धर्मDharmic Data

उद्योगपर्व · Udyoga Parva

अध्याय 172

  1. भीष्म उवाच ततॊ ऽहं समनुज्ञाप्य कालीं सत्यवतीं तदा मन्त्रिणश च दविजांश चैव तथैव च पुरॊहितान समनुज्ञासिषं कन्यां जयेष्ठाम अम्बां नराधिप ॥ 1 ॥

  2. अनुज्ञाता ययौ सा तु कन्या शाल्वपतेः पुरम वृद्धैर दविजातिभिर गुप्ता धात्र्या चानुगता तदा अतीत्य च तम अध्वानम आससाद नराधिपम ॥ 2 ॥

  3. सा तम आसाद्य राजानं शाल्वं वचनम अब्रवीत आगताहं महाबाहॊ तवाम उद्दिश्य महाद्युते ॥ 3 ॥

  4. ताम अब्रवीच छाल्वपतिः समयन्न इव विशां पते तवयान्यपूर्वया नाहं भार्यार्थी वरवर्णिनि ॥ 4 ॥

  5. गच्छ भद्रे पुनस तत्र सकाशं भारतस्य वै नाहम इच्छामि भीष्मेण गृहीतां तवां परसह्य वै ॥ 5 ॥

  6. तवं हि निर्जित्य भीष्मेण नीता परीतिमती तदा परामृश्य महायुद्धे निर्जित्य पृथिवीपतीन नाहं तवय्य अन्यपूर्वायां भार्यार्थी वरवर्णिनि ॥ 6 ॥

  7. कथम अस्मद्विधॊ राजा परपूर्वां परवेशयेत नारीं विदितविज्ञानः परेषां धर्मम आदिशन यथेष्टं गम्यतां भद्रे मा ते कालॊ ऽतयगाद अयम ॥ 7 ॥

  8. अम्बा तम अब्रवीद राजन्न अनङ्गशरपीडिता मैवं वद महीपाल नैतद एवं कथं चन ॥ 8 ॥

  9. नास्मि परीतिमती नीता भीष्मेणामित्रकर्शन बलान नीतास्मि रुदती विद्राव्य पृथिवीपतीन ॥ 9 ॥

  10. भजस्व मां शाल्वपते भक्तां बालाम अनागसम भक्तानां हि परित्यागॊ न धर्मेषु परशस्यते ॥ 10 ॥

  11. साहम आमन्त्र्य गाङ्गेयं समरेष्व अनिवर्तिनम अनुज्ञाता च तेनैव तवैव गृहम आगता ॥ 11 ॥

  12. न स भीष्मॊ महाबाहुर माम इच्छति विशां पते भरातृहेतॊः समारम्भॊ भीष्मस्येति शरुतं मया ॥ 12 ॥

  13. भगिन्यौ मम ये नीते अम्बिकाम्बालिके नृप परादाद विचित्रवीर्याय गाङ्गेयॊ हि यवीयसे ॥ 13 ॥

  14. यथा शाल्वपते नान्यं नरं धयामि कथं चन तवाम ऋते पुरुषव्याघ्र तथा मूर्धानम आलभे ॥ 14 ॥

  15. न चान्यपूर्वा राजेन्द्र तवाम अहं समुपस्थिता सत्यं बरवीमि शाल्वैतत सत्येनात्मानम आलभे ॥ 15 ॥

  16. भजस्व मां विशालाक्ष सवयं कन्याम उपस्थिताम अनन्यपूर्वां राजेन्द्र तवत्प्रसादाभिकाङ्क्षिणीम ॥ 16 ॥

  17. ताम एवं भाषमाणां तु शाल्वः काशिपतेः सुताम अत्यजद भरतश्रेष्ठ तवचं जीर्णाम इवॊरगः ॥ 17 ॥

  18. एवं बहुविधैर वाक्यैर याच्यमानस तयानघ नाश्रद्दधच छाल्वपतिः कन्याया भरतर्षभ ॥ 18 ॥

  19. ततः सा मन्युनाविष्टा जयेष्ठा काशिपतेः सुता अब्रवीत साश्रुनयना बाष्पविह्वलया गिरा ॥ 19 ॥

  20. तवया तयक्ता गमिष्यामि यत्र यत्र विशां पते तत्र मे सन्तु गतयः सन्तः सत्यं यथाब्रुवम ॥ 20 ॥

  21. एवं संभाषमाणां तु नृशंसः शाल्वराट तदा पर्यत्यजत कौरव्य करुणं परिदेवतीम ॥ 21 ॥

  22. गच्छ गच्छेति तां शाल्वः पुनः पुनर अभाषत बिभेमि भीष्मात सुश्रॊणि तं च भीष्मपरिग्रहः ॥ 22 ॥

  23. एवम उक्ता तु सा तेन शाल्वेनादीर्घदर्शिना निश्चक्राम पुराद दीना रुदती कुररी यथा ॥ 23 ॥

Reach this point to mark the section finished.

Continue to अध्याय 173

Previous: अध्याय 171