दविजातिभिः परविश्य नगरं मात्रे सत्यवत्यै नयवेदयम यथावृत्तं महाराज सा च मां परत्यनन्दत ॥ 12 ॥

  13. पुरुषांश चादिशं पराज्ञान कन्यावृत्तान्तकर्मणि दिवसे दिवसे हय अस्या गतजल्पितचेष्टितम परत्याहरंश च मे युक्ताः सथिताः परियहिते मम ॥ 13 ॥

  14. यदैव हि वनं परायात कन्या सा तपसे धृता तदैव वयथितॊ दीनॊ गतचेता इवाभवम ॥ 14 ॥

  15. न हि मां कषत्रियः कश चिद वीर्येण विजयेद युधि ऋते बरह्मविदस तात तपसा संशितव्रतात ॥ 15 ॥

  16. अपि चैतन मया राजन नारदे ऽपि निवेदितम वयासे चैव भयात कार्यं तौ चॊभौ माम अवॊचताम ॥ 16 ॥

  17. न विषादस तवया कार्यॊ भीष्म काशिसुतां परति दैवं पुरुषकारेण कॊ निवर्तितुम उत्सहेत ॥ 17 ॥

  18. सा तु कन्या महाराज परविश्याश्रममण्डलम यमुनातीरम आश्रित्य तपस तेपे ऽतिमानुषम ॥ 18 ॥

  19. निराहारा कृशा रूक्षा जटिला मलपङ्किनी षण मासान वायुभक्षा च सथाणुभूता तपॊधना ॥ 19 ॥

  20. यमुनातीरम आसाद्य संवत्सरम अथापरम उदवासं निराहारा पारयाम आस भामिनी ॥ 20 ॥

  21. शीर्णपर्णेन चैकेन पारयाम आस चापरम संवत्सरं तीव्रकॊपा पादाङ्गुष्ठाग्रधिष्ठिता ॥ 21 ॥

  22. एवं दवादश वर्षाणि तापयाम आस रॊदसी निवर्त्यमानापि तु सा जञातिभिर नैव शक्यते ॥ 22 ॥

  23. ततॊ ऽगमद वत्सभूमिं सिद्धचारणसेविताम आश्रमं पुण्यशीलानां तापसानां महात्मनाम ॥ 23 ॥

  24. तत्र पुण्येषु देशेषु साप्लुताङ्गी दिवानिशम वयचरत काशिकन्या सा यथाकामविचारिणी ॥ 24 ॥

  25. नन्दाश्रमे महाराज ततॊलूकाश्रमे शुभे चयवनस्याश्रमे चैव बरह्मणः सथान एव च ॥ 25 ॥

  26. परयागे देवयजने देवारण्येषु चैव ह भॊगवत्यां तथा राजन कौशिकस्याश्रमे तथा ॥ 26 ॥

  27. माण्डव्यस्याश्रमे राजन दिलीपस्याश्रमे तथा रामह्रदे च कौरव्य पैलगार्ग्यस्य चाश्रमे ॥ 27 ॥

  28. एतेषु तीर्थेषु तदा काशिकन्या विशां पते आप्लावयत गात्राणि तीव्रम आस्थाय वै तपः ॥ 28 ॥

  29. ताम अब्रवीत कौरवेय मम माता जलॊत्थिता किमर्थं कलिश्यसे भद्रे तथ्यम एतद बरवीहि मे ॥ 29 ॥

  30. सैनाम अथाब्रवीद राजन कृताञ्जलिर अनिन्दिता भीष्मॊ रामेण समरे न जितश चारुलॊचने ॥ 30 ॥

  31. कॊ ऽनयस तम उत्सहेज जेतुम उद्यतेषुं महीपतिम साहं भीष्मविनाशाय तपस तप्स्ये सुदारुणम ॥ 31 ॥

  32. चरामि पृथिवीं देवि यथा हन्याम अहं नृपम एतद वरतफलं देहे परस्मिन सयाद यथा हि मे ॥ 32 ॥

  33. ततॊ ऽबरवीत सागरगा जिह्मं चरसि भामिनि नैष कामॊ ऽनवद्याङ्गि शक्यः पराप्तुं तवयाबले ॥ 33 ॥

  34. यदि भीष्मविनाशाय काश्ये चरसि वै वरतम वरतस्था च शरीरं तवं यदि नाम विमॊक्ष्यसि नदी भविष्यसि शुभे कुटिला वार्षिकॊदका ॥ 34 ॥

  35. दुस्तीर्था चानभिज्ञेया वार्षिकी नाष्टमासिकी भीमग्राहवती घॊरा सर्वभूतभयंकरी ॥ 35 ॥

  36. एवम उक्त्वा ततॊ राजन काशिकन्यां नयवर्तत माता मम महाभागा समयमानेव भामिनी ॥ 36 ॥

  37. कदा चिद अष्टमे मासि कदा चिद दशमे तथा न पराश्नीतॊदकम अपि पुनः सा वरवर्णिनी ॥ 37 ॥

  38. सा वत्सभूमिं कौरव्य तीर्थलॊभात ततस ततः पतिता परिधावन्ती पुनः काशिपतेः सुता ॥ 38 ॥

  39. सा नदी वत्सभूम्यां तु परथिताम्बेति भारत वार्षिकी गराहबहुला दुस्तीर्था कुटिला तथा ॥ 39 ॥

  40. सा कन्या तपसा तेन भागार्धेन वयजायत नदी च राजन वत्सेषु कन्या चैवाभवत तदा ॥ 40 ॥

Reach this point to mark the section finished.

Continue to अध्याय 188

Previous: अध्याय 186