भीष्म उवाच ततॊ ऽहं निशि राजेन्द्र परणम्य शिरसा तदा बरह्मणानां पितॄणां च देवतानां च सर्वशः ॥ 1 ॥
नक्तंचराणां भूतानां रजन्याश च विशां पते शयनं पराप्य रहिते मनसा समचिन्तयम ॥ 2 ॥
जामदग्न्येन मे युद्धम इदं परमदारुणम अहानि सुबहून्य अद्य वर्तते सुमहात्ययम ॥ 3 ॥
न च रामं महावीर्यं शक्नॊमि रणमूर्धनि विजेतुं समरे विप्रं जामदग्न्यं महाबलम ॥ 4 ॥
यदि शक्यॊ मया जेतुं जामदग्न्यः परतापवान दैवतानि परसन्नानि दर्शयन्तु निशां मम ॥ 5 ॥
ततॊ ऽहं निशि राजेन्द्र परसुप्तः शरविक्षतः दक्षिणेनैव पार्श्वेन परभातसमये इव ॥ 6 ॥
ततॊ ऽहं विप्रमुख्यैस तैर यैर अस्मि पतितॊ रथात उत्थापितॊ धृतश चैव मा भैर इति च सान्त्वितः ॥ 7 ॥
त एव मां महाराज सवप्नदर्शनम एत्य वै परिवार्याब्रुवन वाक्यं तन निबॊध कुरूद्वह ॥ 8 ॥
उत्तिष्ठ मा भैर गाङ्गेय भयं ते नास्ति किं चन रक्षामहे नरव्याघ्र सवशरीरं हि नॊ भवान ॥ 9 ॥
न तवां रामॊ रणे जेता जामदग्न्यः कथं चन तवम एव समरे रामं विजेता भरतर्षभ ॥ 10 ॥
इदम अत्रं सुदयितं परत्यभिज्ञास्यते भवान विदितं हि तवाप्य एतत पूर्वस्मिन देहधारणे ॥ 11 ॥
पराजापत्यं विश्वकृतं परस्वापं नाम भारत न हीदं वेद रामॊ ऽपि पृथिव्यां वा पुमान कव चित ॥ 12 ॥
तत समरस्व महाबाहॊ भृशं संयॊजयस्व च न च रामः कषयं गन्ता तेनास्त्रेण नराधिप ॥ 13 ॥
एनसा च न यॊगं तवं पराप्स्यसे जातु मानद सवप्स्यते जामदग्न्यॊ ऽसौ तवद्बाणबलपीडितः ॥ 14 ॥
ततॊ जित्वा तवम एवैनं पुनर उत्थापयिष्यसि अस्त्रेण दयितेनाजौ भीष्म संभॊधनेन वै ॥ 15 ॥
एवं कुरुष्व कौरव्य परभाते रथम आस्थितः परसुप्तं वा मृतं वापि तुल्यं मन्यामहे वयम ॥ 16 ॥
न च रामेण मर्तव्यं कदा चिद अपि पार्थिव ततः समुत्पन्नम इदं परस्वापं युज्यताम इति ॥ 17 ॥
इत्य उक्त्वान्तर्हिता राजन सर्व एव दविजॊत्तमाः अष्टौ सदृशरूपास ते सर्वे भास्वरमूर्तयः ॥ 18 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 184
Reach this point to mark the section finished.
Continue to अध्याय 185