धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 177

  1. भीष्म उवाच एवम उक्तस तदा रामॊ जहि भीष्मम इति परभॊ उवाच रुदतीं कन्यां चॊदयन्तीं पुनः पुनः ॥ 1 ॥

  2. काश्ये कामं न गृह्णामि शस्त्रं वै वरवर्णिनि ऋते बरह्मविदां हेतॊः किम अन्यत करवाणि ते ॥ 2 ॥

  3. वाचा भीष्मश च शाल्वश च मम राज्ञि वशानुगौ भविष्यतॊ ऽनवद्याङ्गि तत करिष्यामि मा शुचः ॥ 3 ॥

  4. न तु शस्त्रं गरहीष्यामि कथं चिद अपि भामिनि ऋते नियॊगाद विप्राणाम एष मे समयः कृतः ॥ 4 ॥

  5. अम्बॊवाच मम दुःखं भगवता वयपनेयं यतस ततः तत तु भीष्मप्रसूतं मे तं जहीश्वर माचिरम ॥ 5 ॥

  6. राम उवाच काशिकन्ये पुनर बरूहि भीष्मस ते चरणाव उभौ शिरसा वन्दनार्हॊ ऽपि गरहीष्यति गिरा मम ॥ 6 ॥

  7. अम्बॊवाच जहि भीष्मं रणे राम मम चेद इच्छसि परियम परतिश्रुतं च यदि तत सत्यं कर्तुम इहार्हसि ॥ 7 ॥

  8. भीष्म उवाच तयॊः संवदतॊर एवं राजन रामाम्बयॊस तदा अकृतव्रणॊ जामदग्न्यम इदं वचनम अब्रवीत ॥ 8 ॥

  9. शरणागतां महाबाहॊ कन्यां न तयक्तुम अर्हसि जहि भीष्मं रणे राम गर्जन्तम असुरं यथा ॥ 9 ॥

  10. यदि भीष्मस तवयाहूतॊ रणे राम महामुने निर्जितॊ ऽसमीति वा बरूयात कुर्याद वा वचनं तव ॥ 10 ॥

  11. कृतम अस्या भवेत कार्यं कन्याया भृगुनन्दन वाक्यं सत्यं च ते वीर भविष्यति कृतं विभॊ ॥ 11 ॥

  12. इयं चापि परतिज्ञा ते तदा राम महामुने जित्वा वै कषत्रियान सर्वान बराह्मणेषु परतिश्रुतम ॥ 12 ॥

  13. बराह्मणः कषत्रियॊ वैश्यः शूद्रश चैव रणे यदि बरह्मद्विड भविता तं वै हनिष्यामीति भार्गव ॥ 13 ॥

  14. शरणं हि परपन्नानां भीतानां जीवितार्थिनाम न शक्ष्यामि परित्यागं कर्तुं जीवन कथं चन ॥ 14 ॥

  15. यश च कषत्रं रणे कृत्स्नं विजेष्यति समागतम दृप्तात्मानम अहं तं च हनिष्यामीति भार्गव ॥ 15 ॥

  16. स एवं विजयी राम भीष्मः कुरुकुलॊद्वहः तेन युध्यस्व संग्रामे समेत्य भृगुनन्दन ॥ 16 ॥

  17. राम उवाच समराम्य अहं पूर्वकृतां परतिज्ञाम ऋषिसत्तम तथैव च करिष्यामि यथा साम्नैव लप्स्यते ॥ 17 ॥

  18. कार्यम एतन महद बरह्मन काशिकन्यामनॊगतम गमिष्यामि सवयं तत्र कन्याम आदाय यत्र सः ॥ 18 ॥

  19. यदि भीष्मॊ रणश्लाघी न करिष्यति मे वचः हनिष्याम्य एनम उद्रिक्तम इति मे निश्चिता मतिः ॥ 19 ॥

  20. न हि बाणा मयॊत्सृष्टाः सज्जन्तीह शरीरिणाम कायेषु विदितं तुभ्यं पुरा कषत्रिय संगरे ॥ 20 ॥

  21. भीष्म उवाच एवम उक्त्वा ततॊ रामः सह तैर बरह्मवादिभिः परयाणाय मतिं कृत्वा समुत्तस्थौ महामनाः ॥ 21 ॥

  22. ततस ते ताम उषित्वा तु रजनीं तत्र तापसाः हुताग्नयॊ जप्तजप्याः परतस्थुर मज्जिघांसया ॥ 22 ॥

  23. अभ्यगच्छत ततॊ रामः सह तैर बराह्मणर्षभैः कुरुक्षेत्रं महाराज कन्यया सह भारत ॥ 23 ॥

  24. नयविशन्त ततः सर्वे परिगृह्य सरस्वतीम तापसास ते महात्मानॊ भृगुश्रेष्ठपुरस्कृताः ॥ 24 ॥

Reach this point to mark the section finished.

Continue to अध्याय 178

Previous: अध्याय 176