धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 186

  1. भीष्म उवाच ततॊ हलहलाशब्दॊ दिवि राजन महान अभूत परस्वापं भीष्म मा सराक्षीर इति कौरवनन्दन ॥ 1 ॥

  2. अयुञ्जम एव चैवाहं तद अस्त्रं भृगुनन्दने परस्वापं मां परयुञ्जानं नारदॊ वाक्यम अब्रवीत ॥ 2 ॥

  3. एते वियति कौरव्य दिवि देवगणाः सथिताः ते तवां निवारयन्त्य अद्य परस्वापं मा परयॊजय ॥ 3 ॥

  4. रामस तपस्वी बरह्मण्यॊ बराह्मणश च गुरुश च ते तस्यावमानं कौरव्य मा सम कार्षीः कथं चन ॥ 4 ॥

  5. ततॊ ऽपश्यं दिविष्ठान वै तान अष्टौ बरह्मवादिनः ते मां समयन्तॊ राजेन्द्र शनकैर इदम अब्रुवन ॥ 5 ॥

  6. यथाह भरतश्रेष्ठ नारदस तत तथा कुरु एतद धि परमं शरेयॊ लॊकानां भरतर्षभ ॥ 6 ॥

  7. ततश च परतिसंहृत्य तद अस्त्रं सवापनं मृधे बरह्मास्त्रं दीपयां चक्रे तस्मिन युधि यथाविधि ॥ 7 ॥

  8. ततॊ रामॊ रुषितॊ राजपुत्र; दृष्ट्वा तद अस्त्रं विनिवर्तितं वै जितॊ ऽसमि भीष्मेण सुमन्दबुद्धिर; इत्य एव वाक्यं सहसा वयमुञ्चत ॥ 8 ॥

  9. ततॊ ऽपश्यत पितरं जामदग्न्यः; पितुस तथा पितरं तस्य चान्यम त एवैनं संपरिवार्य तस्थुर; ऊचुश चैनं सान्त्वपूर्वं तदानीम ॥ 9 ॥

  10. मा समैवं साहसं वत्स पुनः कार्षीः कथं चन भीष्मेण संयुगं गन्तुं कषत्रियेण विशेषतः ॥ 10 ॥

  11. कषत्रियस्य तु धर्मॊ ऽयं यद युद्धं भृगुनन्दन सवाध्यायॊ वरतचर्या च बराह्मणानां परं धनम ॥ 11 ॥

  12. इदं निमित्ते कस्मिंश चिद अस्माभिर उपमन्त्रितम शस्त्रधारणम अत्युग्रं तच च कार्यं कृतं तवया ॥ 12 ॥

  13. वत्स पर्याप्तम एतावद भीष्मेण सह संयुगे विमर्दस ते महाबाहॊ वयपयाहि रणाद इतः ॥ 13 ॥

  14. पर्याप्तम एतद भद्रं ते तव कार्मुकधारणम विसर्जयैतद दुर्धर्ष तपस तप्यस्व भार्गव ॥ 14 ॥

  15. एष भीष्मः शांतनवॊ देवैः सर्वैर निवारितः निवर्तस्व रणाद अस्माद इति चैव परचॊदितः ॥ 15 ॥

  16. रामेण सह मा यॊत्सीर गुरुणेति पुनः पुनः न हि रामॊ रणे जेतुं तवया नयाय्यः कुरूद्वह मानं कुरुष्व गाङ्गेय बराह्मणस्य रणाजिरे ॥ 16 ॥

  17. वयं तु गुरवस तुभ्यं ततस तवां वारयामहे भीष्मॊ वसूनाम अन्यतमॊ दिष्ट्या जीवसि पुत्रक ॥ 17 ॥

  18. गाङ्गेयः शंतनॊः पुत्रॊ वसुर एष महायशाः कथं तवया रणे जेतुं राम शक्यॊ निवर्त वै ॥ 18 ॥

