धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 173

  1. भीष्म उवाच सा निष्क्रमन्ती नगराच चिन्तयाम आस भारत पृथिव्यां नास्ति युवतिर विषमस्थतरा मया बान्धवैर विप्रहीनास्मि शाल्वेन च निराकृता ॥ 1 ॥

  2. न च शक्यं पुनर गन्तुं मया वारणसाह्वयम अनुज्ञातास्मि भीष्मेण शाल्वम उद्दिश्य कारणम ॥ 2 ॥

  3. किं नु गर्हाम्य अथात्मानम अथ भीष्मं दुरासदम आहॊस्वित पितरं मूढं यॊ मे ऽकार्षीत सवयंवरम ॥ 3 ॥

  4. ममायं सवकृतॊ दॊषॊ याहं भीष्मरथात तदा परवृत्ते वैशसे युद्धे शाल्वार्थं नापतं पुरा तस्येयं फलनिर्वृत्तिर यद आपन्नास्मि मूढवत ॥ 4 ॥

  5. धिग भीष्मं धिक च मे मन्दं पितरं मूढचेतसम येनाहं वीर्यशुल्केन पण्यस्त्रीवत परवेरिता ॥ 5 ॥

  6. धिङ मां धिक शाल्वराजानं धिग धातारम अथापि च येषां दुर्नीतभावेन पराप्तास्म्य आपदम उत्तमाम ॥ 6 ॥

  7. सर्वथा भागधेयानि सवानि पराप्नॊति मानवः अनयस्यास्य तु मुखं भीष्मः शांतनवॊ मम ॥ 7 ॥

  8. सा भीष्मे परतिकर्तव्यम अहं पश्यामि सांप्रतम तपसा वा युधा वापि दुःखहेतुः स मे मतः कॊ नु भीष्मं युधा जेतुम उत्सहेत महीपतिः ॥ 8 ॥

  9. एवं सा परिनिश्चित्य जगाम नगराद बहिः आश्रमं पुण्यशीलानां तापसानां महात्मनाम ततस ताम अवसद रात्रिं तापसैः परिवारिता ॥ 9 ॥

  10. आचख्यौ च यथावृत्तं सर्वम आत्मनि भारत विस्तरेण महाबाहॊ निखिलेन शुचिस्मिता हरणं च विसर्गं च शाल्वेन च विसर्जनम ॥ 10 ॥

  11. ततस तत्र महान आसीद बराह्मणः संशितव्रतः शैखावत्यस तपॊवृद्धः शास्त्रे चारण्यके गुरुः ॥ 11 ॥

  12. आर्तां ताम आह स मुनिः शैखावत्यॊ महातपाः निःश्वसन्तीं सतीं बालां दुःखशॊकपरायणाम ॥ 12 ॥

  13. एवंगते किं नु भद्रे शक्यं कर्तुं तपस्विभिः आश्रमस्थैर महाभागैस तपॊनित्यैर महात्मभिः ॥ 13 ॥

  14. सा तव एनम अब्रवीद राजन करियतां मदनुग्रहः परव्राजितुम इहेच्छामि तपस तप्स्यामि दुश्चरम ॥ 14 ॥

  15. मयैवैतानि कर्माणि पूर्वदेहेषु मूढया कृतानि नूनं पापानि तेषाम एतत फलं धरुवम ॥ 15 ॥

  16. नॊत्सहेयं पुनर गन्तुं सवजनं परति तापसाः परत्याख्याता निरानन्दा शाल्वेन च निराकृता ॥ 16 ॥

  17. उपदिष्टम इहेच्छामि तापस्यं वीतकल्मषाः युष्माभिर देवसंकाशाः कृपा भवतु वॊ मयि ॥ 17 ॥

  18. स ताम आश्वासयत कन्यां दृष्टान्तागमहेतुभिः सान्त्वयाम आस कार्यं च परतिजज्ञे दविजैः सह ॥ 18 ॥

Reach this point to mark the section finished.

Continue to अध्याय 174

Previous: अध्याय 172