भीष्म उवाच ततॊ माम अब्रवीद रामः परहसन्न इव भारत दिष्ट्या भीष्म मया सार्धं यॊद्धुम इच्छसि संगरे ॥ 1 ॥
अयं गच्छामि कौरव्य कुरुक्षेत्रं तवया सह भाषितं तत करिष्यामि तत्रागच्छेः परंतप ॥ 2 ॥
तत्र तवां निहतं माता मया शरशताचितम जाह्नवी पश्यतां भीष्म गृध्रकङ्कबडाशनम ॥ 3 ॥
कृपणं तवाम अभिप्रेक्ष्य सिद्धचारणसेविता मया विनिहतं देवी रॊदताम अद्य पार्थिव ॥ 4 ॥
अतदर्हा महाभागा भगीरथसुता नदी या तवाम अजीजनन मन्दं युद्धकामुकम आतुरम ॥ 5 ॥
एहि गच्छ मया भीष्म युद्धम अद्यैव वर्तताम गृहाण सर्वं कौरव्य रथादि भरतर्षभ ॥ 6 ॥
इति बरुवाणं तम अहं रामं परपुरंजयम परणम्य शिरसा राजन्न एवम अस्त्व इत्य अथाब्रुवम ॥ 7 ॥
एवम उक्त्वा ययौ रामः कुरुक्षेत्रं युयुत्सया परविश्य नगरं चाहं सत्यवत्यै नयवेदयम ॥ 8 ॥
ततः कृतस्वस्त्ययनॊ मात्रा परत्यभिनन्दितः दविजातीन वाच्य पुण्याहं सवस्ति चैव महाद्युते ॥ 9 ॥
रथम आस्थाय रुचिरं राजतं पाण्डुरैर हयैः सूपस्करं सवधिष्ठानं वैयाघ्रपरिवारणम ॥ 10 ॥
उपपन्नं महाशस्त्रैः सर्वॊपकरणान्वितम तत कुलीनेन वीरेण हयशास्त्रविदा नृप ॥ 11 ॥
युक्तं सूतेन शिष्टेन बहुशॊ दृष्टकर्मणा दंशितः पाण्डुरेणाहं कवचेन वपुष्मता ॥ 12 ॥
पाण्डुरं कार्मुकं गृह्य परायां भरतसत्तम पाण्डुरेणातपत्रेण धरियमाणेन मूर्धनि ॥ 13 ॥
पाण्डुरैश चामरैश चापि वीज्यमानॊ नराधिप शुक्लवासाः सितॊष्णीषः सर्वशुक्लविभूषणः ॥ 14 ॥
सतूयमानॊ जयाशीर्भिर निष्क्रम्य गजसाह्वयात कुरुक्षेत्रं रणक्षेत्रम उपायां भरतर्षभ ॥ 15 ॥
ते हयाश चॊदितास तेन सूतेन परमाहवे अवहन मां भृशं राजन मनॊमारुतरंहसः ॥ 16 ॥
गत्वाहं तत कुरुक्षेत्रं स च रामः परतापवान युद्धाय सहसा राजन पराक्रान्तौ परस्परम ॥ 17 ॥
ततः संदर्शने ऽतिष्ठं रामस्यातितपस्विनः परगृह्य शङ्खप्रवरं ततः पराधमम उत्तमम ॥ 18 ॥
ततस तत्र दविजा राजंस तापसाश च वनौकसः अपश्यन्त रणं दिव्यं देवाः सर्षिगणास तदा ॥ 19 ॥
ततॊ दिव्यानि माल्यानि परादुरासन मुहुर मुहुः वादित्राणि च दिव्यानि मेघवृन्दानि चैव ह ॥ 20 ॥
ततस ते तापसाः सर्वे भार्गवस्यानुयायिनः परेक्षकाः समपद्यन्त परिवार्य रणाजिरम ॥ 21 ॥
ततॊ माम अब्रवीद देवी सर्वभूतहितैषिणी माता सवरूपिणी राजन किम इदं ते चिकीर्षितम ॥ 22 ॥
गत्वाहं जामदग्न्यं तं परयाचिष्ये कुरूद्वह भीष्मेण सह मा यॊत्सीः शिष्येणेति पुनः पुनः ॥ 23 ॥
मा मैवं पुत्र निर्बन्धं कुरु विप्रेण पार्थिव जामदग्न्येन समरे यॊद्धुम इत्य अवभर्त्सयत ॥ 24 ॥
किं न वै कषत्रियहरॊ हरतुल्यपराक्रमः विदितः पुत्र रामस ते यतस तवं यॊद्धुम इच्छसि ॥ 25 ॥
ततॊ ऽहम अब्रुवं देवीम अभिवाद्य कृताञ्जलिः सर्वं तद भरतश्रेष्ठ यथावृत्तं सवयंवरे ॥ 26 ॥
यथा च रामॊ राजेन्द्र मया पूर्वं परसादितः काशिराजसुतायाश च यथा कामः पुरातनः ॥ 27 ॥
ततः सा रामम अभ्येत्य जननी मे महानदी मदर्थं तम ऋषिं देवी कषमयाम आस भार्गवम भीष्मेण सह मा यॊत्सीः शिष्येणेति वचॊ ऽबरवीत ॥ 28 ॥
स च ताम आह याचन्तीं भीष्मम एव निवर्तय न हि मे कुरुते कामम इत्य अहं तम उपागमम ॥ 29 ॥
संजय उवाच ततॊ गङ्गा सुतस्नेहाद भीष्मं पुनर उपागमत न चास्याः सॊ ऽकरॊद वाक्यं करॊधपर्याकुलेक्षणः ॥ 30 ॥
अथादृश्यत धर्मात्मा भृगुश्रेष्ठॊ महातपाः आह्वयाम आस च पुनर युद्धाय दविजसत्तमः ॥ 31 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 179
Reach this point to mark the section finished.
Continue to अध्याय 180