अकृतव्रण उवाच दुःखद्वयम इदं भद्रे कतरस्य चिकीर्षसि परतिकर्तव्यम अबले तत तवं वत्से बरवीहि मे ॥ 1 ॥
यदि सौभपतिर भद्रे नियॊक्तव्यॊ मते तव नियॊक्ष्यति महात्मा तं रामस तवद्धितकाम्यया ॥ 2 ॥
अथापगेयं भीष्मं तं रामेणेच्छसि धीमता रणे विनिर्जितं दरष्टुं कुर्यात तद अपि भार्गवः ॥ 3 ॥
सृञ्जयस्य वचः शरुत्वा तव चैव शुचिस्मिते यद अत्रानन्तरं कार्यं तद अद्यैव विचिन्त्यताम ॥ 4 ॥
अम्बॊवाच अपनीतास्मि भीष्मेण भगवन्न अविजानता न हि जानाति मे भीष्मॊ बरह्मञ शाल्वगतं मनः ॥ 5 ॥
एतद विचार्य मनसा भवान एव विनिश्चयम विचिनॊतु यथान्यायं विधानं करियतां तथा ॥ 6 ॥
भीष्मे वा कुरुशार्दूले शाल्वराजे ऽथ वा पुनः उभयॊर एव वा बरह्मन यद युक्तं तत समाचर ॥ 7 ॥
निवेदितं मया हय एतद दुःखमूलं यथातथम विधानं तत्र भगवन कर्तुम अर्हसि युक्तितः ॥ 8 ॥
अकृतव्रण उवाच उपपन्नम इदं भद्रे यद एवं वरवर्णिनि धर्मं परति वचॊ बरूयाः शृणु चेदं वचॊ मम ॥ 9 ॥
यदि तवाम आपगेयॊ वै न नयेद गजसाह्वयम शाल्वस तवां शिरसा भीरु गृह्णीयाद रामचॊदितः ॥ 10 ॥
तेन तवं निर्जिता भद्रे यस्मान नीतासि भामिनि संशयः शाल्वराजस्य तेन तवयि सुमध्यमे ॥ 11 ॥
भीष्मः पुरुषमानी च जितकाशी तथैव च तस्मात परतिक्रिया युक्ता भीष्मे कारयितुं तवया ॥ 12 ॥
अम्बॊवाच ममाप्य एष महान बरह्मन हृदि कामॊ ऽभिवर्तते घातयेयं यदि रणे भीष्मम इत्य एव नित्यदा ॥ 13 ॥
भीष्मं वा शाल्वराजं वा यं वा दॊषेण गच्छसि परशाधि तं महाबाहॊ यत्कृते ऽहं सुदुःखिता ॥ 14 ॥
भीष्म उवाच एवं कथयताम एव तेषां स दिवसॊ गतः रात्रिश च भरतश्रेष्ठ सुखशीतॊष्णमारुता ॥ 15 ॥
ततॊ रामः परादुरासीत परज्वलन्न इव तेजसा शिष्यैः परिवृतॊ राजञ जटाचीरधरॊ मुनिः ॥ 16 ॥
धनुष्पाणिर अदीनात्मा खड्गं बिभ्रत परश्वधी विरजा राजशार्दूल सॊ ऽभययात सृञ्जयं नृपम ॥ 17 ॥
ततस तं तापसा दृष्ट्वा स च राजा महातपाः तस्थुः पराञ्जलयः सर्वे सा च कन्या तपस्विनी ॥ 18 ॥
पूजयाम आसुर अव्यग्रा मधुपर्केण भार्गवम अर्चितश च यथायॊगं निषसाद सहैव तैः ॥ 19 ॥
ततः पूर्वव्यतीतानि कथयेते सम ताव उभौ सृञ्जयश च स राजर्षिर जामदग्न्यश च भारत ॥ 20 ॥
ततः कथान्ते राजर्षिर भृगुश्रेष्ठं महाबलम उवाच मधुरं काले रामं वचनम अर्थवत ॥ 21 ॥
रामेयं मम दौहित्री काशिराजसुता परभॊ अस्याः शृणु यथातत्त्वं कार्यं कार्यविशारद ॥ 22 ॥
