भीष्म उवाच समागतस्य रामेण पुनर एवातिदारुणम अन्येद्युस तुमुलं युद्धं तदा भरतसत्तम ॥ 1 ॥
ततॊ दिव्यास्त्रविच छूरॊ दिव्यान्य अस्त्राण्य अनेकशः अयॊजयत धर्मात्मा दिवसे दिवसे विभुः ॥ 2 ॥
तान्य अहं तत्प्रतीघातैर अस्त्रैर अस्त्राणि भारत वयधमं तुमुले युद्धे पराणांस तयक्त्वा सुदुस्त्यजान ॥ 3 ॥
अस्त्रैर अस्त्रेषु बहुधा हतेष्व अथ च भार्गवः अक्रुध्यत महातेजास तयक्तप्राणः स संयुगे ॥ 4 ॥
ततः शक्तिं पराहिणॊद घॊररूपाम; अस्त्रै रुद्धॊ जामदग्न्यॊ महात्मा कालॊत्सृष्टां परज्वलिताम इवॊल्कां; संदीप्ताग्रां तेजसावृत्य लॊकान ॥ 5 ॥
ततॊ ऽहं ताम इषुभिर दीप्यमानैः; समायान्तीम अन्तकालार्कदीप्ताम छित्त्वा तरिधा पातयाम आस भूमौ; ततॊ ववौ पवनः पुण्यगन्धिः ॥ 6 ॥
तस्यां छिन्नायां करॊधदीप्तॊ ऽथ रामः; शक्तीर घॊराः पराहिणॊद दवादशान्याः तासां रूपं भारत नॊत शक्यं; तेजस्वित्वाल लाघवाच चैव वक्तुम ॥ 7 ॥
किं तव एवाहं विह्वलः संप्रदृश्य; दिग्भ्यः सर्वास ता महॊल्का इवाग्नेः नानारूपास तेजसॊग्रेण दीप्ता; यथादित्या दवादश लॊकसंक्षये ॥ 8 ॥
ततॊ जालं बाणमयं विवृत्य; संदृश्य भित्त्वा शरजालेन राजन दवादशेषून पराहिणवं रणे ऽहं; ततः शक्तीर वयधमं घॊररूपाः ॥ 9 ॥
ततॊ ऽपरा जामदग्न्यॊ महात्मा; शक्तीर घॊराः पराक्षिपद धेमदण्डाः विचित्रिताः काञ्चनपट्टनद्धा; यथा महॊक्ला जवलितास तथा ताः ॥ 10 ॥
ताश चाप्य उग्राश चर्मणा वारयित्वा; खड्गेनाजौ पातिता मे नरेन्द्र बाणैर दिव्यैर जामदग्न्यस्य संख्ये; दिव्यांश चाश्वान अभ्यवर्षं ससूतान ॥ 11 ॥
निर्मुक्तानां पन्नगानां सरूपा; दृष्ट्वा शक्तीर हेमचित्रा निकृत्ताः परादुश्चक्रे दिव्यम अस्त्रं महात्मा; करॊधाविष्टॊ हैहयेशप्रमाथी ॥ 12 ॥
ततः शरेण्यः शलभानाम इवॊग्राः; समापेतुर विशिखानां परदीप्ताः समाचिनॊच चापि भृशं शरीरं; हयान सूतं सरथं चैव मह्यम ॥ 13 ॥
रथः शरैर मे निचितः सर्वतॊ ऽभूत; तथा हयाः सारथिश चैव राजन युगं रथेषा च तथैव चक्रे; तथैवाक्षः शरकृत्तॊ ऽथ भग्नः ॥ 14 ॥
ततस तस्मिन बाणवर्षे वयतीते; शरौघेण परत्यवर्षं गुरुं तम स विक्षतॊ मार्गणैर बरह्मराशिर; देहाद अजस्रं मुमुचे भूरि रक्तम ॥ 15 ॥
यथा रामॊ बाणजालाभितप्तस; तथैवाहं सुभृशं गाढविद्धः ततॊ युद्धं वयरमच चापराह्णे; भानाव अस्तं परार्थयाने महीध्रम ॥ 16 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 182
Reach this point to mark the section finished.
Continue to अध्याय 183