भीष्म उवाच ततस तृतीये दिवसे समे देशे वयवस्थितः परेषयाम आस मे राजन पराप्तॊ ऽसमीति महाव्रतः ॥ 1 ॥
तम आगतम अहं शरुत्वा विषयान्तं महाबलम अभ्यगच्छं जवेनाशु परीत्या तेजॊनिधिं परभुम ॥ 2 ॥
गां पुरस्कृत्य राजेन्द्र बराह्मणैः परिवारितः ऋत्विग्भिर देवकल्पैश च तथैव च पुरॊहितैः ॥ 3 ॥
स माम अभिगतं दृष्ट्वा जामदग्न्यः परतापवान परतिजग्राह तां पूजां वचनं चेदम अब्रवीत ॥ 4 ॥
भीष्म कां बुद्धिम आस्थाय काशिराजसुता तवया अकामेयम इहानीता पुनश चैव विसर्जिता ॥ 5 ॥
विभ्रंशिता तवया हीयं धर्मावाप्तेः परावरात परामृष्टां तवया हीमां कॊ हि गन्तुम इहार्हति ॥ 6 ॥
परत्याख्याता हि शाल्वेन तवया नीतेति भारत तस्माद इमां मन्नियॊगात परतिगृह्णीष्व भारत ॥ 7 ॥
सवधर्मं पुरुषव्याघ्र राजपुत्री लभत्व इयम न युक्तम अवमानॊ ऽयं कर्तुं राज्ञा तवयानघ ॥ 8 ॥
ततस तं नातिमनसं समुदीक्ष्याहम अब्रुवम नाहम एनां पुनर दद्यां भरात्रे बरह्मन कथं चन ॥ 9 ॥
शाल्वस्याहम इति पराह पुरा माम इह भार्गव मया चैवाभ्यनुज्ञाता गता सौभपुरं परति ॥ 10 ॥
न भयान नाप्य अनुक्रॊशान न लॊभान नार्थकाम्यया कषत्रधर्मम अहं जह्याम इति मे वरतम आहितम ॥ 11 ॥
अथ माम अब्रवीद रामः करॊधपर्याकुलेक्षणः न करिष्यसि चेद एतद वाक्यं मे कुरुपुंगव ॥ 12 ॥
हनिष्यामि सहामात्यं तवाम अद्येति पुनः पुनः संरम्भाद अब्रवीद रामः करॊधपर्याकुलेक्षणः ॥ 13 ॥
तम अहं गीर्भिर इष्टाभिः पुनः पुनर अरिंदमम अयाचं भृगुशार्दूलं न चैव परशशाम सः ॥ 14 ॥
तम अहं परणम्य शिरसा भूयॊ बराह्मणसत्तमम अब्रुवं कारणं किं तद यत तवं यॊद्धुम इहेच्छसि ॥ 15 ॥
इष्वस्त्रं मम बालस्य भवतैव चतुर्विधम उपदिष्टं महाबाहॊ शिष्यॊ ऽसमि तव भार्गव ॥ 16 ॥
ततॊ माम अब्रवीद रामः करॊधसंरक्तलॊचनः जानीषे मां गुरुं भीष्म न चेमां परतिगृह्णसे सुतां काश्यस्य कौरव्य मत्प्रियार्थं महीपते ॥ 17 ॥
न हि ते विद्यते शान्तिर अन्यथा कुरुनन्दन गृहाणेमां महाबाहॊ रक्षस्व कुलम आत्मनः तवया विभ्रंशिता हीयं भर्तारं नाभिगच्छति ॥ 18 ॥
तथा बरुवन्तं तम अहं रामं परपुरंजयम नैतद एवं पुनर भावि बरह्मर्षे किं शरमेण ते ॥ 19 ॥
गुरुत्वं तवयि संप्रेक्ष्य जामदग्न्य पुरातनम परसादये तवां भगवंस तयक्तैषा हि पुरा मया ॥ 20 ॥
कॊ जातु परभावां हि नारीं वयालीम इव सथिताम वासयेत गृहे जानन सत्रीणां दॊषान महात्ययान ॥ 21 ॥
न भयाद वासवस्यापि धर्मं जह्यां महाद्युते परसीद मा वा यद वा ते कार्यं तत कुरु माचिरम ॥ 22 ॥
अयं चापि विशुद्धात्मन पुराणे शरूयते विभॊ मरुत्तेन महाबुद्धे गीतः शलॊकॊ महात्मना ॥ 23 ॥
गुरॊर अप्य अवलिप्तस्य कार्याकार्यम अजानतः उत्पथप्रतिपन्नस्य कार्यं भवति शासनम ॥ 24 ॥
स तवं गुरुर इति परेम्णा मया संमानितॊ भृशम गुरुवृत्तं न जानीषे तस्माद यॊत्स्याम्य अहं तवया ॥ 25 ॥
गुरुं न हन्यां समरे बराह्मणं च विशेषतः विशेषतस तपॊवृद्धम एवं कषान्तं मया तव ॥ 26 ॥
युद्यतेषुम अथॊ दृष्ट्वा बराह्मणं कषत्रबन्धुवत यॊ हन्यात समरे करुद्धॊ युध्यन्तम अपलायिनम बरह्महत्या न तस्य सयाद इति धर्मेषु निश्चयः ॥ 27 ॥
कषत्रियाणां सथितॊ धर्मे कषत्रियॊ ऽसमि तपॊधन यॊ यथा वर्तते यस्मिंस तथा तस्मिन परवर्तयन नाधर्मं समवाप्नॊति नरः शरेयश च विन्दति ॥ 28 ॥
अर्थे वा यदि वा धर्मे समर्थॊ देशकालवित अनर्थसंशयापन्नः शरेयान निःसंशयेन च ॥ 29 ॥
यस्मात संशयिते ऽरथे ऽसमिन यथान्यायं परवर्तसे तस्माद यॊत्स्यामि सहितस तवया राम महाहवे पश्य मे बाहुवीर्यं च विक्रमं चातिमानुषम ॥ 30 ॥
एवंगते ऽपि तु मया यच छक्यं भृगुनन्दन तत करिष्ये कुरुक्षेत्रे यॊत्स्ये विप्र तवया सह दवंद्वे राम यथेष्टं ते सज्जॊ भव महामुने ॥ 31 ॥
तत्र तवं निहतॊ राम मया शरशताचितः लप्स्यसे निर्जिताँल लॊकाञ शस्त्रपूतॊ महारणे ॥ 32 ॥
स गच्छ विनिवर्तस्व कुरुक्षेत्रं रणप्रिय तत्रैष्यामि महाबाहॊ युद्धाय तवां तपॊधन ॥ 33 ॥
अपि यत्र तवया राम कृतं शौचं पुरा पितुः तत्राहम अपि हत्वा तवां शौचं कर्तास्मि भार्गव ॥ 34 ॥
तत्र गच्छस्व राम तवं तवरितं युद्धदुर्मद वयपनेष्यामि ते दर्पं पौराणं बराह्मणब्रुव ॥ 35 ॥
यच चापि कत्थसे राम बहुशः परिषत्सु वै निर्जिताः कषत्रिया लॊके मयैकेनेति तच छृणु ॥ 36 ॥
न तदा जायते भीष्मॊ मद्विधः कषत्रियॊ ऽपि वा यस ते युद्धमयं दर्पं कामं च वयपनाशयेत ॥ 37 ॥
सॊ ऽहं जातॊ महाबाहॊ भीष्मः परपुरंजयः वयपनेष्यामि ते दर्पं युद्धे राम न संशयः ॥ 38 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 178
Reach this point to mark the section finished.
Continue to अध्याय 179