भीष्म उवाच ततः परभाते राजेन्द्र सूर्ये विमल उद्गते भार्गवस्य मया सार्धं पुनर युद्धम अवर्तत ॥ 1 ॥
ततॊ भरान्ते रथे तिष्ठन रामः परहरतां वरः ववर्ष शरवर्षाणि मयि शक्र इवाचले ॥ 2 ॥
तेन सूतॊ मम सुहृच छरवर्षेण ताडितः निपपात रथॊपस्थे मनॊ मम विषादयन ॥ 3 ॥
ततः सूतः स मे ऽतयर्थं कश्मलं पराविशन महत पृथिव्यां च शराघातान निपपात मुमॊह च ॥ 4 ॥
ततः सूतॊ ऽजहात पराणान रामबाणप्रपीडितः मुहूर्ताद इव राजेन्द्र मां च भीर आविशत तदा ॥ 5 ॥
ततः सूते हते राजन कषिपतस तस्य मे शरान परमत्तमनसॊ रामः पराहिणॊन मृत्युसंमितान ॥ 6 ॥
ततः सूतव्यसनिनं विप्लुतं मां स भार्गवः शरेणाभ्यहनद गाढं विकृष्य बलवद धनुः ॥ 7 ॥
स मे जत्र्वन्तरे राजन निपत्य रुधिराशनः मयैव सह राजेन्द्र जगाम वसुधातलम ॥ 8 ॥
मत्वा तु निहतं रामस ततॊ मां भरतर्षभ मेघवद वयनदच चॊच्चैर जहृषे च पुनः पुनः ॥ 9 ॥
तथा तु पतिते राजन मयि रामॊ मुदा युतः उदक्रॊशन महानादं सह तैर अनुयायिभिः ॥ 10 ॥
मम तत्राभवन ये तु कौरवाः पार्श्वतः सथिताः आगता ये च युद्धं तज जनास तत्र दिदृक्षवः आर्तिं परमिकां जग्मुस ते तदा मयि पातिते ॥ 11 ॥
ततॊ ऽपश्यं पातितॊ राजसिंह; दविजान अष्टौ सूर्यहुताशनाभान ते मां समन्तात परिवार्य तस्थुः; सवबाहुभिः परिगृह्याजिमध्ये ॥ 12 ॥
रक्ष्यमाणश च तैर विप्रैर नाहं भूमिम उपास्पृशम अन्तरिक्षे सथितॊ हय अस्मि तैर विप्रैर बान्धवैर इव सवपन्न इवान्तरिक्षे च जलबिन्दुभिर उक्षितः ॥ 13 ॥
ततस ते बराह्मणा राजन्न अब्रुवन परिगृह्य माम मा भैर इति समं सर्वे सवस्ति ते ऽसत्व इति चासकृत ॥ 14 ॥
ततस तेषाम अहं वाग्भिस तर्पितः सहसॊत्थितः मातरं सरितां शरेष्ठाम अपश्यं रथम आस्थिताम ॥ 15 ॥
हयाश च मे संगृहीतास तया वै; महानद्या संयति कौरवेन्द्र पादौ जनन्याः परतिपूज्य चाहं; तथार्ष्टिषेणं रथम अभ्यरॊहम ॥ 16 ॥
ररक्ष सा मम रथं हयांश चॊपस्कराणि च ताम अहं पराञ्जलिर भूत्वा पुनर एव वयसर्जयम ॥ 17 ॥
ततॊ ऽहं सवयम उद्यम्य हयांस तान वातरंहसः अयुध्यं जामदग्न्येन निवृत्ते ऽहनि भारत ॥ 18 ॥
ततॊ ऽहं भरतश्रेष्ठ वेगवन्तं महाबलम अमुञ्चं समरे बाणं रामाय हृदयच्छिदम ॥ 19 ॥
ततॊ जगाम वसुधां बाणवेगप्रपीडितः जानुभ्यां धनुर उत्सृज्य रामॊ मॊहवशं गतः ॥ 20 ॥
ततस तस्मिन निपतिते रामे भूरिसहस्रदे आवव्रुर जलदा वयॊम कषरन्तॊ रुधिरं बहु ॥ 21 ॥
उल्काश च शतशः पेतुः सनिर्घाताः सकम्पनाः अर्कं च सहसा दीप्तं सवर्भानुर अभिसंवृणॊत ॥ 22 ॥
ववुश च वाताः परुषाश चलिता च वसुंधरा गृध्रा बडाश च कङ्काश च परिपेतुर मुदा युताः ॥ 23 ॥
दीप्तायां दिशि गॊमायुर दारुणं मुहुर उन्नदत अनाहता दुन्दुभयॊ विनेदुर भृशनिस्वनाः ॥ 24 ॥
एतद औत्पातिकं घॊरम आसीद भरतसत्तम विसंज्ञकल्पे धरणीं गते रामे महात्मनि ॥ 25 ॥
ततॊ रविर मन्दमरीचिमण्डलॊ; जगामास्तं पांसुपुञ्जावगाढः निशा वयगाहत सुखशीतमारुता; ततॊ युद्धं परत्यवहारयावः ॥ 26 ॥
एवं राजन अवहारॊ बभूव; ततः पुनर विमले ऽभूत सुघॊरम काल्यं काल्यं विंशतिं वै दिनानि; तथैव चान्यानि दिनानि तरीणि ॥ 27 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 183
Reach this point to mark the section finished.
Continue to अध्याय 184