परमं कथ्यतां चेति तां रामः परत्यभाषत ततः साभ्यगमद रामं जवलन्तम इव पावकम ॥ 23 ॥
सा चाभिवाद्य चरणौ रामस्य शिरसा शुभा सपृष्ट्वा पद्मदलाभाभ्यां पाणिभ्याम अग्रतः सथिता ॥ 24 ॥
रुरॊद सा शॊकवती बाष्पव्याकुललॊचना परपेदे शरणं चैव शरण्यं भृगुनन्दनम ॥ 25 ॥
राम उवाच यथासि सृञ्जयस्यास्य तथा मम नृपात्मजे बरूहि यत ते मनॊदुःखं करिष्ये वचनं तव ॥ 26 ॥
अम्बॊवाच भगवञ शरणं तवाद्य परपन्नास्मि महाव्रत शॊकपङ्कार्णवाद घॊराद उद्धरस्व च मां विभॊ ॥ 27 ॥
भीष्म उवाच तस्याश च दृष्ट्वा रूपं च वयश चाभिनवं पुनः सौकुमार्यं परं चैव रामश चिन्तापरॊ ऽभवत ॥ 28 ॥
किम इयं वक्ष्यतीत्य एवं विमृशन भृगुसत्तमः इति दध्यौ चिरं रामः कृपयाभिपरिप्लुतः ॥ 29 ॥
कथ्यताम इति सा भूयॊ रामेणॊक्ता शुचिस्मिता सर्वम एव यथातत्त्वं कथयाम आस भार्गवे ॥ 30 ॥
तच छरुत्वा जामदग्न्यस तु राजपुत्र्या वचस तदा उवाच तां वरारॊहां निश्चित्यार्थविनिश्चयम ॥ 31 ॥
परेषयिष्यामि भीष्माय कुरुश्रेष्ठाय भामिनि करिष्यति वचॊ धर्म्यं शरुत्वा मे स नराधिपः ॥ 32 ॥
न चेत करिष्यति वचॊ मयॊक्तं जाह्नवीसुतः धक्ष्याम्य एनं रणे भद्रे सामात्यं शस्त्रतेजसा ॥ 33 ॥
अथ वा ते मतिस तत्र राजपुत्रि निवर्तते तावच छाल्वपतिं वीरं यॊजयाम्य अत्र कर्मणि ॥ 34 ॥
अम्बॊवाच विसर्जितास्मि भीष्मेण शरुत्वैव भृगुनन्दन शाल्वराजगतं चेतॊ मम पूर्वं मनीषितम ॥ 35 ॥
सौभराजम उपेत्याहम अब्रुवं दुर्वचं वचः न च मां परत्यगृह्णात स चारित्रपरिशङ्कितः ॥ 36 ॥
एतत सर्वं विनिश्चित्य सवबुद्ध्या भृगुनन्दन यद अत्रौपयिकं कार्यं तच चिन्तयितुम अर्हसि ॥ 37 ॥
ममात्र वयसनस्यास्य भीष्मॊ मूलं महाव्रतः येनाहं वशम आनीता समुत्क्षिप्य बलात तदा ॥ 38 ॥
भीष्मं जहि महाबाहॊ यत्कृते दुःखम ईदृशम पराप्ताहं भृगुशार्दूल चराम्य अप्रियम उत्तमम ॥ 39 ॥
स हि लुब्धश च मानी च जितकाशी च भार्गव तस्मात परतिक्रिया कर्तुं युक्ता तस्मै तवयानघ ॥ 40 ॥
एष मे हरियमाणाया भारतेन तदा विभॊ अभवद धृदि संकल्पॊ घातयेयं महाव्रतम ॥ 41 ॥
तस्मात कामं ममाद्येमं राम संवर्तयानघ जहि भीष्मं महाबाहॊ यथा वृत्रं पुरंदरः ॥ 42 ॥
उद्योगपर्व · Udyoga Parva
अध्याय 176
Reach this point to mark the section finished.
Continue to अध्याय 177