धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 175

  1. हॊत्रवाहन उवाच रामं दरक्ष्यसि वत्से तवं जामदग्न्यं महावने उग्रे तपसि वर्तन्तं सत्यसंधं महाबलम ॥ 1 ॥

  2. महेन्द्रे वै गिरिश्रेष्ठे रामं नित्यम उपासते ऋषयॊ वेदविदुषॊ गन्धर्वाप्सरसस तथा ॥ 2 ॥

  3. तत्र गच्छस्व भद्रं ते बरूयाश चैनं वचॊ मम अभिवाद्य पूर्वं शिरसा तपॊवृद्धं दृढव्रतम ॥ 3 ॥

  4. बरूयाश चैनं पुनर भद्रे यत ते कार्यं मनीषितम मयि संकीर्तिते रामः सर्वं तत ते करिष्यति ॥ 4 ॥

  5. मम रामः सखा वत्से परीतियुक्तः सुहृच च मे जमदग्निसुतॊ वीरः सर्वशस्त्रभृतां वरः ॥ 5 ॥

  6. एवं बरुवति कन्यां तु पार्थिवे हॊत्रवाहने अकृतव्रणः परादुरासीद रामस्यानुचरः परियः ॥ 6 ॥

  7. ततस ते मुनयः सर्वे समुत्तस्थुः सहस्रशः स च राजा वयॊवृद्धः सृञ्जयॊ हॊत्रवाहनः ॥ 7 ॥

  8. ततः पृष्ट्वा यथान्यायम अन्यॊन्यं ते वनौकसः सहिता भरतश्रेष्ठ निषेदुः परिवार्य तम ॥ 8 ॥

  9. ततस ते कथयाम आसुः कथास तास ता मनॊरमाः कान्ता दिव्याश च राजेन्द्र परीतिहर्षमुदा युताः ॥ 9 ॥

  10. ततः कथान्ते राजर्षिर महात्मा हॊत्रवाहनः रामं शरेष्ठं महर्षीणाम अपृच्छद अकृतव्रणम ॥ 10 ॥

  11. कव संप्रति महाबाहॊ जामदग्न्यः परतापवान अकृतव्रण शक्यॊ वै दरष्टुं वेदविदां वरः ॥ 11 ॥

  12. अकृतव्रण उवाच भवन्तम एव सततं रामः कीर्तयति परभॊ सृञ्जयॊ मे परियसखॊ राजर्षिर इति पार्थिव ॥ 12 ॥

  13. इह रामः परभाते शवॊ भवितेति मतिर मम दरष्टास्य एनम इहायान्तं तव दर्शनकाङ्क्षया ॥ 13 ॥

  14. इयं च कन्या राजर्षे किमर्थं वनम आगता कस्य चेयं तव च का भवतीच्छामि वेदितुम ॥ 14 ॥

  15. हॊत्रवाहन उवाच दौहित्रीयं मम विभॊ काशिराजसुता शुभा जयेष्ठा सवयंवरे तस्थौ भगिनीभ्यां सहानघ ॥ 15 ॥

  16. इयम अम्बेति विख्याता जयेष्ठा काशिपतेः सुता अम्बिकाम्बालिके तव अन्ये यवीयस्यौ तपॊधन ॥ 16 ॥

  17. समेतं पार्थिवं कषत्रं काशिपुर्यां ततॊ ऽभवत कन्यानिमित्तं बरह्मर्षे तत्रासीद उत्सवॊ महान ॥ 17 ॥

  18. ततः किल महावीर्यॊ भीष्मः शांतनवॊ नृपान अवाक्षिप्य महातेजास तिस्रः कन्या जहार ताः ॥ 18 ॥

  19. निर्जित्य पृथिवीपालान अथ भीष्मॊ गजाह्वयम आजगाम विशुद्धात्मा कन्याभिः सह भारत ॥ 19 ॥

  20. सत्यवत्यै निवेद्याथ विवाहार्थम अनन्तरम भरातुर विचित्रवीर्यस्य समाज्ञापयत परभुः ॥ 20 ॥

  21. ततॊ वैवाहिकं दृष्ट्वा कन्येयं समुपार्जितम अब्रवीत तत्र गाङ्गेयं मन्त्रिमध्ये दविजर्षभ ॥ 21 ॥

  22. मया शाल्वपतिर वीर मनसाभिवृतः पतिः न माम अर्हसि धर्मज्ञ परचित्तां परदापितुम ॥ 22 ॥

  23. तच छरुत्वा वचनं भीष्मः संमन्त्र्य सह मन्त्रिभिः निश्चित्य विससर्जेमां सत्यवत्या मते सथितः ॥ 23 ॥

  24. अनुज्ञाता तु भीष्मेण शाल्वं सौभपतिं ततः कन्येयं मुदिता विप्र काले वचनम अब्रवीत ॥ 24 ॥

  25. विसर्जितास्मि भीष्मेण धर्मं मां परतिपादय मनसाभिवृतः पूर्वं मया तवं पार्थिवर्षभ ॥ 25 ॥

  26. परत्याचख्यौ च शाल्वॊ ऽपि चारित्रस्याभिशङ्कितः सेयं तपॊवनं पराप्ता तापस्ये ऽभिरता भृशम ॥ 26 ॥

  27. मया च परत्यभिज्ञाता वंशस्य परिकीर्तनात अस्य दुःखस्य चॊत्पत्तिं भीष्मम एवेह मन्यते ॥ 27 ॥

  28. अम्बॊवाच भगवन्न एवम एवैतद यथाह पृथिवीपतिः शरीरकर्ता मातुर मे सृञ्जयॊ हॊत्रवाहनः ॥ 28 ॥

  29. न हय उत्सहे सवनगरं परतियातुं तपॊधन अवमानभयाच चैव वरीडया च महामुने ॥ 29 ॥

  30. यत तु मां भगवान रामॊ वक्ष्यति दविजसत्तम तन मे कार्यतमं कार्यम इति मे भगवन मतिः ॥ 30 ॥

Reach this point to mark the section finished.

Continue to अध्याय 176

Previous: अध्याय 174