धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 180

  1. भीष्म उवाच तम अहं समयन्न इव रणे परत्यभाषं वयवस्थितम भूमिष्ठं नॊत्सहे यॊद्धुं भवन्तं रथम आस्थितः ॥ 1 ॥

  2. आरॊह सयन्दनं वीर कवचं च महाभुज बधान समरे राम यदि यॊद्धुं मयेच्छसि ॥ 2 ॥

  3. ततॊ माम अब्रवीद रामः समयमानॊ रणाजिरे रथॊ मे मेदिनी भीष्म वाहा वेदाः सदश्ववत ॥ 3 ॥

  4. सूतॊ मे मातरिश्वा वै कवचं वेदमातरः सुसंवीतॊ रणे ताभिर यॊत्स्ये ऽहं कुरुनन्दन ॥ 4 ॥

  5. एवं बरुवाणॊ गान्धारे रामॊ मां सत्यविक्रमः शरव्रातेन महता सर्वतः पर्यवारयत ॥ 5 ॥

  6. ततॊ ऽपश्यं जामदग्न्यं रथे दिव्ये वयवस्थितम सर्वायुधधरे शरीमत्य अद्भुतॊपमदर्शने ॥ 6 ॥

  7. मनसा विहिते पुण्ये विस्तीर्णे नगरॊपमे दिव्याश्वयुजि संनद्धे काञ्चनेन विभूषिते ॥ 7 ॥

  8. धवजेन च महाबाहॊ सॊमालंकृतलक्ष्मणा धनुर्धरॊ बद्धतूणॊ बद्धगॊधाङ्गुलित्रवान ॥ 8 ॥

  9. सारथ्यं कृतवांस तत्र युयुत्सॊर अकृतव्रणः सखा वेदविद अत्यन्तं दयितॊ भार्गवस्य ह ॥ 9 ॥

  10. आह्वयानः स मां युद्धे मनॊ हर्षयतीव मे पुनः पुनर अभिक्रॊशन्न अभियाहीति भार्गवः ॥ 10 ॥

  11. तम आदित्यम इवॊद्यन्तम अनाधृष्यं महाबलम कषत्रियान्तकरं रामम एकम एकः समासदम ॥ 11 ॥

  12. ततॊ ऽहं बाणपातेषु तरिषु वाहान निगृह्य वै अवतीर्य धनुर नयस्य पदातिर ऋषिसत्तमम ॥ 12 ॥

  13. अभ्यगच्छं तदा रामम अर्चिष्यन दविजसत्तमम अभिवाद्य चैनं विधिवद अब्रुवं वाक्यम उत्तमम ॥ 13 ॥

  14. यॊत्स्ये तवया रणे राम विशिष्टेनाधिकेन च गुरुणा धर्मशीलेन जयम आशास्स्व मे विभॊ ॥ 14 ॥

  15. राम उवाच एवम एतत कुरुश्रेष्ठ कर्तव्यं भूतिम इच्छता धर्मॊ हय एष महाबाहॊ विशिष्टैः सह युध्यताम ॥ 15 ॥

  16. शपेयं तवां न चेद एवम आगच्छेथा विशां पते युध्यस्व तवं रणे यत्तॊ धैर्यम आलम्ब्य कौरव ॥ 16 ॥

  17. न तु ते जयम आशासे तवां हि जेतुम अहं सथितः गच्छ युध्यस्व धर्मेण परीतॊ ऽसमि चरितेन ते ॥ 17 ॥

  18. भीष्म उवाच ततॊ ऽहं तं नमस्कृत्य रथम आरुह्य सत्वरः पराध्मापयं रणे शङ्खं पुनर हेमविभूषितम ॥ 18 ॥

  19. ततॊ युद्धं समभवन मम तस्य च भारत दिवसान सुबहून राजन परस्परजिगीषया ॥ 19 ॥

  20. स मे तस्मिन रणे पूर्वं पराहरत कङ्कपत्रिभिः षष्ट्या शतैश च नवभिः शराणाम अग्निवर्चसाम ॥ 20 ॥

