धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 174

  1. भीष्म उवाच ततस ते तापसाः सर्वे कार्यवन्तॊ ऽभवंस तदा तां कन्यां चिन्तयन्तॊ वै किं कार्यम इति धर्मिणः ॥ 1 ॥

  2. के चिद आहुः पितुर वेश्म नीयताम इति तापसाः के चिद अस्मदुपालम्भे मतिं चक्रुर दविजॊत्तमाः ॥ 2 ॥

  3. के चिच छाल्वपतिं गत्वा नियॊज्यम इति मेनिरे नेति के चिद वयवस्यन्ति परत्याख्याता हि तेन सा ॥ 3 ॥

  4. एवंगते किं नु शक्यं भद्रे कर्तुं मनीषिभिः पुनर ऊचुश च ते सर्वे तापसाः संशितव्रताः ॥ 4 ॥

  5. अलं परव्रजितेनेह भद्रे शृणु हितं वचः इतॊ गच्छस्व भद्रं ते पितुर एव निवेशनम ॥ 5 ॥

  6. परतिपत्स्यति राजा स पिता ते यद अनन्तरम तत्र वत्स्यसि कल्याणि सुखं सर्वगुणान्विता न च ते ऽनया गतिर नयाय्या भवेद भद्रे यथा पिता ॥ 6 ॥

  7. पतिर वापि गतिर नार्याः पिता वा वरवर्णिनि गतिः पतिः समस्थाया विषमे तु पिता गतिः ॥ 7 ॥

  8. परव्रज्या हि सुदुःखेयं सुकुमार्या विशेषतः राजपुत्र्याः परकृत्या च कुमार्यास तव भामिनि ॥ 8 ॥

  9. भद्रे दॊषा हि विद्यन्ते बहवॊ वरवर्णिनि आश्रमे वै वसन्त्यास ते न भवेयुः पितुर गृहे ॥ 9 ॥

  10. ततस तु ते ऽबरुवन वाक्यं बराह्मणास तां तपस्विनीम तवाम इहैकाकिनीं दृष्ट्वा निजने गहने वने परार्थयिष्यन्ति राजेन्द्रास तस्मान मैवं मनः कृथाः ॥ 10 ॥

  11. अम्बॊवाच न शक्यं काशिनगरीं पुनर गन्तुं पितुर गृहान अवज्ञाता भविष्यामि बान्धवानां न संशयः ॥ 11 ॥

  12. उषिता हय अन्यथा बाल्ये पितुर वेश्मनि तापसाः नाहं गमिष्ये भद्रं वस तत्र यत्र पिता मम तपस तप्तुम अभीप्सामि तापसैः परिपालिता ॥ 12 ॥

  13. यथा परे ऽपि मे लॊके न सयाद एवं महात्ययः दौर्भाग्यं बराह्मणश्रेष्ठास तस्मात तप्स्याम्य अहं तपः ॥ 13 ॥

  14. भीष्म उवाच इत्य एवं तेषु विप्रेषु चिन्तयत्सु तथा तथा राजर्षिस तद वनं पराप्तस तपस्वी हॊत्रवाहनः ॥ 14 ॥

  15. ततस ते तापसाः सर्वे पूजयन्ति सम तं नृपम पूजाभिः सवागताद्याभिर आसनेनॊदकेन च ॥ 15 ॥

  16. तस्यॊपविष्टस्य ततॊ विश्रान्तस्यॊपशृण्वतः पुनर एव कथां चक्रुः कन्यां परति वनौकसः ॥ 16 ॥

  17. अम्बायास तां कथां शरुत्वा काशिराज्ञश च भारत स वेपमान उत्थाय मातुर अस्याः पिता तदा तां कन्याम अङ्गम आरॊप्य पर्याश्वासयत परभॊ ॥ 17 ॥

  18. स ताम अपृच्छत कार्त्स्न्येन वयसनॊत्पत्तिम आदितः सा च तस्मै यथावृत्तं विस्तरेण नयवेदयत ॥ 18 ॥

  19. ततः स राजर्षिर अभूद दुःखशॊकसमन्वितः कार्यं च परतिपेदे तन मनसा सुमहातपाः ॥ 19 ॥

  20. अब्रवीद वेपमानश च कन्याम आर्तां सुदुःखितः मा गाः पितृगृहं भद्रे मातुस ते जनकॊ हय अहम ॥ 20 ॥

  21. दुःखं छेत्स्यामि ते ऽहं वै मयि वर्तस्व पुत्रिके पर्याप्तं ते मनः पुत्रि यद एवं परिशुष्यसि ॥ 21 ॥

  22. गच्छ मद्वचनाद रामं जामदग्न्यं तपस्विनम रामस तव महद दुःखं शॊकं चापनयिष्यति हनिष्यति रणे भीष्मं न करिष्यति चेद वचः ॥ 22 ॥

  23. तं गच्छ भार्गवश्रेष्ठं कालाग्निसमतेजसम परतिष्ठापयिता स तवां समे पथि महातपाः ॥ 23 ॥

  24. ततस तु सस्वरं बाष्पम उत्सृजन्ती पुनः पुनः अब्रवीत पितरं मातुः सा तदा हॊत्रवाहनम ॥ 24 ॥

  25. अभिवादयित्वा शिरसा गमिष्ये तव शासनात अपि नामाद्य पश्येयम आर्यं तं लॊकविश्रुतम ॥ 25 ॥

  26. कथं च तीव्रं दुःखं मे हनिष्यति स भार्गवः एतद इच्छाम्य अहं शरॊतुम अथ यास्यामि तत्र वै ॥ 26 ॥

Reach this point to mark the section finished.

Continue to अध्याय 175

Previous: अध्याय 173