भीष्म उवाच आत्मनस तु ततः सूतॊ हयानां च विशां पते मम चापनयाम आस शल्यान कुशलसंमतः ॥ 1 ॥
सनातॊपवृत्तैस तुरगैर लब्धतॊयैर अविह्वलैः परभात उदिते सूर्ये ततॊ युद्धम अवर्तत ॥ 2 ॥
दृष्ट्वा मां तूर्णम आयान्तं दंशितं सयन्दने सथितम अकरॊद रथम अत्यर्थं रामः सज्जं परतापवान ॥ 3 ॥
ततॊ ऽहं रामम आयान्तं दृष्ट्वा समरकाङ्क्षिणम धनुःश्रेष्ठं समुत्सृज्य सहसावतरं रथात ॥ 4 ॥
अभिवाद्य तथैवाहं रथम आरुह्य भारत युयुत्सुर जामदग्न्यस्य परमुखे वीतभीः सथितः ॥ 5 ॥
ततॊ मां शरवर्षेण महता समवाकिरत अहं च शरवर्षेण वर्षन्तं समवाकिरम ॥ 6 ॥
संक्रुद्धॊ जामदग्न्यस तु पुनर एव पतत्रिणः परेषयाम आस मे राजन दीप्तास्यान उरगान इव ॥ 7 ॥
तान अहं निशितैर भल्लैः शतशॊ ऽथ सहस्रशः अच्छिदं सहसा राजन्न अन्तरिक्षे पुनः पुनः ॥ 8 ॥
ततस तव अस्त्राणि दिव्यानि जामदग्न्यः परतापवान मयि परचॊदयाम आस तान्य अहं परत्यषेधयम ॥ 9 ॥
अस्त्रैर एव महाबाहॊ चिकीर्षन्न अधिकां करियाम ततॊ दिवि महान नादः परादुरासीत समन्ततः ॥ 10 ॥
ततॊ ऽहम अस्त्रं वायव्यं जामदग्न्ये परयुक्तवान पत्याजघ्ने च तद रामॊ गुह्यकास्त्रेण भारत ॥ 11 ॥
ततॊ ऽसत्रम अहम आग्नेयम अनुमन्त्र्य परयुक्तवान वारुणेनैव रामस तद वारयाम आस मे विभुः ॥ 12 ॥
एवम अस्त्राणि दिव्यानि रामस्याहम अवारयम रामश च मम तेजस्वी दिव्यास्त्रविद अरिंदमः ॥ 13 ॥
ततॊ मां सव्यतॊ राजन रामः कुर्वन दविजॊत्तमः उरस्य अविध्यत संक्रुद्धॊ जामदग्न्यॊ महाबलः ॥ 14 ॥
ततॊ ऽहं भरतश्रेष्ठ संन्यषीदं रथॊत्तमे अथ मां कश्मलाविष्टं सूतस तूर्णम अपावहत गॊरुतं भरतश्रेष्ठ रामबाणप्रपीडितम ॥ 15 ॥
ततॊ माम अपयातं वै भृशं विद्धम अचेतसम रामस्यानुचरा हृष्टाः सर्वे दृष्ट्वा परचुक्रुशुः अकृतव्रणप्रभृतयः काशिकन्या च भारत ॥ 16 ॥
ततस तु लब्धसंज्ञॊ ऽहं जञात्वा सूतम अथाब्रुवम याहि सूत यतॊ रामः सज्जॊ ऽहं गतवेदनः ॥ 17 ॥
ततॊ माम अवहत सूतॊ हयैः परमशॊभितैः नृत्यद्भिर इव कौरव्य मारुतप्रतिमैर गतौ ॥ 18 ॥
ततॊ ऽहं रामम आसाद्य बाणजालेन कौरव अवाकिरं सुसंरब्धः संरब्धं विजिगीषया ॥ 19 ॥
तान आपतत एवासौ रामॊ बाणान अजिह्मगान बाणैर एवाच्छिनत तूर्णम एकैकं तरिभिर आहवे ॥ 20 ॥
ततस ते मृदिताः सर्वे मम बाणाः सुसंशिताः रामबाणैर दविधा छिन्नाः शतशॊ ऽथ महाहवे ॥ 21 ॥
ततः पुनः शरं दीप्तं सुप्रभं कालसंमितम असृजं जामदग्न्याय रामायाहं जिघांसया ॥ 22 ॥
तेन तव अभिहतॊ गाढं बाणच्छेदवशं गतः मुमॊह सहसा रामॊ भूमौ च निपपात ह ॥ 23 ॥
ततॊ हाहाकृतं सर्वं रामे भूतलम आश्रिते जगद भारत संविग्नं यथार्कपतने ऽभवत ॥ 24 ॥
तत एनं सुसंविग्नाः सर्व एवाभिदुद्रुवुः तपॊधनास ते सहसा काश्या च भृगुनन्दनम ॥ 25 ॥
त एनं संपरिष्वज्य शनैर आश्वासयंस तदा पाणिभिर जलशीतैश च जयाशीर्भिश च कौरव ॥ 26 ॥
ततः स विह्वलॊ वाक्यं राम उत्थाय माब्रवीत तिष्ठ भीष्म हतॊ ऽसीति बाणं संधाय कार्मुके ॥ 27 ॥
स मुक्तॊ नयपतत तूर्णं पार्श्वे सव्ये महाहवे येनाहं भृशसंविग्नॊ वयाघूर्णित इव दरुमः ॥ 28 ॥
हत्वा हयांस ततॊ राजञ शीघ्रास्त्रेण महाहवे अवाकिरन मां विश्रब्धॊ बाणैस तैर लॊमवाहिभिः ॥ 29 ॥
ततॊ ऽहम अपि शीघ्रास्त्रं समरे ऽपरतिवारणम अवासृजं महाबाहॊ ते ऽनतराधिष्ठिताः शराः रामस्य मम चैवाशु वयॊमावृत्य समन्ततः ॥ 30 ॥
न सम सूर्यः परतपति शरजालसमावृतः मातरिश्वान्तरे तस्मिन मेघरुद्ध इवानदत ॥ 31 ॥
ततॊ वायॊः परकम्पाच च सूर्यस्य च मरीचिभिः अभितापात सवभावाच च पावकः समजायत ॥ 32 ॥
ते शराः सवसमुत्थेन परदीप्ताश चित्रभानुना भूमौ सर्वे तदा राजन भस्मभूताः परपेदिरे ॥ 33 ॥
तदा शतसहस्राणि परयुतान्य अर्बुदानि च अयुतान्य अथ खर्वाणि निखर्वाणि च कौरव रामः शराणां संक्रुद्धॊ मयि तूर्णम अपातयत ॥ 34 ॥
ततॊ ऽहं तान अपि रणे शरैर आशीविषॊपमैः संछिद्य भूमौ नृपते ऽपातयं पन्नगान इव ॥ 35 ॥
एवं तद अभवद युद्धं तदा भरतसत्तम संध्याकाले वयतीते तु वयपायात स च मे गुरुः ॥ 36 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 181
Reach this point to mark the section finished.
Continue to अध्याय 182