धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 17

  1. [ष] अथ संचिन्तयानस्य देवराजस्य धीमतः नहुषस्य वधॊपायं लॊकपालैः सहैव तैः तपस्वी तत्र भगवान अगस्त्यः परत्यदृश्यत ॥ 1 ॥

  2. सॊ ऽबरवीद अर्च्य देवेन्द्रं दिष्ट्या वै वर्धते भवान विश्वरूपविनाशेन वृत्रासुरवधेन च ॥ 2 ॥

  3. दिष्ट्या च नहुषॊ भरष्टॊ देवराज्यात पुरंदर दिष्ट्या हतारिं पश्यामि भवन्तं बलसूदन ॥ 3 ॥

  4. सवागतं ते महर्षे ऽसतु परीतॊ ऽहं दर्शनात तव पाद्यम आचमनीयं च गाम अर्घ्यं च परतीच्छ मे ॥ 4 ॥

  5. पूजितं चॊपविष्टं तम आसने मुनिसत्तमम पर्यपृच्छत देवेशः परहृष्टॊ बराह्मणर्षभम ॥ 5 ॥

  6. एतद इच्छामि भगवन कथ्यमानं दविजॊत्तम परिभ्रष्टः कथं सवर्गान नहुषः पापनिश्चयः ॥ 6 ॥

  7. शृणु शक्र परियं वाक्यं यथा राजा दुरात्मवान सवर्गाद भरष्टॊ दुराचारॊ नहुषॊ बलदर्पितः ॥ 7 ॥

  8. शरमार्तास तु वहन्तस तं नहुषं पापकारिणम देवर्षयॊ महाभागास तथा बरह्मर्षयॊ ऽमलाः पप्रच्छुः संशयं देव नहुषं जयतां वर ॥ 8 ॥

  9. य इमे बरह्मणा परॊक्ता मन्त्रा वै परॊक्षणे गवाम एते परमाणं भवत उताहॊ नेति वासव नहुषॊ नेति तान आह तमसा मूढ चेतनः ॥ 9 ॥

  10. अधर्मे संप्रवृत्तस तवं धर्मं न परतिपद्यसे परमाणम एतद अस्माकं पूर्वं परॊक्तं महर्षिभिः ॥ 10 ॥

  11. ततॊ विवदमानः स मुनिभिः सह वासव अथ माम अस्पृशन मूर्ध्नि पादेनाधर्मपीडितः ॥ 11 ॥

  12. तेनाभूद धुत तेजाः स निःश्रीकश च शचीपते ततस तम अहम आविग्नम अवॊचं भयपीडितम ॥ 12 ॥

  13. यस्मात पूर्वैः कृतं बरह्म बरह्मर्षिभिर अनुष्ठितम अदुष्टं दूषयसि वै यच च मूर्ध्न्य अस्पृशः पदा ॥ 13 ॥

  14. यच चापि तवम ऋषीन मूढ बरह्मकल्पान दुरासदान वाहान कृत्वा वाहयसि तेन सवर्गाद धतप्रभः ॥ 14 ॥

  15. धवंस पापपरिभ्रष्टः कषीणपुण्यॊ महीतलम दशवर्षसहस्राणि सर्परूपधरॊ महान विचरिष्यसि पूर्णेषु पुनः सवर्गम अवाप्स्यसि ॥ 15 ॥

  16. एवं भरष्टॊ दुरात्मा स देवराज्याद अरिंदम दिष्ट्या वर्धामहे शक्र हतॊ बाह्मण कण्टकः ॥ 16 ॥

  17. तरिविष्टपं परपद्यस्व पाहि लॊकाञ शचीपते जितेन्द्रियॊ जितामित्रः सतूयमानॊ महर्षिभिः ॥ 17 ॥

  18. ततॊ देवा भृषं तुष्टा महर्षिगणसंवृताः पितरश चैव यक्षाश च भुजगा राक्षसास तथा ॥ 18 ॥

  19. गन्धर्वा देवकन्याश च सर्वे चाप्सरसां गणाः सरांसि सरितः शैलाः सागराश च विशां पते ॥ 19 ॥

  20. उपगम्याब्रुवन सर्वे दिष्ट्या वर्धसि शत्रुहन हतश च नहुषः पापॊ दिष्ट्यागस्त्येन धीमता दिष्ट्या पापसमाचारः कृतः सर्पॊ महीतले ॥ 20 ॥

Reach this point to mark the section finished.

Continue to अध्याय 18

Previous: अध्याय 16