भीष्म उवाच ततॊ रात्र्यां वयतीतायां परतिबुद्धॊ ऽसमि भारत तं च संचिन्त्य वै सवप्नम अवापं हर्षम उत्तमम ॥ 1 ॥
ततः समभवद युद्धं मम तस्य च भारत तुमुलं सर्वभूतानां लॊमहर्षणम अद्भुतम ॥ 2 ॥
ततॊ बाणमयं वर्षं ववर्ष मयि भार्गवः नयवारयम अहं तं च शरजालेन भारत ॥ 3 ॥
ततः परमसंक्रुद्धः पुनर एव महातपाः हयस्तनेनैव कॊपेन शक्तिं वै पराहिणॊन मयि ॥ 4 ॥
इन्द्राशनिसमस्पर्शां यमदण्डॊपमप्रभाम जवलन्तीम अग्निवत संख्ये लेलिहानां समन्ततः ॥ 5 ॥
ततॊ भरतशार्दूल धिष्ण्यम आकाशगं यथा सा माम अभ्यहनत तूर्णम अंसदेशे च भारत ॥ 6 ॥
अथासृङ मे ऽसरवद घॊरं गिरेर गैरिकधातुवत रामेण सुमहाबाहॊ कषतस्य कषतजेक्षण ॥ 7 ॥
ततॊ ऽहं जामदग्न्याय भृशं करॊधसमन्वितः परेषयं मृत्युसंकाशं बाणं सर्पविषॊपमम ॥ 8 ॥
स तेनाभिहतॊ वीरॊ ललाटे दविजसत्तमः अशॊभत महाराज सशृङ्ग इव पर्वतः ॥ 9 ॥
स संरब्धः समावृत्य बाणं कालानकॊपमम संदधे बलवत कृष्य घॊरं शत्रुनिबर्हणम ॥ 10 ॥
स वक्षसि पपातॊग्रः शरॊ वयाल इव शवसन महीं राजंस ततश चाहम अगच्छं रुधिराविलः ॥ 11 ॥
अवाप्य तु पुनः संज्ञां जामदग्न्याय धीमते पराहिण्वं विमलां शक्तिं जवलन्तीम अशनीम इव ॥ 12 ॥
सा तस्य दविजमुख्यस्य निपपात भुजान्तरे विह्वलश चाभवद राजन वेपथुश चैनम आविशत ॥ 13 ॥
तत एनं परिष्वज्य सखा विप्रॊ महातपाः अकृतव्रणः शुभैर वाक्यैर आश्वासयद अनेकधा ॥ 14 ॥
समाश्वस्तस तदा रामः करॊधामर्षसमन्वितः परादुश्चक्रे तदा बराह्मं परमास्त्रं महाव्रतः ॥ 15 ॥
ततस तत परतिघातार्थं बराहम एवास्त्रम उत्तमम मया परयुक्तं जज्वाल युगान्तम इव दर्शयत ॥ 16 ॥
तयॊर बरह्मास्त्रयॊर आसीद अन्तरा वै समागमः असंप्राप्यैव रामं च मां च भारतसत्तम ॥ 17 ॥
ततॊ वयॊम्नि परादुरभूत तेज एव हि केवलम भूतानि चैव सर्वाणि जग्मुर आर्तिं विशां पते ॥ 18 ॥
ऋषयश च सगन्धर्वा देवताश चैव भारत संतापं परमं जग्मुर अस्त्रतेजॊऽभिपीडिताः ॥ 19 ॥
ततश चचाल पृथिवी सपर्वतवनद्रुमा संतप्तानि च भूतानि विषादं जग्मुर उत्तमम ॥ 20 ॥
परजज्वाल नभॊ राजन धूमायन्ते दिशॊ दश न सथातुम अन्तरिक्षे च शेकुर आकाशगास तदा ॥ 21 ॥
ततॊ हाहाकृते लॊके सदेवासुरराक्षसे इदम अन्तरम इत्य एव यॊक्तुकामॊ ऽसमि भारत ॥ 22 ॥
परस्वापम अस्त्रं दयितं वचनाद बरह्मवादिनाम चिन्तितं च तद अस्त्रं मे मनसि परत्यभात तदा ॥ 23 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 185
Reach this point to mark the section finished.
Continue to अध्याय 186