  19. अर्जुनः पाण्डवश्रेष्ठः पुरंदरसुतॊ बली नरः परजापतिर वीरः पूर्वदेवः सनातनः ॥ 19 ॥

  20. सव्यसाचीति विख्यातस तरिषु लॊकेषु वीर्यवान भीष्ममृत्युर यथाकालं विहितॊ वै सवयम्भुवा ॥ 20 ॥

  21. एवम उक्तः स पितृभिः पितॄन रामॊ ऽबरवीद इदम नाहं युधि निवर्तेयम इति मे वरतम आहितम ॥ 21 ॥

  22. न निवर्तितपूर्वं च कदा चिद रणमूधनि निवर्त्यताम आपगेयः कामयुद्धात पितामहाः न तव अहं विनिवर्तिष्ये युद्धाद अस्मात कथं चन ॥ 22 ॥

  23. ततस ते मुनयॊ राजन्न ऋचीकप्रमुखास तदा नारदेनैव सहिताः समागम्येदम अब्रुवन ॥ 23 ॥

  24. निवर्तस्व रणात तात मानयस्व दविजॊत्तमान नेत्य अवॊचम अहं तांश च कषत्रधर्मव्यपेक्षया ॥ 24 ॥

  25. मम वरतम इदं लॊके नाहं युद्धात कथं चन विमुखॊ विनिवर्तेयं पृष्ठतॊ ऽभयाहतः शरैः ॥ 25 ॥

  26. नाहं लॊभान न कार्पण्यान न भयान नार्थकारणात तयजेयं शाश्वतं धर्मम इति मे निश्चिता मतिः ॥ 26 ॥

  27. ततस ते मुनयः सर्वे नारदप्रमुखा नृप भागीरथी च मे माता रणमध्यं परपेदिरे ॥ 27 ॥

  28. तथैवात्तशरॊ धन्वी तथैव दृढनिश्चयः सथितॊ ऽहम आहवे यॊद्धुं ततस ते रामम अब्रुवन समेत्य सहिता भूयः समरे भृगुनन्दनम ॥ 28 ॥

  29. नावनीतं हि हृदयं विप्राणां शाम्य भार्गव राम राम निवर्तस्व युद्धाद अस्माद दविजॊत्तम अवध्यॊ हि तवया भीष्मस तवं च भीष्मस्य भार्गव ॥ 29 ॥

  30. एवं बरुवन्तस ते सर्वे परतिरुध्य रणाजिरम नयासयां चक्रिरे शस्त्रं पितरॊ भृगुनन्दनम ॥ 30 ॥

  31. ततॊ ऽहं पुनर एवाथ तान अष्टौ बरह्मवादिनः अद्राक्षं दीप्यमानान वै गरहान अष्टाव इवॊदितान ॥ 31 ॥

  32. ते मां सप्रणयं वाक्यम अब्रुवन समरे सथितम परैहि रामं महाबाहॊ गुरुं लॊकहितं कुरु ॥ 32 ॥

  33. दृष्ट्वा निवर्तितं रामं सुहृद्वाक्येन तेन वै लॊकानां च हितं कुर्वन्न अहम अप्य आददे वचः ॥ 33 ॥

  34. ततॊ ऽहं रामम आसाद्य ववन्दे भृशविक्षतः रामश चाभ्युत्स्मयन परेम्णा माम उवाच महातपाः ॥ 34 ॥

  35. तवत्समॊ नास्ति लॊके ऽसमिन कषत्रियः पृथिवीचरः गम्यतां भीष्म युद्धे ऽसमिंस तॊषितॊ ऽहं भृशं तवया ॥ 35 ॥

  36. मम चैव समक्षं तां कन्याम आहूय भार्गवः उवाच दीनया वाचा मध्ये तेषां तपस्विनाम ॥ 36 ॥

Reach this point to mark the section finished.

Continue to अध्याय 187

Previous: अध्याय 185