  21. चत्वारस तेन मे वाहाः सूतश चैव विशां पते परतिरुद्धास तथैवाहं समरे दंशितः सथितः ॥ 21 ॥

  22. नमस्कृत्य च देवेभ्यॊ बराह्मणेभ्यश च भारत तम अहं समयन्न इव रणे परत्यभाषं वयवस्थितम ॥ 22 ॥

  23. आचार्यता मानिता मे निर्मर्यादे हय अपि तवयि भूयस तु शृणु मे बरह्मन संपदं धर्मसंग्रहे ॥ 23 ॥

  24. ये ते वेदाः शरीरस्था बराह्मण्यं यच च ते महत तपश च सुमहत तप्तं न तेभ्यः परहराम्य अहम ॥ 24 ॥

  25. परहरे कषत्रधर्मस्य यं तवं राम समास्थितः बराह्मणः कषत्रियत्वं हि याति शस्त्रसमुद्यमात ॥ 25 ॥

  26. पश्य मे धनुषॊ वीर्यं पश्य बाह्वॊर बलं च मे एष ते कार्मुकं वीर दविधा कुर्मि ससायकम ॥ 26 ॥

  27. तस्याहं निशितं भल्लं पराहिण्वं भरतर्षभ तेनास्य धनुषः कॊटिश छिन्ना भूमिम अथागमत ॥ 27 ॥

  28. नव चापि पृषत्कानां शतानि नतपर्वणाम पराहिण्वं कङ्कपत्राणां जामदग्न्यरथं परति ॥ 28 ॥

  29. काये विषक्तास तु तदा वायुनाभिसमीरिताः चेलुः कषरन्तॊ रुधिरं नागा इव च ते शराः ॥ 29 ॥

  30. कषतजॊक्षितसर्वाङ्गः कषरन स रुधिरं वरणैः बभौ रामस तदा राजन मेरुर धातून इवॊत्सृजन ॥ 30 ॥

  31. हेमन्तान्ते ऽशॊक इव रक्तस्तबकमण्डितः बभौ रामस तदा राजन कव चित किंशुकसंनिभः ॥ 31 ॥

  32. ततॊ ऽनयद धनुर आदाय रामः करॊधसमन्वितः हेमपुङ्खान सुनिशिताञ शरांस तान हि ववर्ष सः ॥ 32 ॥

  33. ते समासाद्य मां रौद्रा बहुधा मर्मभेदिनः अकम्पयन महावेगाः सर्पानलविषॊपमाः ॥ 33 ॥

  34. ततॊ ऽहं समवष्टभ्य पुनर आत्मानम आहवे शतसंख्यैः शरैः करुद्धस तदा रामम अवाकिरम ॥ 34 ॥

  35. स तैर अग्न्यर्कसंकाशैः शरैर आशीविषॊपमैः शितैर अभ्यर्दितॊ रामॊ मन्दचेता इवाभवत ॥ 35 ॥

  36. ततॊ ऽहं कृपयाविष्टॊ विनिन्द्यात्मानम आत्मना धिग धिग इत्य अब्रुवं युद्धं कषत्रं च भरतर्षभ ॥ 36 ॥

  37. असकृच चाब्रुवं राजञ शॊकवेगपरिप्लुतः अहॊ बत कृतं पापं मयेदं कषत्रकर्मणा ॥ 37 ॥

  38. गुरुर दविजातिर धर्मात्मा यद एवं पीडितः शरैः ततॊ न पराहरं भूयॊ जामदग्न्याय भारत ॥ 38 ॥

  39. अथावताप्य पृथिवीं पूषा दिवससंक्षये जगामास्तं सहस्रांशुस ततॊ युद्धम उपारमत ॥ 39 ॥

Reach this point to mark the section finished.

Continue to अध्याय 181

Previous: अध्याय 179